________________ लघी० प्रमाणप्र० का० 7] अवयव-अवयविनोर्मेदाऽभेदादिवादः 225 यथा अबाधाऽध्यक्ष प्रतिभासते तत् तथैव अभ्युपगन्तव्यम् यथा नीलं नीलतया, अबाधाऽध्यक्ष प्रतिभासेते च कथञ्चित्तादात्म्येन अवयव-अवयविनौ इति / न च तत्प्रतिभासिनोऽध्यक्षस्य अबाधत्वविशेषणमसिद्धम् ; तद्बाधकस्य कस्यचिदपि प्रमाणस्य असंभवात् / न खलु प्रत्यक्षं तद्बाधकम् ; अत्यन्ततद्भदस्य अत्राप्रतिभासमानत्वात्। अनुमानमपि भिन्नप्रतिभासत्वाद् हेतोराविर्भूतं तद्बाधकं स्यात् , भिन्नार्थक्रियाकारित्वात् , भिन्नकारणप्रभवत्वात् , 5 भिन्नकालत्वात् , विरुद्धधर्माध्यासात् , विभिन्नशक्तिकत्वात् , विभिन्नपरिणामत्वाद्वा ? न तावद् भिन्नप्रतिभासत्वाद् आविर्भूतादनुमानाद् अवयवाऽवयविनोः आत्यन्तिको भेदः सिद्धथति; प्रत्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वेन अस्य 'अनुष्णोऽग्निः द्रव्यत्वात्' इत्यादिवत् कालात्ययापदिष्टत्वात् , दूराऽऽसन्नपुरुषप्रतिभासिना पादपाद्यर्थेन अनैकान्तिकत्वाच्च / नापि भिन्नार्थक्रियाकारित्वात्; नर्तक्यादिना व्यभिचारात् , एकाऽपि हि नर्तकी करण-अङ्गहार-भ्रूभङ्ग- 10 अक्षिविक्षेपाद्यनेकक्रियां प्रेक्षकजनानां हर्ष-विषादाद्यनेकार्थक्रियाञ्च परस्परविलक्षणां विदधातीति / भिन्नकारणप्रभवत्वमपि अङ्कुरादिनाऽनैकान्तिकम् , एकस्यापि अङ्कुरस्य क्षित्याद्यनेककारणकलापादुत्पत्तिप्रतीतेः / भिन्नकालत्वादपि रण्डाकरण्डावस्थतन्तुभ्यः पटस्य भेदः प्रसाध्यते, पटावस्थतन्तुभ्यो वा ? प्रथमपक्षे सिद्धसाधनम् , तेभ्यः तद्भेदस्य अस्माभिरप्यभ्युपगमात् / द्वितीयपक्षे तु असिद्धो हेतुः; पटावस्थतन्तूनां पटाद् भिन्नकालत्वस्याऽसंभवात् / 15 ___ विरुद्धधर्माध्यासोऽपि धूपदहनादिना अनैकान्तिकत्वान्न तदत्यन्तभेदप्रसाधकः; न खलु हस्तलग्न-इतरप्रदेशयोः शीत-उष्णस्पर्शलक्षणविरुद्धधर्माऽध्यासेऽपि धूपदहनादेर्भेदोऽस्ति / न . 'च हस्तलग्नेतरप्रदेशयोरेव शीतोष्णस्पर्शाधारता न धूपदहनाद्यवयविनः इत्यभिधातव्यम ; प्रत्यक्षविरोधात् / 'भिन्नशक्तित्वाद् भिन्नपरिणामत्वाच्च तन्तु-पटादीनां कथञ्चिदवस्थाभेद एव सिद्धयेन्न पुनः 20 आत्यन्तिको भेदः, तत्र च सिद्धसाधनम् / अतो भिन्नप्रतिभासत्वादेरपि अवयवाऽवयविनोः . कथञ्चिद्भदस्यैव प्रसिद्धः "सिद्धं कथञ्चित्तदभेदग्राहिणोऽध्यक्षस्य अबाधत्वविशेषणम् / यद् यद्रू पतया प्रमाणतो न प्रतीयते तत् तद्रूपं न भवति यथा घटः पटरूपतया, न प्रतीयते च अत्यन्त १-न्तं तद्भे-ब०, ज० / २-नन्तरप्र-ब०, ज० / 3 अनेकान्ताच्च श्र०, ब०, ज०। ४नहि एकत्र नर्तक्यादिक्षणे युगपदुपनिबद्धदृष्टीनां प्रेक्षकजनानां विविधं कर्म बुद्धिव्यपदेशसुखादिकार्यमसिद्धं येन स्वभावाऽभेदेऽपि विविधकर्मता न भवेत् / " अष्टसह पृ० 95 / 5 “प्रथमेभ्यश्च तन्तुभ्यः पटस्य यदि साध्यते / भेदः साधनवैफल्यं दुर्निवारं तदा भवेत् // 579 // प्राप्तावस्थाविशेषा हि ये जातास्तन्तवोऽपरे / विशिष्टार्थक्रियासक्ताः प्रथमेभ्यो विलक्षणाः // 580 // " तत्त्वसं• पृ० 194 / प्रमेयक० पृ० 157 पू० / ६-रभ्यु-ज०। ७-कालस्य ब०, ज०। 8 विभिन्न-ब०, ज०, श्र०। 9 विभिन्न-ब०, ज०, श्र० / 10 प्रसिद्धं श्र०। 29