________________ लघो० प्रामाणप्र० का०७] परमाणुरूपनित्यद्रव्यविचारः किञ्च, असौ संयोगः तेषां सर्वात्मना, एकदेशेन वा स्यात् ? यदि सर्वात्मना पिण्झेऽणुमात्रः स्यात् / अथ एकदेशेन ; तदा अणूनां सांशत्वप्रसङ्गः / तन्न एकाकिनां तेषां तजननैकस्वभावता घटते / नापि सहकारिसमन्वितानाम् ; यतः तेषां सहकारिणः स्वगताऽतिशयविशेषा एव, वस्त्वन्तराणि वा ? प्रथमपक्षे प्रागुक्त-अशेषदोषाऽनुषङ्गः / द्वितीयपक्षेऽपि वस्त्वन्तराणि अणूनामुपकारं कुर्वन्ति, न वा ? कुर्वन्ति चेत् ; किं भिन्नम् , अभिन्नं वा ? यदि अभि- 5 नम् ; तदा तेषां कार्यत्वम् / अथ भिन्नम् ; तदा तत एव कार्यनिष्पत्तेः परमाणूनामकारकत्वं स्यात् / अथ तत्कृतोपकारसहकारिणस्ते कारकाः; ननु उपकारस्य तत्सहकारित्वम् उपकारान्तरेण, सत्तामात्रेण वा ? तत्र आद्यविकल्पे अनवस्था उपकारान्तरस्यापि उपकारान्तरकारित्वेनैव सहकारित्वप्रसङ्गात् / द्वितीयविकल्पे तु अतिप्रसङ्गः,सत्तामात्रेण सर्वस्य सर्व प्रति सहकारित्वप्रसक्तः / - किञ्च, एते सहकारिणः परस्परोपकार्योपकारकभावेन अणूनुपकुर्वन्ति, अन्यथा वा ? यदि उपकार्योपकारकभावेन; तदा पुनरपि उपकारस्य तेभ्यो भेदाभेदपक्षयोः प्रागुक्ताऽशेषदोषोपनिपातप्रसङ्गः / अथ सहकारिणः अणूनां परस्परस्य वा न किञ्चित् कुर्वन्ति, कार्यस्यैव मिलित्वा तैः निर्वर्तनात् ; एतदप्ययुक्तम् ; यतः प्रत्येकं समर्थाः सन्तोऽणवः सहकारिभिः सह मिलित्वा कार्य कुर्वन्ति, असमर्था वा ? यदि समर्थाः; तदा प्रत्येकं तेषाञ्च कार्य- 15 जनकत्वप्रसङ्गात् तावद्धा कार्यस्य भेदप्रसङ्गः, सहकार्यपेक्षावैयर्थ्यञ्च स्यात् / अथ प्रत्येकमसमर्थास्ते; तर्हि तत्सन्निधाने कुतस्तेषां सामर्थ्य स्यात् ? सहकारिभ्य एव इति चेत् , ननु तैस्तेभ्योऽभिन्नम् , भिन्नं वा सामर्थ्य विधीयते ? यदि अभिन्नम् ; तदा तेषां कार्यत्वप्रसङ्गः / अथ भिन्नम् ; तदा तेषां तेन सम्बन्धाऽनुपपत्तिः समवायादेरसंभवात् , तत एव कार्योत्पत्तिप्रसक्तितः अणूनामकारकत्वञ्च स्यात् / अस्तु वा यथाकथञ्चित् तेषां सामर्थ्यम् ; तथापि येन रूपेण एक कार्य परमाणवो जनयन्ति तेनैव कार्यान्तरम् , रूपान्तरेण वा ? यदि तेनैव; तदा सकलकार्याणामेकत्वप्रसङ्गः, एकस्वभावकारणकार्यत्वात् , यत् एकस्वभावकारणकार्यम् तद् एकम् यथा विवक्षितकार्यम् , तथाभूतानि च परमाणुकार्यतयाऽभिमतानि अखिलकार्याणि इति / अथ रूपान्तरेण; तदा तत्काले प्राक्तनं तद्रूपं निवर्त्तते, न वा ? यदि निवर्त्तते; तदा अणूनामनित्यत्वप्रसङ्गः, स्वरूपप्रच्यु- 25 तिलक्षणत्वात्तस्य, यस्य स्वरूपप्रच्युतिः तदनित्यम् यथा घटादि, प्राक्तनस्वरूपप्रच्युतिश्च रूपान्तरोत्पत्तिसमयेऽणूनामिति / अथ न निवर्तते; तदा कथं तेषां रूपान्तरसंभवः ? यत्र प्राक्तनं १“षटकेन युगपद् योगात् परमाणोः षडंशता।षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः // 12 // " विंश० विज्ञप्तिमा० / २-षां जननैक-ब०, ज० / 3 अथ तु भि-श्र० / 4 उपकारकस्य ब०, ज० / 5 परस्य वा आ० / 6 "किं येन स्वभावेन आद्यामर्थक्रियां करोति किं तेनैव उत्तराणि कार्याणि, समासादितस्वभावान्तरः करोति ?..." तत्त्वोप. पृ. 126 / 20