________________ लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० रूपं न निवर्त्तते न तत्र रूपान्तरस्य संभवः यथाऽनिवर्तमानसङ्कोचितरूपायामङ्गुल्यां प्रसा-. रितरूपस्य, न निवर्तते च उत्तरकार्यजननस्वरूपसमये प्राक्तनं कार्यजननस्वरूपं परमाणूनाम् इति / तत्समये तेषां तत्सम्भवे वा युगपत् सकलकार्यजननसामर्थ्यसंभवाद् युगपदेव अखिल कार्याणामुत्पादः स्यात् / तदेवमेकान्ततो नित्यैकस्वभावतायां परमाणूनां कार्यकारित्वाऽनुप५ पत्तेः प्राक्तन-अजनकस्वभावपरित्यागेन विशिष्टसंयोगपरिणामपरिणतानां जनकस्वभावसंभवात् सिद्धं कथञ्चिदनित्यत्वम् / प्रयोगः-ये क्रमवत्कार्यहेतवः ते अनित्याः यथा क्रमवदङ्करादिनिवर्त्तका बीजादयः, तथाभूताश्च परमाणव इति / तन्न भवत्परिकल्पितं पार्थिवादिपरमाणुलक्षणं नित्यद्रव्यं व्यवतिष्ठते / नापि तदारब्धं द्वयणुकाद्यवयविद्रव्यम् , सिद्धे हि कार्य-कारणभावे तदारब्धत्वं द्वय णुकादेः वक्तुं शक्येत, न च भवन्मते असौ सिद्धः विचार्यमाषट्पदार्थपरीक्षायां तदारब्धस्य णस्य अस्य अत्राऽनुपपद्यमानत्वात् / तथाहि-योगमते तावत् द्वथणुकाद्यवयविरूपपृथिव्यादि. किमिदं द्वभ्यणुकाद्यवयविद्रव्यस्य कार्यत्वं नाम-स्वकारणसत्ताद्रव्यस्य कार्यकारणभावनिरस समवायः, अभूत्वाभावित्वं वा ? प्रथमपक्षे किं कार्यस्य स्वकानपुरस्सरं प्रतिविधानम् रणैः सत्तया च समवायः, किं वा स्वकारणानां सत्तया सम१५ वायः, आहोस्वित् सत्तया युक्तस्तत्समवाय इति ? तत्र आद्यपक्षे किं कार्यस्य उत्पन्नस्य तैः तया च समवायः, अनुत्पन्नस्य, उभयरूपस्य, अनुभैयरूपस्य वा ? यदि उत्पन्नस्य; अन्योन्याश्रयः-सिद्धे हि स्वकारणसत्तासमवाये कार्यस्य उत्पत्तिसिद्धिः, तत्सिद्धौ च तत्समवायसिद्धिरिति। तत्समवायनिरपेक्षस्य चाऽस्य स्वातन्त्र्येणोत्पत्तौ तत्समवायकल्पनानर्थक्यम् , यत् स्वातन्त्र्येण प्रसिद्धम् न तत् क्वचिदन्यत्र समवैति यथा घटः पटे, स्वातन्त्र्येण प्रसि२० द्धञ्च भवन्मते कार्यमिति / कारणवार्ता चात्र अतिदुर्लभा, पदार्थात्मलाभे हि व्याप्रियमा णस्य वस्तुनः कारणत्वं व्यपदिश्यते नान्यस्य अतिप्रसङ्गात् / निष्पन्ननिष्पत्त्यर्थञ्चास्य व्यापारे सर्वदाऽनुपरतिप्रसङ्गात् न कदाचित् कार्यस्य स्वरूपसिद्धिः स्यात् / अनुत्पन्नस्य चास्य आकाशकुशेशयप्रख्यत्वात् कथं स्वकारणैः सत्तया च समवायः स्यात् ? उत्पन्नाऽनुत्पन्नत्वञ्च एकस्यैकदाऽतिदुर्घटम् , न हि एकत्रैकदा परस्परविरुद्धौ धर्मों एकान्तवादिनो घटेते / अनुभय 1 प्राक्तनकार्य-ब०, भां० / 2 "स्वकारणे समवायः, प्रागसतः सत्तासमवायो वा कार्यत्वमित्येके; तदयुक्तम् ; प्रध्वंसे तदभावात् , तस्मात् कारणाधीनः स्वात्मलाभः कार्यत्वम् / ' प्रश० कन्द० पृ. 18 / “किमिदं कार्यत्वं नाम ? स्वकारणसत्तासम्बन्धः, तेन सत्ता कार्यमिति व्यवहारात् / अभूत्वा भवनम् इत्येके।" प्रश० व्यो० पृ. 129 / “कार्यत्वमभूत्वाभावित्वम्।" प्रश० किरणा० पृ. 29 / न्यायभा० 5 / 1 / 37 / ३-भयस्य वा ब०, ज०। 4 वास्य ब०, ज० / 5 यद्यर्था-ब०, ज०।६च आका-आ० /