________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० वच्छेदिकाऽस्तु / भवत्वेवम् , को दोषः इति चेत् ? अत्राह-'सर्वस्यैव' इत्यादि / सर्वस्य चतुर्विधस्यापि प्रत्यक्षस्य प्रामाण्यं न स्यात् 'न क्वचित् नीलादौ क्षणक्षयादौ वा प्रामाण्यं स्यात्' इति एवकारार्थः / कस्य ? निर्विकल्पकज्ञानस्य, कथम्भूतस्य ? समारोपव्यवच्छे दाऽऽकाक्षिणः समारोपव्यवच्छेदहेतुत्वात् क्षणक्षयादौ अनुमानम् , नीलादौ च संवृतिः 5 तद्वयवच्छेदः तम् आकाङ्क्षति इत्येवंशीलस्य / अयमर्थः-यथा क्षणभङ्गादौ तदपेक्षस्य निर्वि कल्पकप्रत्यक्षस्य न प्रामाण्यम् अनुमानस्यैव तत्र प्रामाण्यात् तथा नीलादावपि तत्रापि संवृतेरेव प्रामाण्यात् / पूर्वफक्किकया प्रमाणान्तरम् , अनया पुनः इष्टस्यापि प्रत्यक्षप्रमाणस्य अभावं दर्शयति। ननु प्रवर्तकं प्रमाणे नान्यत् , अतिप्रसङ्गात्। प्रवर्तकञ्च अभ्यासदशायां निर्विकल्पकं ज्ञानम् , अनभ्यासदशायां तु अनुमानम् / न च अन्या दशा समस्ति यस्यां विकल्पकज्ञानं प्रव१० कित्वात्प्रमाणं स्यात् , इत्यत्राह-'ततः' इत्यादि / ततः निर्विकल्पकज्ञानात् अभ्यासे संव्यवहा रस्य प्रवृत्तिनिवृत्तिलक्षणस्य अभावात् / एतच्च सविकल्पकसिद्ध थवसरे प्रपञ्चतः प्रतिपादितम्। _स्यान्मतम्-सकलप्रत्ययानां भ्रान्तत्वाऽभ्युपगमतः प्रत्यक्षस्यापि प्रामाण्याऽनभ्युपगमात्. . कथम् 'संतेरपि प्रमाणान्तरत्वं स्यात् ' इत्युक्तं शोभेत ? इत्यत्राह-'अर्थक्रियार्थी हि' इत्यादि / सकलप्रमाणाऽभाववादिना अर्थ्यते अभिलष्यते इति अर्थः सकलप्रमाणाभावः , 15 तस्य क्रिया उपादानम् तदर्थी हि प्रमाणमन्वेषते / किमिव ? अप्रमाणं वा अप्रमाणमिव 'प्रमाणाऽभाववत् ' इत्यर्थः, 'नहि प्रमाणमन्तरेण तदभावः सिद्धथति' इत्युक्तं माध्यमिक प्रति बहिरर्थसिद्धिप्रघट्टके / __ यदि वा, अर्थः हेय उपादेयश्च तस्य क्रिया प्राप्तिः परिहारश्च तदर्थी हि यस्मात् प्रमाणं यतस्तयोः प्राप्ति-परिहारौ स्तः अप्रमाणं वा यतस्तयोः तौ न भवतः इति अन्वेषते। न च 20 निर्विकल्पकात् तौ भवतः इति तात्पर्यार्थः / अन्वेषते एव तर्हि प्रमाणमिति चेत् , अत्राह 'रूपादि' इत्यादि / रूपम् आदिः यस्य रसादेः स तथोक्तः, क्षणक्षय आदिः यस्य निरंशत्वादेः सोऽपि तथोक्तः, तयोः स्फुटस्य विशदस्य प्रतिभासस्य अविशेषतः खण्डशः प्रामाण्यम् रूपादौ न क्षणक्षयादौ यदपेक्षम् यम् स्वार्थनिश्चयम् अपेक्षते, यस्मिन् वा अपेक्षा यस्य तद् यदपेक्षम् तदेव नाऽधिगतिमात्रम् फलं युक्तम् उपपन्नम् / अथ इष्यते एव निर्णयः 25 फलम् “यत्रैव जनयेदेनां तत्रैवाऽस्य प्रमाणता" [ ] इत्यभिधानात् / स तु निर्विकल्पकात् इति चेत् , अत्राह-'तत्कृतः' इत्यादि / तेन निर्विकल्पकेन कृतः तत्कृतः निश्चयः तत्त्वतः परमार्थतो न भवति 'कल्पनया केवलं भवति' इत्यर्थः / 'तत्त्वतः तत् ततो न भवति' 1 आकांक्षते ब०, ज०। २-कं ज्ञानं ना-ब०, ज०। 3 अन्यदशा श्र० / 4 इत्याह ब., ज० / 5 "अर्थक्रियार्थी हि सर्वः प्रेक्षावान् प्रमाणमप्रमाणं वाऽन्वेषते / " हेतुबिन्दु परि० १।६तदथे . हि आ० / 7 स्वार्थेनिश्चयं आ०, भां० /