________________ 217 लघो० प्रमाणप्र० का० 7] परमाणुरूपनित्यद्रव्यविचारः दपूर्वकत्वप्रतिज्ञा उपपन्नैव / तथाहि-अणुपरिमाणतरतमादिभेदः क्वचिद् विश्रान्तः परिमाणतर-तमादिभेदत्वात् महत्परिमाणतरतमादिभेदवत् / यत्र च अस्य विश्रान्तिः ते परमाणवः, इति न तेषां सद्भावाऽसंभवः। नित्यैकरूपताया एव असंभवात् , तद्रूपतायां तेषां क्रम-योगपद्याभ्यामर्थक्रियाकारित्वाऽनुपपत्तेः ; तथाहि-एकान्ततो नित्यस्वभावाः सन्तः परमाणवः सर्वदा कार्याऽजननस्वभावा इष्य- 5 न्ते, तद्विपरीता वा ? प्रथमविकल्पे द्वन्यणुकादिकार्यस्य सर्वदाऽसत्त्वप्रसङ्गः सर्वदा तदजननस्वभावेभ्यः तेभ्यः तदुत्पत्त्यनुपपत्तेः ; यद् यदजननस्वभावम् न ततस्तदुत्पत्तिः यथा शालिबीजाद् यवाङ्कुरस्य, द्वथणुकादिकार्याऽजननस्वभावाश्च सर्वदा भवद्भिः परिकल्प्यन्ते परमाणव इति / तथा च परमाणूनामपि असत्त्वमेव स्यात् , कार्याऽकारित्वात् , यत् कार्याऽकारि न तत् सत् यथा गगनेन्दीवरम् , कार्याऽकारिणश्च सर्वदा तदजननैकस्वभावतया भवन्मते परमा- 10 णव इति / अथ सर्वदा कार्यजननैकस्वभावास्तेऽभ्युपगम्यन्ते तत्रापि-किम् एकाकिनस्ते तज्जननैकस्वभावा इध्यन्ते, सहकारिसमन्विता वा ? यदि एकाकिनः ; तदा तत्प्रभवकार्याणां सकृदेव उत्पत्तिः स्यात् , अविकलकारणत्वात् , ये अविकल कारणाः ते सकृदेव उत्पद्यन्ते यथा समानसमयोत्पादा बहवोऽङ्कराः, अविकलकारणाश्च जननैकस्वभावाऽणुकार्यत्वेन अभिमताः सर्वे भावा इति / तथाभूतानामप्येषामतोऽनुत्पत्तौ सर्वदाऽनुत्पत्तिप्रसङ्गः अविशेषात् / 15 .. नँनु समवायि-असमवायि-निमित्तभेदात् त्रिविधं कारणं कार्यजन्मनि व्याप्रियते / यत्र हि कार्य समवैति तत् समवायिकारणम् यथा द्वयणुकस्य अणुद्वयम् / यच्च कार्यैकार्थसमवेतं कार्य• कारणैकार्थसमवेतं वा कार्यमुत्पादयति तद् असमवायिकारणम् यथा पटारम्भे तन्तुसंयोगः, पट 1 "तथा घटादिकारणकारणेषु अल्पतरादिभावः क्वचिद्विश्रान्तः तरतमशब्दवाच्यत्वात् महापरिमाणवत् , यत्र विश्रान्तस्ते परमाणवः इति / " प्रश० व्यो० पृ० 224 / “अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् महत्परिमाणतारतम्यवत् , यत्रेदं विश्रान्तं यतः परमाणु स्ति स परमाणुः / " प्रश० कन्दली पृ. 31 / स्या० रत्ना पृ० 870 / 2 महापरि-आ०, ब०, ज०।३-वाः परमा-ब०, ज०।४ अत्रापि भां० / 5 ते जननैक-३०, ज० / ६"नित्यत्वे सकलाः स्थूला जायेरन् सकृदेव हि / संयोगादि न चापेक्ष्यं तेषामस्त्यविशेषतः // 552 // यदि पर्वतादीनां स्थूलानां कारणभूताः परमाणवो नित्याः सन्तीत्यभ्युपगम्यन्ते तदा तत्कार्याणां स्थूलानामविकलकारणत्वात् सकृदेवोत्पत्तिप्रसङ्गः। प्रयोगः ये समग्राऽप्रतिबद्धकारणाः ते सकृदेव भवन्ति, यथा बहवोऽङ्कुरास्तुल्योत्पादाः।" तत्त्वसं० 50 पृ० . 186 / प्रमेयक० पृ. 159 उ० / सन्मति० टी० पृ०६५७ / स्या. रत्ना० पृ० 870 / 7 "स्यादेतत् त्रिविध कारणमिष्टं समवायिकारणमसमवायिकारणं निमित्तकारणं च'"तत्र अपेक्षणीयस्य संयोगादेरसन्निहितत्वात् समग्रकारणत्वमसिद्धम् अतोऽसिद्धो हेतुः, इत्याशंक्याह-संयोगादीति / यदि हि संयोगादिना कश्चिद् विशेषोऽणूनामाधीयेत तदा ते तमपेक्षेरन् / यावत् परैरनाधेयविशेषा एवाणवो नित्यत्वात् तत्कथं संयोगादि तेषामपेक्ष्यं स्यात् / ..." तत्त्वसं० पं० पृ. 186 / / 28