________________ 216 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० रिमाणकारणारब्धत्वाऽप्रतीतेः / न खलु 'कार्यपरिमाणादल्पपरिमाणमेव द्रव्यं कारणम् / . इति सर्वत्र व्याप्तिः, किन्तु 'कार्य कारणं विना न भवति' इति व्याप्तिः, कार्यपरिमाणाद् अधिकस्य न्यूनस्य समस्य वा द्रव्यस्य कारणत्वप्रतीतेः / तत्र महतः पलालकूटात् प्रेशिथिलावयवकार्पासपिण्डाच्च न्यूनपरिमाणस्य भस्मनः निबिडाऽवयवकार्पासपिण्डस्य च प्रादुर्भावः प्रतीयते, 5 अल्पपरिमाणाच्च बीजात् महापरिमाणस्य वृक्षादेः, समपरिमाणाच्च दुग्धादेः समपरिमाणस्य दध्यादेः इति / न च किञ्चित् कार्यद्रव्यं स्वपरिमाणादल्पपरिमाणकारणपूर्वकमुपलभ्य सर्व कार्यद्रव्यं तथा साधयितुं युक्तम् ; शब्द-विद्युत्-प्रदीपादीनां क्षणिकत्वमुपलभ्य सकलार्थानां सत्त्वादेः क्षणिकत्वसाधनप्रसङ्गात् / 'दृष्टान्तमात्रसद्भावेऽपि अत्र साकल्येन व्याप्तेरभावान्न तत्साधकत्वम् ' इत्यन्यत्रापि समानम् / अतः परमाणूनां सद्भावस्य कुतश्चित् प्रमाणादप्रसिद्धेः 10 'परमाणुरूपाः पृथिव्यादयो नित्याः सदकारणवत्त्वात् ' इत्यत्र हेतोविशेषणाऽसिद्धत्वम् / विशेष्याऽसिद्धत्वञ्च स्कन्धभेदपूर्वकत्वात्तेषाम् ; तथाहि-परमाणवः स्कन्धाऽवयविद्रव्यविनाशकारणकाः तद्भावभावित्वात् घटविनाशपूर्वककपालवत् / नचेदमसिद्धम् ; द्वथणुकाद्यवयविद्रव्यविनाशे एव परमाणुसद्भावप्रसिद्धः / विभाग एव तद्विनाशाज्जायते नाणवः ; इत्ययुक्तम् ; स्कन्धस्याप्येवमहेतुकत्वप्रसङ्गात् / शक्यते हि वक्तुम्-'संयोग एव अणुसङ्घाताज्जायते न स्कन्धः' 15 इति / सर्वदा स्वतन्त्रपरमाणूनां तद्विनाशमन्तरेणाऽपि सद्भावसंभवाद् भागाऽसिद्धो हेतुः ; इत्यपि मनोरथमात्रम् ; तेषामसिद्धेः, 'विवादापन्नाः परमाणवः स्कन्धभेदपूर्वका एव तत्त्वात् द्वथणुकादिभेदपूर्वकपरमाणुवत्' इत्यनुमानविरोधाच्च / ननु पटोत्तरकालभावितन्तूनां पटभेदपूर्वकत्वेऽपि तत्पूर्वकालभाविनां तेषामतत्पूर्वकत्ववत् परमाणूनामपि अस्कन्धभेदपूर्वकत्वं केषाश्चित् स्यात् ; इत्यप्यसुन्दरम् ; तेषामपि प्रवेणीभेदपूर्वकत्वेन स्कन्धभेदपूर्वकत्वप्रसिद्धः। _____ ननु परमाणूनां ग्राहकप्रमाणाऽभावतो भवद्भिरेव अभावप्रतिपादनात् न तेषां स्कन्धभेदपूर्वकत्वप्रतिज्ञा श्रेयसी; इत्यप्यनुपपन्नम् ; भवतामेव अनवद्यतत्साधकप्रमाणाऽभावतः तदभावप्रतिपादनात् , अस्माकन्तु निरवद्यतत्साधकाऽनुमानस्य सद्भावतः तेषां सद्भावोपपत्तेः तद्भे 20 1 "श्लिथावयवकासपिण्डसंघाततो यथा। घनावयवकासपिण्डः समुपजायते // 7 ॥'कश्चित् परिमाणादणुपरिमाणकारणपूर्वकः कश्चित् महापरिमाणकारणपूर्वकः कश्चित् समानकारणारब्धः।” तत्त्वार्थश्लो. पृ० 432 / "हेतुश्चानैकान्तिकः प्रशिथिलावयवमहापरिमाणकार्पासपिण्डात् अल्पपरिमाणनिबिडावयवकापासपिण्डोत्पत्तिदर्शनात् / " अष्टसह पृ० 210 / प्रमेयक० पृ. 75 उ० / स्या. रत्ना० पृ० 870 / 2 इत्यत्रापि ब०, ज०, भां०, श्र० / 3 -दप्रसिद्ध पर-आ० / 4 “भेदादणु / " तत्त्वार्थसू. 5 / 25 / 5 "विभागः परमाणूनां स्कन्धभेदान्न वाऽणवः / नित्यत्वादुपजायन्ते मरुत्पथवदित्यसत् // 2 // संयोगः परमाणूनां संघातादुपजायते / न स्कन्धस्तदेवेति वक्तुं शक्तेः परैरपि // 3 // " तत्त्वार्थश्लो० पृ० 431 / प्रमेयक० पृ० 160 उ० / 6 तेषां तत्पू-श्र० / ७-त्पूर्वकत्वात् आ०, ब०, ज०, भा० / 8 "तस्यापि तन्त्वादेः कार्पासप्रवेणीभेदादेव उत्पत्तिप्रसिद्धः / " तत्त्वार्थश्लो. पृ० 393 /