________________ लघी प्रमाणप्र० का०७] अवयव-अवयविनोर्भेदाऽभेदादिवादः 227 तिसिद्धः तन्त्वाद्यवयवानामाऽऽतानवितानीभावादिपरिणतानाम् आत्मभूतोऽवस्थाविशेषः पटायवयवी नाऽसौ निरस्यते, तत्र वृत्तिविकल्पादिदूषणाऽनवतारात् / अर्थान्तरभूतं हि वस्तु वर्तमानम् 'एकदेशेन सर्वात्मना वा वर्तते' इत्यादिदोषमास्कन्दति, न पुनः स्वात्मभूतम् तस्य तथापरिणामात् / यत् स्वात्मनोऽर्थान्तरे वर्त्तते तत् सर्वात्मना एकदेशेन वा, यथा कुण्डे / बिल्वादि अनेकाऽऽसनेषु देवदत्तादि च, स्वात्मनोऽर्थान्तरेष्ववयवेषु वर्तते च अवयवीति / 5 ___यच्चान्यदुक्तम्-'वृत्तिश्च समवायः' इत्यादि; तदप्युक्तिमात्रम् ; समवायस्य निर्मूलमुन्मूलितत्वेन आकाशकुशेशयवत् कस्यचित् क्वचिद् वृत्तित्वाऽनुपपत्तेः / यदप्यभिहितम् -'कास्न्यैकदेशशब्दयोर्भेदविषयत्वाद् अभिन्नेऽवयविनि प्रवृत्तिरयुक्ता' इत्यादि; तदप्यभिधानमात्रम् ; अनेकाऽ वयवेषु एकस्याऽनंशस्य अर्थान्तरभूतस्याऽवयविनो वर्तमानस्य अप्रतीतेः, कास्न्यैकदेशञ्च परित्यज्य प्रकारान्तरेण वृत्तरप्यप्रतीतेः / यत् खलु यत्र वर्तते तद् एकदेशेन यथा स्थूणासु वंशः, 10 सर्वात्मना वा यथा कुण्डे दधीति / अतः प्रकारद्वयाऽनभ्युपगमेऽवयविनोऽवयवेषु वृत्त्यनुपपत्तिः, तद्वथापकयोः एकदेश-साकल्ययोरभावात् , तदनुपपत्तौ च अस्य अतः सर्वथा भेदाऽभावः / तथाहि-तन्त्वाद्यवयवेभ्यो न सर्वथा भिन्नः पटाद्यवयवी, कात्स्न्यैकदेशाऽवृत्तित्वात् , यत्तु यतः सर्वथा भिन्नम् न तत्र तस्य कात्स्न्यैकदेशाऽवृत्तिः यथा कुण्डादौ दध्यादेः, कात्स्न्यैकदेशाsवृत्तिश्च अवयवेषु अवयविन इति / निरंशैकस्वभावत्वे च अवयविनः सकृदनेकाऽवयवव्यापित्वाऽनुपपत्तिः; तथाहि-यत् निरंशैकस्वभावं द्रव्यम् तन्न सकृदनेकद्रव्यव्यापि यथा परमाणुः,निरंशैकस्वभावञ्च अवयविद्रव्यमिति / न च आकाशादिनाऽनेकान्तः ; तस्य अनन्तादिप्रदेशतया निरंशत्वाऽसिद्धेः / यदि वा, यद् अनेक द्रव्यं तन्न सकृन्निरंशैकद्रव्यव्याप्तम् यथा कटकुड्यादि परमाणुना, अनेकद्रव्याणि च अवयवा इति / निरंशत्वं च अवयविनः कोपीनादिना शरीरस्य एकदेशाऽऽवरणे सकलशरीर- 20 मात्रियते, न वा ? यदि आब्रियते; तर्हि विवक्षिताऽवयववत् सकलस्याऽस्य अनुपलब्धिप्रसङ्गः। 1 "कृत्स्नैकदेशशब्दाभ्यामयञ्चार्थः प्रकाशते। नैरंश्येनास्य किं वृत्तिः किं वा तस्यान्यथैव सा // 620 // यथा पात्रादिसंस्थस्य श्रीफलादेर्यथाऽथवा। अनेकासनसंस्थस्य चैत्रादेरुपलक्षिता // 621 // " तत्त्वसं० पृ०.२०५। प्रमेयक पृ० 162 उ० / सन्मति० टी० पृ० 668 / “नानाकारकविज्ञानं स्वाधारे बदरादिवत् / तादात्म्येन पृथग्भावे सति वृत्तिर्विकल्प्यते // 10 // " न्यायवि० पृ. 481 उ० / 2 पृ. 224 पं०६। 3 पृ. 224 पं०७।४ "एकावयव्यनुगता नैव तन्तुकरादयः / अनेकत्वाद्यथा सिद्धाः कटकुड्यकुटादयः // 605 // यदि वाऽभिमतं द्रव्यं नानेकावयवाश्रितं / एकत्वादणुववृत्तरयुक्तिर्बाधिका प्रमा // 606 // " तत्त्वसं० पृ० 201 / सन्मति. टी. पृ०६६५। 5 अवयविनः इ-ब०, ज० / 6 “स्थूलस्यैकस्वभावत्वे मक्षिकापदमात्रतः। पिधाने पिहितं सर्वमासज्येताविभागतः // 593 // रक्त च राग एकस्मिन् सर्वं रज्येत रक्तवत् / विरुद्धधर्मभावे वा नानात्वमनुषज्यते // 594 // " तत्त्वसं० पृ० 198 // प्रमाणवा० 2085 / सन्मति० टी० पृ. 663 / स्या. रत्ना० पृ.८८३ / ७-कलं श-श्र० /