________________ लघी० 116] प्रमाणफलयोः भेदाभेदवादः 211 सर्वदर्शी स्यात् , देशादिनियतकारणाधीनतया हि भावानां देशादिनियमः नान्यथा / अथ कार्या असौ; कुतो जायेत-प्रमाणाभिमतज्ञानात् , अन्यतो वा ? यदि अन्यतः; प्रमाणाभिमतज्ञानोत्पत्तेः प्रागुत्तरकालञ्च तदुत्पत्तिप्रसक्तिः, न हि तदकार्यस्य तत्सत्ताकाले एव आत्मलाभो युक्तः / प्रयोगः-यद् यदकार्य न तद् आत्मलाभे तत्सत्तामपेक्षते यथा घटाऽकार्यः पटो नात्मलाभे घटसत्ताम् , प्रमाणाऽकार्या च अज्ञाननिवृत्तिः अन्यत उत्पत्तिमत्त्वेन इति। अथ प्रमा- 5 णादेव असौ उत्पद्यते; सिद्धं तर्हि प्रमाणफलत्वमस्याः, तथा च 'ज्ञानमेव अज्ञाननिवृत्तिः' इति दुर्घटम् / ___ सुघटत्वेऽपि वा, किं ज्ञानमात्रमेव अज्ञाननिवृत्तिः, विशिष्टं वा ज्ञानम् ? प्रथमपक्षे अनध्यवसायादेः दत्तो जलाञ्जलिः-ज्ञानमात्रधर्मतया अज्ञाननिवृत्तेः स्वपररूपव्यामोहविच्छेदलक्षणायाः तत्रापि सत्त्वप्रसङ्गात् / व्यामोहो हि अनध्यवसायादिस्वभावः, स कथं तद्विपक्षभूतया 10 अज्ञाननिवृत्त्या क्रोडीकृते ज्ञानमात्रे अवकाशं लभेत ? यत्र यत्सत्तामात्रनिबन्धनो यद्विपरीतधर्मसद्भावः न तत्र तत्संभवः यथा आत्मसत्तामात्रनिबन्धनेन अमूर्तचेतनत्वादिधर्मेण क्रोडीकृते आत्मनि न मूर्त-अचेतनत्वादिधर्मसंभवः, ज्ञानसत्तामात्रनिबन्धनेन अज्ञाननिवृत्तिधर्मेण अनध्यवसायादिविरोधिना क्रोडीकृतञ्च ज्ञानमिति / अथ विशिष्टज्ञानधर्मता अज्ञाननिवृत्तेः इध्यते; ननु किमिदं ज्ञानस्य विशिष्टत्वं नाम-स्वपररूपयोः व्यामोहविच्छेदहेतुत्वम् , अबाधि- 15 तत्वम् , संस्कारजननयोग्यता, विशिष्टकारणकलापादात्मलाभो वा ? प्रथमविकल्पे अस्मन्मतसिद्धिः, स्याद्वादिभिः अनध्यवसायादिलक्षणव्यामोहविच्छेदहेतोः ज्ञानविशेषस्य अज्ञाननिवृत्तिधर्माश्रयत्वाऽभ्युपगमात् / उत्तरविकल्पत्रयमपि अस्मन्मतमेव अवगाहते, स्वपररूपयोः व्यामोहविच्छेदं कुर्वतो ज्ञानविशेषस्य अबाधितस्य संस्कारजननयोग्यस्य विशिष्टकारणकलापादाविर्भावमाबिभ्रतः अज्ञाननिवृत्तिधर्माधारत्वोपपत्तेः / ततः सूक्तम्-प्रमाणधर्मत्वाद् अज्ञाननि- 20 वृत्तिलक्षणं फलं प्रमाणादभिन्नम् , हानोपादानादिकं तु भिन्नम् / ननु यथा स्वार्थग्रहणाभिमुख्यलक्षणोपयोगरूपं ज्ञानं स्वपरप्रमितिरूप-अज्ञाननिवृत्तिरूपतया परिणमते तथा हानादिरूपतयापि, तत्कथमस्य भिन्नफलत्वमिति चेत् ? तद्वथवहितत्वात् , समुत्पन्ने हि अज्ञाननिवृत्तिलक्षणे फले हानोपादानादिलक्षणं फलमुत्पद्यते इति अज्ञाननिवृत्तिलक्षणेन फलेन अस्य व्यवधानाद् भिन्नत्वम् , अज्ञाननिवृत्तेस्तु अपरेण स्वप्नेऽपि 25 अव्यवधानादभिन्नत्वम् / तन्न कारकत्वलक्षणाद् हेतोः प्रमाण-फलयोः सर्वथा भेदः सिद्धयति / नापि करणत्वात् ; उक्ताऽशेषदोषाऽनुषङ्गात् / यदप्यभिहितम्-'विशेषणज्ञानं प्रमाणम् विशेष्यज्ञानं फलम्' इत्यादि ; तदप्यपेशलम् ; १-सत्तानिब-आ० / 2 ज्ञानमात्रमिति आ०, ब०, ज० / ३-जनने योग्य-ब०, ज० / ४-दात्मनो लाभो श्र० / ५-नादिकल-ब०, ज० / 6 पृ० 209 पं० 3 /