________________ 224 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ___तदप्यसमोचीनम् ; यतः अवयविनो निरासे स्वतन्त्रमिदं साधनम् , प्रसङ्गसाधनं वा ? यदि स्वतन्त्रम् ; धर्मि-साध्यपदयोः व्याघातः यथा 'इदञ्च, नास्ति च' इति / हेतोश्च आश्रयाऽसिद्धता, अवयविनोऽसिद्धत्वात् / न च वृत्त्या सत्त्वं व्याप्तम् , समवायवृत्तेरनभ्युपगमेऽपि भवता रूपादेः सत्त्वाभ्युपगमात् / एकदेशेन सर्वात्मना वा अवयविनो वृत्तिप्रतिषेधे विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् प्रकारान्तरेण वृत्तिरभ्युपगता स्यात् , अन्यथा 'न वर्तते' इत्येव अभिधातव्यम् / वृत्तिश्च समवायः, तस्य सर्वत्र एकत्वात् निरवयवत्वाच्च कात्स्न्यैकदेशशब्दाऽविषयत्वम् , कात्स्न्यैकदेशशब्दयोर्भेदविषयत्वाच्च अभिन्नेऽवयविनि प्रवृत्तिरयुक्ता / 'कृत्स्नम् ' इति हि अनेकत्वे सति अशेषस्याऽभिधानम् , 'एकदेश' इति च अनेकत्वे सति कस्यचिदभिधानम् / तौ एतौ कास्य-एकदेशशब्दो भेदे सत्येव प्रतिपन्नत्वाद् एकस्मिन् 10 अवयविनि अनुपपन्नौ / तन्नेदं स्वतन्त्रसाधनम् / अथ प्रसङ्गसाधनम् परस्येष्टया अनिष्टाऽऽपादनात् ; ननु परेष्टिः प्रमाणम् , अप्रमाणं वा ? यदि प्रमाणम् ;तर्हि तयैव बाध्यमानत्वाद् अनुत्थानं विपरीताऽनुमानस्य / न च अनेनैव अस्या. बाधा, तामन्तरेण अस्याऽपक्षधर्मतया प्रामाण्यस्यैव असंभवात् / अथ अप्रमाणं सा; तर्हि 'प्रमाणं विना प्रमेयस्याऽसिद्धिः' इत्येतदेव अभिधातव्यम् , किमनुमानोपन्यासाऽऽयासेन इति ? __ अत्र प्रतिविधीयते / यत्तावदुक्तम्-‘भिन्नप्रतिभासत्वात् ' इति साधनम् ; अतः अवयव ___ अवयविनोः किं कथञ्चिद्भेदः साध्यते, सर्वथा वा ? यदि कथअवयवेभ्योऽत्यन्तभिन्नस्य ञ्चित् ; तदा सिद्धसाधनम् तयोः कथञ्चिद्भेदस्य अस्माभिरपि नित्यनिरंश-अवयविनः __ इष्टत्वात् / अथ सर्वथा ; तदा पक्षस्य अध्यक्षबाधा, कथञ्चित्ताप्रतिविधानम् दात्म्यापन्नयोरेव अनयोः अबाधाऽध्यक्ष प्रतिभासनात् / यद् 1 "तथा हि वृत्त्यनुपपत्तेरसत्त्वमिति किमिदं स्वतन्त्रसाधनमुत प्रसङ्गसाधनमिति / यदि स्वतन्त्रसाधनम् ; अवयवी धर्मी, नास्तीति साध्यमिति प्रतिज्ञावाक्यपदयोः व्याघातः यथा इदं नास्ति चेति / हेतोराश्रयासिद्धत्वं च धर्मिणोऽप्रसिद्धत्वात् / तथा स्वमते रूपादीनां सत्त्वं न च वृत्तिरस्ति इति व्यभिचारः समवायानभ्युपगमात् ।"न च परस्य वृत्त्या सत्त्वं व्याप्तम्।" प्रश• व्यो० पृ. 45 / 2 “एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तरप्रश्नः / " न्यायसू० 4 / 2 / 11 / "किं प्रत्यवयवं कृत्स्नोऽवयवो वर्तते अथैकदेशेन इति नोपपद्यते प्रश्नः / कस्मात् ? एकस्मिन् भेदाभावात् भेदशब्दप्रयोगानुपपत्तेः / कृत्स्नमिति हि एकस्य अशेषाभिधानम् / एकदेश इति नानात्वे कस्यचिदभिधानम् / ताविमौ कृत्स्नैकदेशशब्दो भेदविषयौ नैकस्मिन्नवयविनि उपपद्यते भेदाऽभावात् / " न्यायभा०४।२।११। 3 “अथ परव्याप्त्या परस्य अनि - टापादनमिति''तत्र यदि परेण प्रमाणात् प्रतिपन्नः तेनैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य / न चानेनैव तस्य बाधात् तदन्तरेण पक्षधर्मत्वादिति / अथाप्रमाणेन प्रतिपन्नः तर्हि प्रमाणं विना प्रमेयस्यासिद्धिरिति वाच्यं किमनुमानोपन्यासेन तस्य अपक्षधर्मतयाऽप्रमाणत्वात्..?" प्रश० व्यो० पृ. 46 / 4 न चास्या बाधा आ० / 5 इत्येतावदेव ब०, ज०, भां०, श्र०। अनयैव दिशा पूर्वपक्षः-तत्त्वसं० पृ० 189 / प्रमेयक० पृ० 155 पू० / सन्मति० टी० पृ० 658 / स्या० रत्ना० पृ० 873 / अवयव-अवयविभेदविषयिणी चर्चा च-न्याय सू०, भा०, वा०, ता० टी० 2 / 1 / 32,4 / 2 / 5 / न्यायमं० पृ० 550 / प्रश० व्यो० पृ० 44 / प्रश० कन्दली पृ० 41 / इत्यादिषु द्रष्टव्या / 6 पृ. 223 52 /