________________ 221 लघी० प्रमाणप्र० का०७] द्वथणुकाद्यवयविरूपाऽनित्यद्रव्यविचारः रूपता तु अस्य अनुपपन्ना ; विधिप्रतिषेधधर्मयोर्मध्ये एकतरनिषेधे अन्यतरविधेरवश्यंभावित्वात् / कारणानां तु सत्तया समवाये कार्यस्य किमायातम् ? नहि घटस्य सत्तया समवाये पटस्य किञ्चिद् भवति / __किञ्च, कार्यस्वरूपमपेक्ष्य कारणस्य कारणव्यपदेशो भवति, न च अश्वविषाणप्रख्यस्य कार्यस्य किञ्चिद्रूपं पश्यामः यदपेक्ष्य अस्य कारणत्वं स्यात् , अकारणत्वे चास्य कथं कार्यनि- 5 पादकत्वम् ? अथ सत्तया सहितः तत्समवाय एव कार्यस्य कार्यत्वम् ; तन्न; समवायस्यासिद्धस्वरूपतया तल्लक्षणत्वाऽयोगात् , तदसिंद्धस्वरूपता चास्य अग्रेनिराकरिष्यमाणत्वात् सुप्रसिद्धा / अस्तु वाऽसौ ; तथापि अस्य नित्यतया आत्मादिवत् कार्यत्वाऽयोगः, तत्त्वेवा नित्यत्वाऽनुपपत्तिः, यत् कार्यम् न तन्नित्यम् यथा घटादि, कार्यश्च भवद्भिः परिकल्पितः समवाय इति / सत्तायुक्तसमवायस्य च कार्यलक्षणत्वे तथाविधस्यास्य सर्वत्र सर्वदा सर्वान् प्रत्यविशेषात् आका- 10 शादीनामपि कार्यत्वप्रसङ्गः / किञ्च, अयं समवायः सम्बन्धः, सम्बन्धश्च सम्बन्धिकार्यः सम्बन्ध्याश्रितश्च भवति यथा संयोगः। कार्यभूतस्य च सम्बन्धिनोऽनिष्पन्नत्वात् न तत्कार्यत्वं तदाश्रितत्वं वासमवाये घटते, तन्निष्पत्तौ वा युतसिद्धत्वेन तत्र संयोग एव स्यात् न समवायः , तस्य अयुतसिद्धसम्बन्ध्याश्रितत्वेन योगैः अभ्युपगमात् / अथ विलक्षणोऽयं सम्बन्धः यदसिद्धेऽपि सम्बन्धिनि स्यात् / तदसत्; यतः 'सम्बध्नाति सम्बन्धिनौ' इति सम्बन्धः, सच असति सम्बधिनि 15 कथं स्यात् ? अन्यथा वन्ध्यायाः तत्सुते सम्बन्धः स्यात् / प्रध्वंसस्य च सत्तासमवायाऽभावतः अकार्यत्वप्रसङ्गात् तदुत्पत्तये मुद्गरादिकारणवैयर्थ्यम् / ___अथ अभूत्वाभावित्वं कार्यत्वम् / तदपि कस्य ? योऽभूत्वा भवति तस्य इति चेत् ; ननु चात्र अभवने भवने च कस्य कर्तृत्वम् ? कार्यस्य तावत् शशविषाणप्रख्यत्वात् न कर्तृत्वम्, भवनं हि स्वरूपस्वीकारः, स च असतो दुर्घटः / तन्न कार्यत्वं परस्य 20 किञ्चिद् घटते / ____ नापि कारणत्वम् ; तद्धि कार्यमात्रनिष्पादकत्वम्, नियतकार्यनिष्पादकत्वं वा स्यात् ? प्रथमपक्षे सर्व सर्वस्य कारणं स्यात् तन्मात्रनिष्पादकत्वस्य सर्वत्र संभवात् , इति न नियतकार्यार्थी कश्चित् नियतकारणोपादानं कुर्यात् / द्वितीयपक्षे तु कार्यस्य अश्वविषाणप्रख्यत्वात् कथं कारणस्वरूपं तेन अवच्छिद्येत ? वास्तवं हि रूपं सता एव अवच्छिद्यते / असता अवच्छेदे च कारणस्यापि 25 असत्त्वप्रसङ्गः 'असन् घटः' इति यथा / विकल्पमात्रकल्पितेन तेन तस्य अवच्छेदे तु कारणत्वमपि ताहगेव स्यात्, नहि कल्पितेन अवच्छेदे वस्तुनो वास्तवं रूपं सिद्धथति, यथा सिंहो माणवक इति / किञ्च, कारणानां कार्यालम्बना प्रवृत्तिः , अनालम्बना वा ? यदि अनालम्बना ; न १-ख्यस्य कि-आ०, ब०, ज०, भां० / २-न प्रमाणतः सम-भां० / ३-द्धरूप-ब०, ज०,। ४-द्धरूप-ब०, ज० / ५-स्य स-आ० / ६-द्यते आ० /