________________ 223 लघी० प्रमाणप्र० का० 7] अवयव अवयविनो दाऽभेदादिवादः ननु अतोऽनुमानात् तस्य तेभ्यः सर्वथा विभिन्नस्य प्रसिद्धिः-अवयव-अवयविनौ अत्यन्तं षट्पदार्थपरीक्षायाम् ‘अवयव-अव भिन्नौ भिन्नप्रतिभासत्वात् घटपटवत् , घटपटादौ हि भिन्नप्रतियविनौ अत्यन्तं भिन्न भिन्न प्रतिभा भासित्वमत्यन्तभेदे सत्येव उपलब्धम् इति अवयव-अवयविनोः सत्वादिभ्यः' इति यौगानां पर्वपक्षः- तद् उपलभ्यमानं कथन्नात्यन्तभेदं प्रसाधयेत् ? अन्यत्रापि अस्य तदप्रसाधकत्वप्रसङ्गात् / नचानयोभिन्नप्रतिभासत्वमसि- 5 द्धम् ; पटाद्यवयविप्रतिभासस्य तन्त्वाद्यवयवप्रतिभासवैलक्षण्येन अशेषप्राणिनां सुप्रसिद्धत्वात्। तथा विरुद्धधर्माध्यासतोऽपि अनयोर्जल-अनलवद् भेदः / नच विरुद्धधर्माध्यासोऽप्यनयोः असिद्धः ; पटो हि पटत्वजातिसम्बन्धी विलक्षणाऽर्थक्रियासम्पादकः अतिशयेन महत्त्वयुक्तः, तन्तवः तन्तुत्वजातिसम्बन्धिनः अल्पपरिमाणादिधर्मोपेताश्च, इति कथन्नाऽतो भिद्यन्ते? विभिनकर्तृकत्वाच्च घट-पटवत् , तन्तवो हि चात्र प्रवेणी-रण्डाकरव्यापाराद् आत्मलाभं प्रतिपद्यन्ते, 10 तुरि-तन्तु-वेम-शलाका-तन्तुवायव्यापारात्तु पट इति / विभिन्नशक्तिकत्वाच्च विष-अगदवद् अवयव-अवयविनोर्भेद एव, पूर्वोत्तरकालभावित्वाच्च पिता-पुत्रवत् , विभिन्नपरिमाणत्वाच्च बदर-आमलकवत् / प्रतिभासभेदे विरुद्धधर्माध्यासादौ च सत्यपि अनयोरभेदे पदार्थसङ्कर स्यात् सर्वत्र भेर्दैव्यवहारोच्छेदप्रसङ्गात् , नहि प्रतिभासभेदादिकं विहाय अन्यत् तद्वयवहारनिबन्धनमुत्प्रेक्षामहे / - तादात्म्याऽभ्युपगमे च अवयवाऽवयविनोः प्रतिभासभेदादिकमतिदुर्लभम् ; तादात्म्यं हि एकत्वमुच्यते, तस्मिन् सति कथं प्रतिभासभेदो विरुद्धधर्माध्यासादिकं वा स्यात् विभिन्नवि'षयत्वात् तयोः ? यदि च तन्त्वाद्यवयवेभ्यो नार्थान्तरं पटाद्यवयवी; तर्हि तन्तवोऽपि स्वांशु भ्यो नाऽर्थान्तरम् तेऽपि स्वाऽवयवेभ्यः इति एवं तावत् यावन्निरंशाः परमाणवः, तेभ्यश्च अभेदे सर्वस्य कार्यग्रामस्य अनुपलम्भः स्यात् / तस्माद् अर्थान्तरमेव अवयवेभ्यः अवयवी 20 प्रतिपत्तव्य इति। ___ यदप्युच्यते-अवयवेभ्यो नास्ति अर्थान्तरभूतोऽवयवी वृत्तिविकल्पाद्यनुपपत्तेः खरविषाणवत् / न चेयमसिद्धा; तथाहि-अर्थान्तरभूतः पटाद्यवयवी तन्त्वाद्यवयवेषु एकदेशेन वर्तेत, सर्वात्मना वा ? न तावद् एकदेशेन ; अवयवव्यतिरेकेण अवयविनोऽपरदेशाऽभावात् , भावे वा तेष्वपि अनेन 'इत्थं वर्तितव्यम् ' इति अनवस्था स्यात् / सर्वात्मना वृत्तौ; एकत्रैव अव- 25 यवे सर्वात्मनाऽस्य वृत्तत्वाद् अन्येषामवयवानामवयविशून्यताप्रसङ्गः, यावन्तो वाऽवयवाः तावन्तोऽवयविनः स्युः प्रत्यवयवं तस्य सर्वात्मना परिसमाप्तत्वात् / / 1 तदनुप-श्र० / २-सोऽनयोः आ०, ब०, ज०, भां० / ३-कर्तृत्वाच्च आ० / “विभिन्नकर्तृशक्तयादेः भिन्नौ तन्तुपटौ यथा / विरुद्धधर्मयोगेन स्तम्भकुम्भादिभेदवत् // 561 // " इति पूर्वपक्षरूपेण तत्त्वसं० पृ० 189 / 4 भेदव्यवच्छेद-ब०, ज० / ५-त् व्यवहारनिबन्धनमुपेक्षामहे आ० /