________________ 208 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० 'प्रतिभासभेदानाम्' इति / प्रतिभासभेदाः बुद्धर्नीलादय आकारविशेषाः तेषाम् उपयन् अभ्युपगच्छन् , क्रमवर्तिनामपि क्रमेण वर्तितुं शीलानामपि तथा अशक्यविवेचनत्वप्रत्यासत्तिप्रकारेण, केवलस्य अभिन्नयोग-क्षेमप्रत्यासत्तिप्रकारस्य सन्तानान्तरज्ञानैर्व्यभिचारात् एकत्वं प्रति पत्तुमर्हति। केषाम् ? इत्यत्राह-'हर्षविषादादीनाम्' इति / अतः अस्मात् तदेकत्वात् अनेका५ न्तसिद्धिः प्रत्येया, 'प्रत्येयम्' इत्यनेन वक्ष्यमाणेन जातलिङ्गपरिणामेन सम्बन्धात् / ननु प्रमाणफलयोः क्रमभाविनोर्भेदात् सन्तानान्तरवत् तद्भावो न प्राप्नोति इति चेत् ; अत्राह-'प्रमाण' इत्यादि / 'अतः' इत्यनुवर्तते अतो न्यायात् प्रमाणफलयोः अवाहेहयोः ईहाऽवाययोः अवायधारणयोः क्रमभावेऽपि तादात्म्यम् कथञ्चिदेकत्वम् / ननु प्रमाणफलयोस्तादात्म्यमनुपपन्नम् प्रमाणविरोधात् ; तथाहि-प्रमाणम् आत्मव्यतिरिक्त क्रियाकारि कारकत्वात् , यत् कारकं तद् आत्मव्यतिरिक्तक्रियाप्रमाणफलयोः सर्वथाभेद ____ कारि प्रतिपन्नम् यथा कुठारादि, कारकञ्च प्रमाणम् , तस्माद् वादिनो नैयायिकस्य आत्मव्यतिरिक्तक्रियाकारि इति / तथा, प्रमाणं स्वतो विभिन्नफपूर्वपक्षः लविधायि करणत्वात्, यत् करणं तत् स्वतो विभिन्नफलविधायि प्रसिद्धम् यथा वास्यादि, करणञ्च प्रमाणम् , तस्मात् स्वतो विभिन्नफलविधायि इति / न चायं 15 साध्यविकलो दृष्टान्तः ; न हि करणं वास्यादि स्वात्मनि क्रियां कुर्वद् दृष्टम् , न च अकुर्वतः करणत्वं युक्तम् अतिप्रसङ्गात् , तस्मात् स्वतो विभिन्नं फलं कर्तरि कर्मणि वा कुर्वत् करणं 1 उपनयन् श्र० / २-चनप्रत्या-भां०, ब०, ज० / 3 "प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियाऽनुष्टानलक्षणश्च क्षेमः परिपालनरूपः..।" हेतुबि० टी० पृ. 56 / 4 “यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् / "" न्यायभा० 13 / “तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रं प्रत्यक्ष प्रमाणम्"प्रमितिः द्रव्यादिविषयं ज्ञानम् अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षादवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम्. प्रमितिः गुणदोषमाध्यस्थ्यदर्शनमिति / " प्रशस्त० भा० पृ० 187 / “सर्वश्च प्रमाणं स्वविषयं प्रति भावसाधनं प्रमितिः प्रमाणम् इति, विषयान्तरं प्रति करणसाधनं प्रमीयतेऽनेन इति प्रमाणम् / यदि भावसाधनः प्रमाणशब्दः किं फलं विषयस्याधिगतत्वात् ? उक्तं फलं हानादिबुद्धय इति / " न्यायवा० 1 / 3 / पृ. 29 / 5 “करणं हि प्रमाणमुच्यते प्रमीयतेऽनेन इति / न च क्रियैव कचित् करणं भवति, क्रियायां साध्यायां कारकं किमपि करणमुच्यते यथा दात्रेण चैत्रः शालिस्तम्बं लुनाति इति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते तथेहापि चक्षुषा घटं पश्यतीति दर्शनक्रियातः पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेव इति / प्रमा प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रम् कृतिः करणमितिवत्ते न चक्षुरादेः ज्ञानक्रियामुपजनयतः करणत्वं ज्ञानस्य फलत्वमेवेति युक्तः तथाव्यपदेशः"" न्यायमं० पृ. 70 / “स्वातिरिक्तत्यादिना शंकरस्वामी प्रमाणयति-स्वातिरिक्तक्रियाकारि प्रमाण कारकत्वतः वास्यादिवत् // 1353 // " तत्त्वसं०।