________________ लघी०१६] विवृतिव्याख्यानम् 207 इति च क्वचित् पाठः / तत निर्णयफलम् ततो निर्विकल्पकात् न भवति इति / यथा च तंत् ततो न भवति तथा सविकल्पकसिद्धौ प्रतिपादितमेव / अभ्युपगम्यापि अतो निर्णयं दूषणमुपदशयन्नाह-'भावे वा' इत्यादि / भावे वा उत्पत्तौ वा ततो निर्णयस्य निर्णीतिः स्वार्थव्यवसायः अखण्डशः रूपादाविव क्षणक्षयादावपि कुतो न भवेत् परिस्फुटतया प्रतिभासस्य उभयत्राऽ विशेषात् , 'दर्शनपाटवादिकमपि अनंशस्य दर्शनस्य उभयत्राऽवशिष्टम्' इत्युक्तं सवि- 5 कल्पकसिद्धौ / ननु यथा परमार्थंकसंविदो वेद्य-वेदकाकारयोः प्रमाण-फलव्यवस्था विरुद्धयते तथा अवग्रहादेरपि, सामान्यवद् विशेषस्यापि अवग्रहेणैव ग्रहणात् ; अन्यथा गृहीतेतररूपे द्वे वस्तुनी स्याताम् / यथा च अविकल्पकप्रत्यक्षस्य अनुपलक्ष्यमाणत्वादप्रामाण्यम् तथा अवग्रहादेरपि, तस्यापि अनुपलक्षणाऽविशेषात् ; इत्याशक्य आह-'बहुबहुविध! इत्यादि / बहु-बहुविध- 10 क्षिप-अनिसृत-अनुक्त ध्रुवाः, इतरे च अबह्वादयः ये विकल्पाः भेदाः तेषां सम्बन्धी यः अवग्रहादिः तस्य न विरुद्धयते, 'प्रमाणफलव्यवस्था' इति सम्बन्धः / कुत एतत् इति चेत् ? अत्राह-'स्वभावभेदात्' इति, स्वः आत्मीयः अवग्रहादेर्भावः यो ग्राह्योऽर्थः तस्य कथञ्चिद्भेदात् / अथवा स्वभावभेदात् अवग्रहादेः स्वरूपभेदात् इति ग्राह्यम् / ___ यदप्युक्तम्-'तस्य अनुपलक्षणात्' इति, तत्राह-'प्रतिभासभेदेऽपि' इत्यादि / प्रतिभास- 15 स्य स्वरूपसंवित्तः भेदेऽपि नानात्वेऽपि, अवग्रहादेः स्वभावभेदाऽभावकल्पनायां स्वभावस्य स्वरूपस्य यो भेदः तस्य अभावकल्पनायाम् अद्वयज्ञानकल्पनायाम् / किम् ?इत्यत्राह-'क्रमेण' इत्यादि / क्रमेण वृत्तिः वर्तनं येषाम् उपादानोपादेयरूपाणां दर्शनस्मरणादीनां तेषाम् अपि न केवलम् अवग्रहादीनाम् तथाभावात् तेन स्वभावभेदाऽभावकल्पनाप्रकारेण भावात् कारणात् / कुतः प्रमाणात् , न कुतश्चित् क्रमः कार्यकारणभावः सुखदुःखादिभेदो वा आदिशब्देन हर्ष- 20 नीलादिपरिग्रहः परमार्थतः प्रतिष्ठाप्येत व्यवस्थाप्येत ? पुरुषाद्वैतं स्यात् इति भावः / ननु यदि अवग्रहादेः प्रतिभासभेदः कथमेकत्वम् ? इत्यत्राह-'सहमतिभासवत्'इति। सहप्रतिभासा बुद्धर्नीलादय आकाराः तेषामिष तद्वत् इति / 'तद्' इत्यादिना उक्तार्थोपसंहारमाहयत एवं तत् तस्मात् अयं सौगतः एकम् अभिन्नम् अनेकाकारम् चित्राकारम् क्षणिकज्ञानम् पूर्वोत्तरकोटिविविक्तमध्यक्षणवेदनं कुतश्चित् कस्याश्चिद् अभिन्नयोग-क्षेमलक्षणायाः अश- 25 क्यविवेचनतालक्षणाया वा प्रत्यासत्तेः नैकट्यात् / केषां सम्बन्धिन्यास्तस्याः ? इत्याह 1 इति क-आ० / 2 तस्वतो आ० / ततो ब० // तत्तो ज० / ३-त् इति स्फुट-ब०, ज० / ४-षस्य अ-आ० / ५-प्रत्ययस्य भां० / ६-अद्वयाज्ञा-आ० / ७-भेदभाव-ब०, ज०।।