________________ 222 लघीयनयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरि० क्वचित्तानि विरमेयुः, ततश्च खरविषाणादीनामपि उद्भवः स्यात् / अथ कार्यालम्बना ; तदाऽस्य . सत्ता अङ्गीकृता स्यात्, इति कारणव्यापारवैफल्यम् / ___ ननु कारणानां न व्यापारवशेन कारणत्वम् , किन्तु यद्भावाऽभावाभ्यां यस्य भावाऽभावौ 'तत् तस्य कार्यम् इतरत् कारणम्' इति व्यपदिश्यते; तदसत्यम्; एवं सति यथा 'तदभावे न 5 भवति' इत्यत्र न कश्चिद् व्यापारः कारणगतः तथा 'तद्भावे भवति' इति कारणसद्भावमात्रं प्रतिपादितं स्यात्, न कार्यविषये किञ्चित्करत्वम् / कथकचैवंवादिनः गगनादेः कचित् कारणत्वसिद्धिः तस्य नित्यत्व-व्यापित्वाभ्यां देशकालकृतव्यतिरेकाऽसंभवात् / किञ्च, 'तस्मिन् सति भवति' इति तच्छब्देन' यो निर्दिष्टः भवति' इत्यनेन च, तयोरुपकार्योपकारकेभावाऽभावे संभवति ‘स भवति' इति मृदर्थमात्रप्रतिपादनमेव कृतं स्यात् , ततश्च परापेक्षाप्रतिलब्धकर्मा१० द्यभिधानप्रवृत्तद्वितीयादिविभक्तिवाच्यता न क्वचित् स्यात् , इति स्वरूपसत्तामात्रेणैव अर्थाः प्रतिपादिताः स्युः न सामर्थ्यभाक्त्वेन / अथ पूर्वकालभावित्वमात्रं कारणत्वम् न तु व्यापारः कश्चित् ; तर्हि सर्वेषां पूर्वकालभाविना.. जगदुदरवर्तिनां कारणत्वप्रसङ्गादतिप्रसङ्गः स्यात् / अथ नियमेन पूर्वकालभावित्वंम् ; तर्हि मेर्वादे रपि पटं प्रति कारणत्वं स्यात् तदविशेषात्। ननु नैव मेर्वादिः पूर्वमेव भवति उत्तरकालमपि 15 अनुवृत्तेः ; इत्यन्यत्रापि समानम्, नहि तन्तवः पटोत्पत्त्युत्तरकालं नानुवर्तन्ते प्रतीतिविरो धात् / ननु नियतकाल एव कार्यकारणभावः अन्त्यतन्तुसंयोगोपलक्षितायाः सामथ्या एव पटं प्रति कारणत्वात् , पटस्यापि स्वसत्तालाभक्षणे एव कार्यत्वम् , अन्यथा अविकलकारकसामग्रीसन्निधाने पुनः पटान्तरोत्पत्तिः स्यात् / नन्वेवं पूर्वक्षणभाविनि कारणे अनन्तरक्षणभाविनि च कार्ये स्वकालनियते सहभावाऽभावात् इतरेतरसव्यपेक्षं यत् कार्यत्वं कारणत्वञ्च तद् दुर्घटम् / किञ्च, असति व्यापारे नियमेन पूर्वकालभावित्वमात्रेण कारणत्वकल्पने बीजपूरकादिरूपोत्पत्तौ तदवयवगतानां रसादीनामपि कारणत्वं स्यात् , तथा रसाधुत्पत्तौं तदवयवगतरूपस्यापि, अतश्च रूपादीनां नियमेन सजात्यारम्भकत्वं न स्यात् / तदेवं परमते कार्यकारणभावस्य विचार्यमाणस्य अनुपपद्यमानत्वात् 'द्वयणुकाद्यवयविरूपाः पृथिव्यादयोऽनित्याः उत्पत्तिमत्त्वात् ' इत्या द्ययुक्तम् ; हेतोः स्वरूपाऽसिद्धत्वात् / उत्पत्तिमत्त्वं हि कार्यत्वमुच्यते, तच्च उक्तप्रकारेण भवन्मते 25 सर्वथाऽसिद्धम् / आश्रयाऽसिद्धञ्च ; स्वावयवेभ्योऽत्यन्तविभिन्नस्य पृथिव्याद्यवयविनः कुतश्चित् प्रमाणादप्रसिद्धः। १-कभावे भां०, श्र० / 2 संभवति सति इति सप्तमी बोध्या। कारणे कार्ये च तच्छब्दनिर्देशेन तस्मिन् मृल्लक्षणेऽर्थे ‘स भवति' इति मृल्लक्षण एवार्थो भवतीति अयमर्थः स्यात् न 'घटो भवति' इत्यर्थः / 3 परोक्षप्रति-आ० / ४-प्रवृत्ति-ब०, ज० / 5 कारणप्रसङ्गः स्यात् आ० / ६-त्वं तत्तर्हि श्र० / 7 नत्वेवं पूर्वक्षणेभा-आ०। 8 कार्यकारणनानात्वस्य खण्डनम् अष्टसहरुयाः चतुर्थपरिच्छेदे-द्रष्टव्यम् /