________________ ____ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० समतस्माद्यारम्भे पटोत्पादकतन्तुरूपादि च। शेषं तूत्पादकं निमित्तकारणम् अदृष्ट-आकाशादि। तत्र संयोगादेरपेक्षणीयस्य अभावात् अविकलकारणत्वं तेषामसिद्धम् ; इत्यपि श्रद्धामात्रम् ; संयोगादिना अनाधेयाऽतिशयत्वेनाऽणूनां तदपेक्षाऽनुपपत्तेः / अथ संयोग एव अमीषामतिशयः; स किं नित्यः, अनित्यो वा ? नित्यश्चेत् ; सर्वदा कार्योत्पत्तिः स्यात् तदतिशयभूतस्य संयोगस्य 5 सदा सत्त्वात् / अथ अनित्यः ; तदा तदुत्पत्तौ कोऽतिशयः स्यात्-संयोग एव, क्रिया वा ? संयोग श्वेत् ; किं स एव, संयोगान्तरं वा ? न तावत् स एव ; अस्य अद्याप्यसिद्धेः, स्वोत्पत्तौ स्वस्यैव व्यापारविरोधाच्च / नापि संयोगान्तरम् ; तस्य अनभ्युपगमात् , अभ्युपगमे वा तदुत्पत्तावपि अपरसंयोगातिशयकल्पनाप्रसङ्गाद् अनवस्था स्यात् / नापि क्रिया अतिशयः ; तदुत्पत्तावपि पूर्वो क्तदोषाऽनुषङ्गात् / किञ्च, 'अंदृष्टापेक्षाद् आत्माऽणुसंयोगात् परमाणुषु क्रिया उत्पद्यते' इति भव१० ताऽभ्युपगमात्, आत्म-परमाणुसंयोगोत्पत्तावपि अपरोऽतिशयः कल्पनीयः तत्र च तदेव दूषणम् , इति अपराऽनवस्था। किञ्च, असौ संयोगो द्व-यणुकादिनिर्वर्तकः किं पैरमाण्वाश्रितः, तदन्याश्रितः, अनाश्रितो वा ? तत्र आद्यपक्षे तदुत्पत्तौ आश्रयः उत्पद्यते, न वा ? यदि उत्पद्यते ; तदा अणूना मपि कार्यताऽनुषङ्गः असंयोगरूपतापरित्यागेन संयोगरूपतया परिणमनात् / अथ नोत्प१५ द्यते ; कथं तर्हि असौ तदाश्रितः स्यात् , विरुद्धधर्माऽध्यासतः ततस्तस्य अत्यन्तभेदप्रसङ्गात् ? तथाभूतोऽप्यसौ तत्सम्बद्धत्वात् तदाश्रितः इति चेत् ; केन पुनः सम्बन्धेन असौ तत्सम्बद्धःसमवायेन, संयोगेन, कार्यकारणभावेन वा ? न तावत् समवायेन; अस्याऽसत्त्वात् , तदसत्त्वञ्च अग्रे निराकरिष्यमाणत्वात् सिद्धम् / नापि संयोगेन ; संयोगे संयोगस्याऽसंभवात् गुणत्वेन अस्य द्रव्यवृत्तित्वात्। नापि कार्यकारणभावेन ; संयोगप्रति अणूनां कारणत्वाऽभावात् , तदभावश्च 20 अनतिशयत्वात्। अनतिशयानामपिजनकत्वे सर्वदा जनकत्वप्रसङ्गः अविशेषात् / अतिशयान्तर कल्पने च अनवस्था तदुत्पत्तावपि अपराऽतिशयपरिकल्पनप्रसङ्गात् / अन्याश्रितत्वे तु संयोगस्य परमाण्वतिशयत्वाऽनुत्पत्तिः तत्सम्बन्धाऽभावात्, यत्रैव हि असौ आश्रितः तस्यैव अतिशयः नान्यस्य अतिप्रसङ्गात् / अनाश्रितत्वं तु तस्य अनुपपन्नम् , गुणत्वात् , यो गुणः नासौ अनाश्रितः यथा रूपादिः , गुणश्च भवद्भिरभिप्रेतः संयोग इति / अनाश्रितत्वे वा गुणत्वाऽ२५ नुपपत्तिः; यदनाश्रितम् न तद् गुणः यथा आकाशादि, अनाश्रितश्च परमाण्वतिशयरूपतया भवत्कल्पितः संयोग इति / 1 " ..'सर्वात्मगतवृत्तिलब्धाऽदृष्टापेक्षेभ्यः तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्ती..." प्रश० भा० पृ० 48 / “सर्वात्मगताश्च वृत्तिलब्धाश्च अदृष्टाश्च तानपेक्षन्ते ये तत्संयोगाः आत्माणुसंयोगाः तेभ्यः पवनपरमाणुषु कर्माण्युत्पद्यन्ते / पवनपरमाणवः समवायिकारणम् , लब्धवृत्त्यदृष्टवदात्मपरमाणुसंयोगः असमवायिकारणम् , अदृष्टं निमित्तकारणम्"।" प्रश• कन्दली पृ० 52 / 2 परमाण्वादावाश्रितः ब०, ज०।३-न संयोगस्या-आ०, ब०।