________________ प्रमाणप्रवेशे द्वितीयो विषयपरिच्छेदः / --03यत्रार्थे प्रमितेः प्रवृत्तिरखिलव्यामोहविच्छेदतः , तद्रूपप्रतिपादनार्थममलः प्रारभ्यते प्रक्रमः / मिथ्र्यकान्तमहान्धकारनिचयप्रच्छादितार्थ स्फुटम् , स्याद्वादाऽप्रतिमप्रचण्डतरणेर्नान्यः क्षमो द्योतितुम् // 1 // सम्यगविषयवता हि प्रमाणेन भवितव्यम् , समीचीनश्च विषयः प्रमाणस्य यादृशो भवति, 5 तं दर्शयन् प्रकृतमर्थञ्चोपसंहरनाह - तद्रव्यपर्यायात्माऽर्थो बहिरन्तश्च तत्त्वतः / / 7 / / विवृतिः-भेदाभेदैकान्तयोरनुपलब्धेः अर्थस्य सिद्धिः अनेकान्तात् / नान्तर्बहिर्वा स्वलक्षणं सामान्यलक्षणं वा परस्पराऽनात्मकं प्रमेयं यथा मन्यते परै ; द्रव्यपर्यायात्मनोऽर्थस्य बुद्धौ प्रतिभासनात् / न केवलं साक्षात्करणम् एकान्ते न संभवति, 10 अपि तु.. यतोऽवग्रहादीनां प्रमाण-फलभूतानां क्रमभावेऽपि तादात्म्यम् अभिन्नविषयत्वञ्च तत् ____ तस्मात् अर्थ अर्थक्रियासमर्थः प्रमाणगोचरोभावः द्रव्यपर्यायात्मकः कारिकाविवरणम् बहिः घटादिः इत्यर्थः। किमिव ? इत्यत्राह- 'अन्तश्च' इति / चशब्द इवार्थे निपातानामनेकार्थत्वात् , अन्तरिव / कल्पनातः स तथाविधः स्यात्, इत्यत्राह- 15 तत्त्वतः परमार्थतः / ___ 'भेद' इत्यादिना तद् व्याचष्टे-भेदाभेदैकान्तयोरनुपलब्धेः कारणात् अर्थस्य सिद्धिः निष्पत्तिः निर्णीतिर्वा अनेकान्तात् अनेकान्तेन हेतुना, तं वा आश्रित्य / नहि भेदैकान्ते वैशेषिकाभ्युपगते षट्पदार्थलक्षणे, नैयायिकाभ्युपगते वा षोडशपदार्थलक्षणे अर्थस्य सिद्धिः घटते ; प्रमाणतोऽप्रसिद्धस्वरूपाणां तेषामर्थसिद्धिनिब- 20 न्धनत्वाऽनुपपत्तेः। यत् प्रमाणतोऽप्रसिद्धस्वरूपं न तद् अर्थसिद्धिनिबन्धनम् यथा गगनेन्दीवरम् , प्रमाणतोऽप्रसिद्धस्वरूपाश्च योगाभ्युपगताः पदार्था इति / मार्थतः। विवृतिव्याख्यानम्- नहि भेदैकान्ते वैशापका १-ना एतद् श्र० / 2 तदाश्रित्य ब० / 3 अर्थसिद्धिः ब०, ज० /