________________ लघी०१६] प्रमाणफलयोः भेदाभेदवादः प्रतिपत्तव्यम् / विरुद्धा च प्रमाणस्यैव फलरूपता ; न हि एकस्य एकदा स्वात्मापेक्षया करणरूपता फलरूपता चोपपन्ना विरुद्धयोधर्मयोः सकृदेकत्र समावेशाऽसंभवात् , अतः प्रमाणफलयोर्भेद एव ज्यायान् / विशेषेणज्ञानं हि प्रमाणं विशेष्यज्ञानं फलम् , तयोश्च कथमभेदः ? विभिन्नसामग्रीप्रभवतया विभिन्न विषयतया च भेदस्यैवोपपत्तेः ; ययोविभिन्नसामग्रीप्रभवत्वं विभिन्नविषयत्वञ्च तयोर्भेदः यथा घटपटज्ञानयोः, विभिन्नसामग्रीप्रभवत्वं विभिन्नविषयत्व- 5 च विशेषण-विशेष्यज्ञानयोरिति / नचायमसिद्धो हेतुः ; विभिन्ना हि विशेषणज्ञानोत्पत्तौ विशेषणाऽक्षसन्निकर्षलक्षणा सामग्री, विभिन्ना च विशेष्यद्रव्यादिज्ञानोत्पत्तौ तदिन्द्रियसन्निकर्षलक्षणा सामग्री। विषयभेदस्तु तज्ज्ञानयोः सुप्रसिद्ध एव , अन्योन्यविलक्षणयोः विशेषण-विशेष्ययोस्तदालम्बनत्वात्। अत्र प्रतिविधीयते / यत्तावत्-प्रमाणफलयोः भेदे साध्ये 'कारकत्वात्' इति साधनमुक्तम् ; 10 तदसमीचीनम् ; यतोऽतः किमनयोः कथञ्चिद्भेदः साध्येत , प्रमाणफलयोः सर्वथा भेदप्रतिविधान पूर्विका कथ -- सर्वथा वा ? यदि कथञ्चित् ; सिद्धसाध्यता, अज्ञाननिवृत्तेः श्चित्तादात्म्यसिद्धिः " प्रमाणधर्मतया हानोपादानादेश्च तत्कार्यतया प्रमाणात् कथञ्चि द्भदाऽभ्युपगमात् / द्विविधं हि प्रमाणस्य फलम्-ततो भिन्नम् , अभिन्नञ्चेति / तत्र अभिन्नम् अज्ञाननिवृत्तिः तद्धमत्वात् / यो यद्धर्मः स ततोऽभिन्नः यथा 15 प्रदीपात् स्व-परप्रकाशः, प्रमाणधर्मश्च अज्ञाननिवृत्तिः स्वपररूपव्यामोहविच्छेदलक्षणा .1 "यदा निर्विकल्पकं सामान्यविशेषज्ञानं प्रमाणम् तदा द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमितिः इत्यर्थः / यदा निर्विकल्पर्क सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात् तदा तदुत्पत्तावविभक्तमालोचनमात्रं प्रत्यक्षम् विशेष्यज्ञानं हि विशेषणज्ञानस्य फलम् विशेषणज्ञानं न ज्ञानान्तरफलम् यदा निर्विकल्पक सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्षः प्रमाणम् , यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं प्रमाणम् इत्युक्तं तावत् / सम्प्रति हानादिबुद्धीनां फलत्वे विशेष्यज्ञानं प्रमाणमित्याह..." प्रश० कन्दली पृ० 199 / मीमांसाश्लो० सू० 4 श्लो० 70-73 / २-त्वंवा आ० / ३-त्वं विषय- आ०। 4 पृ० 208 पं०१०। 5 “उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः। पूर्वी वाऽज्ञाननाशो सर्वस्यास्य स्वगोचरे // 102 // " आप्तमीमांसा / "प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् / केवलस्य सुखोपेक्षे शेषस्यादानहानधीः // 28 // " न्यायावतार / “उपेक्षा अज्ञाननाशो वा फलम्.." सर्वार्थसि. 1 / 10 / "प्रमाणस्य फल साक्षात् सिद्धिः स्वार्थविनिश्चयः / " सिद्धिवि० टी० पृ० 126 पू० / “प्रमाणस्य फलं तत्त्वनिर्णयादानहानधीः / निःश्रेयसं परं वेति केवलस्याप्युपेक्षणम् // " न्यायवि० 3 / 90 / पृ० 596 / “हानादिवेदनं भिन्नं फलमिष्टं प्रमाणतः / तदभिन्नं पुनः स्वार्थाज्ञानव्यावर्तनं समम् // 42 // " तत्त्वार्थश्लो० पृ० 127 // "अज्ञाननिवृत्तिहानोपादानोपेक्षाश्च फलम् / प्रमाणाद्भिन्नमभिन्नञ्च / " परीक्षामुख 5 / 1,2 / प्रमाणनय० 6 / 1 / 22 / प्रमाणमीमांसा 111135, 39,41, 42 / 6 “क्रियाकरणयोरेक्यविरोध इति चेदसत् / धर्मभेदाभ्युपगमाद्वस्त्वभिन्नमितीष्यते // " प्रमाणवा० 3 / 318 / 27