________________ पूर्वपक्षः 214 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ___ ननु वैशेषिकैरभ्युपगता द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाख्याः षट् पदार्थाः अभी वाख्यश्च सप्तमः, ते च अन्योन्याऽसंभविलक्षणलक्षितत्वेन अन्योन्यमेषट्पदार्थवाद वैशेषिकस्य कान्ततो भिन्नाः प्रमाणतः सुप्रसिद्धा एव / तथाहि-द्रव्यलक्षणं तावद् गुणादिषु न संभवति / तस्य हि लक्षणम्-द्रव्यत्वाभिसम्बन्धः, 5 क्रियावद्गुणवत्समवायिकारणत्वञ्च / तथा च सूत्रम्-"क्रियावद् गुणवत् समवायिकारणं द्रव्यम्' [ वैशे० सू० 1 // 3 // 15 ] इति / तल्लक्षितानि पृथिवी-अप-तेजः-वायु-आकाश-कालदिक्-आत्म-मनांसि नवैव द्रव्याणि / तत्र पृथिव्यप्तेजोवायवो द्विविधा नित्याऽनित्यभेदात् / तत्र परमाणुरूपा नित्याः संदकारणवत्त्वात् / द्वयणुकाद्यवयविरूपास्तु अनित्या उत्पत्तिमत्त्वात् / . आकाशकालदिगात्ममनांसि तु नित्यानि एव / 10 तच्च इदं द्रव्यलक्षणं केवलव्यतिरेक्यनुमानम् ; तथाहि-द्रव्यम् इतरेभ्यो भिद्यते दैव्यत्वा भिसम्बन्धात् क्रियावद्गुणवत्समवायिकारणत्वाद्वा, यत् पुनः इतरेभ्यो न भिद्यते न तत्तथा यथा गुणादि, तथा च तत् , तस्माद् इतरेभ्यो भिद्यते / व्यवहारो वा साध्यः-विवादास्पदी.. भूतं वस्तु 'द्रव्यम्' इति व्यवहर्त्तव्यम् प्राक्तनादेव हेतोः, यत्तु नैवं व्यवत्रियते न तत् तथा यथा गुणादि, तथा चेदम् , तस्मात् 'द्रव्यम्' इति व्यवहर्त्तव्यम् / एवं शेषलक्षणान्यपि; "पृथिवी१५ त्वाभिसम्बन्धात् पृथिवी" [प्रश० भा० पृ० 20 ] "अप्त्वाभिसम्बन्धाद् आपः' [ प्रश० भा० पृ० 35] "तेजस्त्वाभिसम्बन्धात् तेजः" [प्रश० भा० पृ० 38] “वायुत्वाभिसम्बन्धाद् वायुः” [प्रश०भा० पृ० 44] इत्येतानि बोद्धव्यानि / आकाश-काल-दिशां तु एकैकत्वात् तल्लक्षणभूताऽ परसामान्याऽभावेऽपि पारिभाषिकाः (क्यः) तिस्रः संज्ञा लक्षणम्-'आकाशम् ,,कालः, दिक्' इति। 1 “धर्मविशेषप्रसूताद् द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानां पदार्थानां साधर्म्य-वैधाभ्यां . तत्त्वज्ञानान्निःश्रेयसम् / " वै० सू० 1 / 1 / 4 / 2 "भावपरिज्ञानापेक्षित्वादभावस्य पृथगनुपसंख्यानम्.." प्रश. व्यो. पृ० 20 / “अभावस्य पृथगनुपदेशः भावपारतन्त्र्यात् नत्वभावात् / " प्रश० कन्दली पृ. 7 / “अभावस्य च समानतन्त्रसिद्धस्याऽप्रतिषिद्धस्य न्यायदर्शने मानसेन्द्रियतासिद्धिवदत्राप्यविरोधात् अभ्युपगमसिद्धान्तसिद्धत्वात् / " न्यायली० पृ० 3 / ३-णं गुणा-आ० / 4 " क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् / " वै० सू० 1 / 1 / 15 / 5 “पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रव्याणि / " वै० सू० 1 / 1 / 5 / 6 “सदकारणवन्नित्यम् / " वै०सू० 4 / 1 / 1 / 7 " लक्षणं च भेदार्थ व्यवहारार्थं चेति / तथाहि-पृथिव्यादीनि इतरस्माद् भिद्यन्ते द्रव्याणीति वा व्यवहर्त्तव्यानि द्रव्यत्वयोगात् / " प्रश० व्योम०पृ० 150 / “पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः / " प्रश० भा• पृ० 20 / “एतेन द्रव्यादिपदार्थस्य इतरेभ्यो भेदलक्षणमुक्तम् / " प्रश० कन्दली पृ० 20 / 8 द्रव्यत्वात् ब०, ज० / 9 “आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशं कालो दिगितिः। प्रश. भा० पृ. 58 / .