________________ लघी प्रमाणप्र० का०७] परमाणुरूपनित्यद्रव्यविचारः 215 तथाहि-आकाशम् इतरेभ्यो भिद्यते, विवादास्पदीभूतं द्रव्यम् 'आकाशम् ' इति व्यवहर्त्तव्यम् , अनादिकालप्रवाहाऽऽयात-आकाशशब्दवाच्यत्वात् , यत्तु इतरेभ्यो न भिद्यते न च 'आकाशम् ' इति व्यवह्रियते न तद् अनादिकालप्रवाहाऽऽयाताऽऽकाशशब्दवाच्यम् यथा रूपादि, तच्छब्दवाच्यञ्चेदम् , तस्मादुक्तसाध्यमिति / एवं दिक्कालयोरपि लक्षणं द्रष्टव्यम् / “आत्मत्वाऽभिसम्बन्धाद् आत्मा" [ प्रश० भा० पृ० 66 ] " मनस्त्वाभिसम्बन्धात् मनः” [ प्रश० भा० 5 पृ० 86 ] इत्यत्रापि पूर्ववत् केवलव्यतिरेक्यनुमानं द्रष्टव्यम् / एवं रूपादयः चतुर्विशतिर्गुणाः / उत्क्षेपणादीनि पञ्च कर्माणि / परोऽपरभेदभिन्न द्विविधं सामान्यम् अनुगतज्ञानकारणम् / नित्यद्रव्यवृत्तयः अन्त्या विशेषाः अत्यन्तव्यावृत्तबुद्धिहेतवः / अयुतसिद्धानामाधार्याधारभूतानाम् ‘इह' इति प्रत्ययहेतुर्यः सम्बन्धः स समवाय इति / अत्र प्रतिविधीयते / यत्तावदुक्तम् -'पृथिव्यप्तेजोवायवो द्विविधाः' इत्यादि; तदसमीची- 10 नम् ; परमाणुरूपाणां तेषां सद्भावे प्रमाणाऽभावात् / नहि तत्सषट्पदार्थपरीक्षायां पार्थिवादि - द्भावे अस्मदादिप्रत्यक्षं प्रवर्तते अतीन्द्रियत्वात्तेषाम् / नाप्यनुमापरमाणुलक्षणनित्यद्रव्य नम् ; तत्सद्भावाऽऽवेदिनस्तस्याऽसंभवात् / नन्विदमस्ति-द्वयणुनिराकरणम् - कादिकार्य स्वपरिमाणादल्पपरिमाणकारणाऽऽरब्धं कार्यत्वात् घटादिवत् ; इत्यप्यसमीक्षिताभिधानम् ; कार्यस्य स्वपरिमाणादल्पपरिमाणकारणारब्धत्वनियमाऽ- 15 संभवात् / तथाहि-किं कार्यमानं तदारब्धं प्रसाध्येत, द्रव्यत्वविशिष्टं वा कार्यम् ? प्रथमपक्ष बुद्धयादिभिर्व्यभिचारः, तेषां कार्यत्वे सत्यपि स्वपरिमाणादल्पपरिमाणकारणारब्धत्वनियमाऽसंभवात् / द्वितीयपक्षे तु भस्मादिना अनेकान्तः, तस्य द्रव्यत्वे सति कार्यत्वे सत्यपि ततोऽल्पप 1 "आकाशमितरेभ्यो भिद्यते अनादिकालप्रवाहायाताकाशशब्दवाच्यत्वात् / " प्रश० व्योम० पृ० 322 / 2 “दिक् पूर्वापरादिप्रत्ययलिङ्गा / " प्रश० भा०पृ० 66 / “कालः परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिङ्गम् / " प्रश० भा० पृ० 63 / 3 “रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः / " वैशे० सू० 1 / 1 / 6 / "..." इति कण्ठोक्काः सप्तदश, चशब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्त इत्येवं चतुर्विंशतिर्गुणाः।" प्रश० भा० पृ० 10 / 4 "उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि / " वैशे• सू० 1 / 1 / / 5 "सामान्यं द्विविधं परमपरं च अनुवृत्तिप्रत्ययकारणम् / " प्रश० भा० पृ. 311 / 6 “अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद् विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वग्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः / " प्रश० भा० पृ० 321 / 7 "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः / " प्रश० भा० पृ० 324 // 8 "तथा कार्यादल्पपरिमाणं समवायिकारणम् तस्याप्यन्यद् अल्पपरिमाणम् इत्याचं कार्य निरतिशयपरमाणुपरिमाणैरारब्धमिति ज्ञायते / " प्रश० व्यो०. पृ० 224 / ९-रब्धत्वाऽसंभवात् ब०, ज०, भा०, श्र० / पृ० 214 पं० / /