SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ 212 लघीयनयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० विशेषण-विशेष्ययोविभिन्नज्ञानालम्बनत्वाऽभावात् / एकमेव हि ज्ञानं तदालम्बनम्, न हि 'शुक्लः पटः, दण्डी पुरुषः' इत्यादौ विशेषणविशेष्ययोनिभेदोऽनुभूयते ; प्रतीतिविरोधात् / न च विषयभेदात् ज्ञानभेदः ; पञ्चाङ्गुलादेविषयस्य अनेकस्यापि एकज्ञानाऽलम्बनत्वात् , कथमन्यथा ‘सदसद्वर्गः कस्यचिद् एकज्ञानालम्बनम् अनेकत्वात् पञ्चाङ्गुलवत्' इत्यत्र अस्य दृष्टान्तता ? कथं वा अवयविनः सिद्धिः, ऊर्ध्वा-ऽधो-मध्यभागानामपि एकज्ञानालम्बनत्वाऽभावप्रसङ्गतः तद्वथापित्वेन अस्य सिद्धयनुपपत्तेः ? याऽपि विशेषणाक्षसन्निकर्षादिलक्षणा विभिन्ना सामग्री प्रतिपादिता ; सापि अनुपपन्ना; सन्निकर्षस्य प्रागेव प्रतिक्षिप्तत्वात् / सैति च कार्यभेदे कारणभेदः कल्पयितुं युक्तः, न चात्र तभेदोऽस्ति इत्युक्तम् / ततः सूक्तम्-प्रमाणफलयोः क्रमभावेऽपि तादात्म्यम् अभिन्न१० विषयत्वञ्च प्रत्येयम् इति / निर्मूल्य लक्षणमथान्यमतप्ररूढम् , प्रत्यक्षलक्षणमिदं गदितं प्रमायाः / ताराप्रभाप्रकटितं खलु वस्तुजातम् , इन्दुः प्रकाशयति तत्र किमस्ति चित्रम् // 1 // इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे प्रत्यक्षपरिच्छेदः प्रथमः। ग्रं-४५००। 1 पृ० 209506 / 2 सति का-आ०, भां०।
SR No.004326
Book TitleNyayakumudchandra Part 1
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1938
Total Pages598
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy