________________ 226 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरिक भेदरूपतया अवयवाऽवयविनौ इति / तेन्त्वाद्यवयवानां हि अवस्थाविशेषः स्वात्मभूतः शीतापनोदाद्यर्थक्रियाकारी पटाद्यवयवी प्रतिभासते न पुनः तेभ्योऽत्यन्तमर्थान्तरभूतः, तथाविधस्य अस्य स्वप्नेऽप्यप्रतिभासनात् / तथा तदप्रतिभासनं हि अदृश्यस्वभावत्वात् , समवायात् , कार्यकारणभावात् , विशेषण५ विशेष्यभावाद्वा ? न तावद् अदृश्यस्वभावत्वात् ; 'भूयोऽवयवग्रहणे सति अवयविनो ग्रहणम्' इत्यभ्युपगमव्याघातप्रसङ्गात् / नापि समवायात्; कथञ्चित्तादात्म्यव्यतिरेकेण अपरस्य समवायस्य समवायनिषेधे निषेत्स्यमानत्वात् / नापि कार्यकारणभावात् ; कुम्भ-कुम्भकारयोरप्यभेदप्रतिभासप्रसङ्गात् / तन्त्वाद्यवयवानां पटाद्यवयविनं प्रति समवायिकारणत्वात्तत्रैव अभेदप्रति भासः; इत्यप्यसुन्दरम् ; समवायाऽसिद्धौ समवायिकारणत्वस्याप्यसिद्धेः, नहि कथञ्चित्तादा१० त्म्यमन्तरेण अन्यः समवायः, तथापरिणामित्वव्यतिरेकेण वा अन्यत् समवायिकारणं वापि प्रसिद्धम् / नापि विशेषणविशेष्यभावात् ; दण्ड-पुरुषयोरपि अभेदप्रतिभासप्रसङ्गात् , यथैव हि 'पटविशिष्टास्तन्तवः' इति तन्तुपटयोर्विशेषणविशेष्यभावोऽस्ति तथा दण्ड-पुरुषयोरपि / अतः. अवयवेभ्यः अवयविनोऽत्यन्तभेदे सति अनुपलम्भकारणाऽभावात् तथैव असौ उपलभ्येत, न च उपलभ्यते, अतो नाऽसौ ततोऽत्यन्तभिन्न इति / यद् यतः अत्यन्तभेदेन भिन्नं नोपलभ्यते 15 न तत् ततोऽत्यन्तभिन्नम् यथा अवयविनः स्वरूपम् , अवयवेभ्योऽत्यन्तभेदेन भिन्नो नोपलभ्यते च अवयवीति / यदप्युक्तम् -'स्वतन्त्रसाधनं प्रसङ्गसाधनं वा' इत्यादि; तदप्यसारम् ; यतो भवतु प्रसङ्गसाधनं स्वतन्त्रं वा, किमेतावता भवतः ? यदपि 'स्वतन्त्रसाधने धर्मि-साध्यपदयोाघातः' इत्यायुक्तम् / तदप्ययुक्तम् ; यतो नाऽवयविनः सद्भावनिरासार्थमिदमुच्यते, किं तर्हि ? तदत्य२० न्तभेदस्य / 'नहि अवयवेभ्योऽत्यन्तभिन्नोऽवयवी कुतश्चिदपि प्रतीयते' इत्युक्तम् , यस्तु प्रती 1 "तथाहि-केचित्तन्तवो विशिष्टावस्थाप्राप्ताः शीतापनोदनाद्येकार्थक्रियासमा भवन्ति नापरे ये योषित्कर्तृकाः तत्रैकार्थक्रियोपयोगिनस्तन्तून् विशिष्टान् प्रतिपादयितुं पट इत्येका श्रुतिः विनिवेश्यते व्यवहर्तृभिः... / ' तत्त्वसं० पं० पृ० 195 / प्रमेयक० पृ० 150 पू० / सन्मति० टी० पृ. 662 / 2 "भूयोऽवयवेन्द्रियसन्निकर्षानुगृहीतेन अवयवेन्द्रियसन्निकर्षेण ग्रहणात् / " प्रश० व्यो० पृ. 46 / 3 पृ. 224 पं० 1 / 4 "स्वातन्त्र्येण इत्यादिना शंकरस्वामिनः परिहारमाशङ्कते-स्वातन्त्र्यैण प्रसङ्गेन साधनं यत्प्रवर्तते / स्वयं तदुपलब्धौ हि सत्यं संगच्छते न तु // 614 // न च कात्स्न्यै कदेशाभ्यां वृत्तिः क्वचन लक्षिता / अस्याऽसंभवाद् द्रव्यमसत्स्यादपरोऽपि च // 615 // दृष्टौ वा क्वचिदेतस्या द्रव्यादावनिवारणात् / अथ तस्मिन्नदृष्टौ तु भेदे प्रश्नो न युज्यते // 616 // एतावत्तु भवेद्वाच्यं वृत्तिनास्तीति तच्च न। युक्तं प्रत्यक्षतः सिद्धेरिहेदमिति बुद्धितः // 617 // प्रत्यक्षं न तदिष्टं चेद्बाधकं किञ्चिदुच्यताम् / रूपादिचेतसोऽपि स्यान्नैव प्रत्यक्षताऽन्यथा // 618 // " तत्त्वसं० पृ. 204 / ५-न्त्रसाधनं वा ब०, ज० / ६-ता यदपि ब०, ज०, भां० / 7 पृ. 224 पं० 2 / 8 तदयुक्तम् भा० / /