________________ 210 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० इति / न हि सर्वथा भेदे अभेदे वा धर्म-धर्मिभावो घटते विरोधात् ; तथाहि-ययोः सर्वथा भेदः न तयोर्धर्म-धर्मिभावः यथा सह्य-विन्ध्ययोः, सर्वथा भेदश्च धर्म-धर्मिणोः भवद्भिरभिप्रेत इति / तथा, यत्र सर्वथाऽभेदः न तत्र धर्म-धर्मिभावः यथा धर्मधर्मिणोरन्यतरस्वरूपे, सर्वथाऽभेदश्च धर्म-धर्मिणोर्भवद्भिरिष्ट इति / अतः सर्वथाभेदोऽभेदपक्षे तयोः तद्भावाऽनु५ पपत्तेः कथञ्चिद्भेद एव ज्यायान् , साधकतमस्वभावतया हि ज्ञानस्य प्रमाणता अज्ञाननिवृत्त्यात्मकतया च फलरूपता इति / साधकतमस्वभावता च अस्य स्वपरग्रहणव्यापार एव तद्ग्रहणाऽभिमुख्यलक्षणः / ज्ञानं हि स्वकारणकलापादुपजायमानं स्वार्थग्रहणव्यापारलक्षणोपयोगरूपं सत् स्वार्थव्यवसायरूपतया परिणमते / इत्थं कथञ्चिदभेदेऽपि अनयोः कार्यकारण भावो न विरुद्ध यते / तथा च 'एकस्य एकदा स्वात्मापेक्षया करणरूपता फलरूपता चानुपपन्ना' 10 इत्याद्ययुक्तम् ; एकस्यापि अपेक्षाभेदाद् अनेककारकरूपतोपपत्तेः, यथा 'वृक्षस्तिष्ठति, वृक्षण कृतम् , वृक्षादपेतम् , वृक्षं पश्य' इत्यादौ, एवं प्रमाणस्यैकस्यापि साधकतम-स्वपररूपव्यामोहविच्छेदलक्षण-अज्ञाननिवृत्तिस्वभावाऽपेक्षया प्रमाणरूपता फलरूपता च न विरोधमध्यास्ते / . . ननु च अज्ञाननिवृत्तिः ज्ञानमेव, न च तदेव तस्यैव कार्य युक्तं विरोधात् , अतः कथमस्याः प्रमाणफलत्वं स्यात् ? इत्यप्यविचारितरमणीयम् ; यतः अज्ञाननिवृत्तेः स्वार्थव्यवसायपरिणति१५ लक्षणायाः स्वार्थग्रहणव्यापारलक्षण-उपयोगरूपप्रमाणेन कार्यत्वाऽविरोधात् , साधकतमांशस्य इतरांशात् कथञ्चिद्भेदप्रतिपादनात् / किञ्च, धर्मरूपताम् , धर्मिरूपतां वा अभ्युपगम्य 'अज्ञाननिवृत्तिः ज्ञानमेव' इत्यभ्युपगम्येत ? यदि धर्मिरूपताम् ; तत्रापि किमपेक्षया अज्ञाननिवृत्तेः धर्मित्वं परिकल्प्येत-ज्ञानापेक्षया, धर्मा न्तराऽपेक्षया वा ? प्रथमपक्षे 'तन्निवृत्तेः धर्मित्वम् , ज्ञानस्य तु धर्मत्वम्' इति वैपरीत्यमाया२० तम् , न चैतद्युक्तं तस्याः तदाश्रितत्वात्। यद् यदाश्रितं न तस्य स्वाश्रयापेक्षयैव धर्मित्वं दृष्टम् यथा सुख-रूपादेः, ज्ञानाश्रिता च अज्ञाननिवृत्तिः इति, अतः कथस्या धर्मित्वम् ? नियमेन अस्याः पराश्रितायाः धर्मस्वभावत्वस्यैव उपपत्तेः तल्लक्षणत्वात्तस्य / अथ धर्मान्तरापेक्षया; तदा ज्ञानापेक्षया किमस्याः स्यात् ? धर्मरूपता चेत् ; कथमेवम् ‘ज्ञानमेव अज्ञाननि वृत्तिः' इति अभेदाऽभिधानं युज्यते ? 'ज्ञानस्य अज्ञाननिवृत्तिः धर्मः' इति भेदाऽभिधानस्यैव 25 उपपन्नत्वात् , न खलु उपचारादन्यत्र धर्म-धर्मिणोरभेदाऽभिधानं युक्तम् अतिप्रसङ्गात् / किञ्च, असौ कार्या, अकार्यावा स्यात् ? यदि अकार्या; सर्वत्र सर्वदा सत्त्वप्रसङ्गात् सर्वः 1 "भेदैकान्ते पुनर्न स्यात् प्रमाणफलतागतिः / सन्तानान्तरवत् स्वेष्टेऽप्येकत्रात्मनि संविदोः // 45 // " तत्त्वार्थश्लो० पृ. 128 / “अभेदे तद्वयवहारानुपपत्तेः। भेदे तु आत्मान्तरवत्तदनुपपत्तेः / " परीक्षामुख 6 / 67,71 / २-निवृत्त्यात्मना च श्र० / 3 परिणमति ब०, ज० / 4 करणता आ०, भा०। ५-ता वानुपपत्तेः ब०, ज० / 6 च आ० / 7 किमपेक्ष्य आ०, भां० / . .