________________ लघी० 116] विवृतिव्याख्यानम् 205 सकारिणमाधारं जानानोऽधितिष्ठेद् अप्रामाणिकत्वप्रसङ्गात् ? अप्रतिपन्नश्चेत् , कथं 'तत्कृता ज्ञाने संशयादिरूपता' इति प्रतिपत्तिः ? किञ्च, इदं संशयादिरूपमप्रामाण्यं बोधस्वरूपादतिरिक्तम् , अनतिरिक्तं वा ? अनेतिरेके कथम् अतिरिक्तकारणापेक्षा ? अतिरेके तद्वद् यथार्थनिश्चयस्वरूपप्रामाण्यस्यापि अतोऽतिरेकप्रसिद्धः सिद्धमुभयस्य विज्ञानकारणातिरिक्तकारणाजन्म, इत्यलमतिप्रसङ्गेन / ततः परतो 5 लब्धप्रमाणभावस्य अवग्रहादेः ईहादिकं फलम् इति युक्तमुक्तम् / एतदसहमानस्य सौगतस्य मतं तावनिराकुर्वन्नाह-'परमार्थे' इत्यादि / परमार्थेन अकविवृति व्याख्यानम्. ल्पितरूपेण एका निरंशा या संवित्तिः तस्याः यो वेद्याकारः . वेद्यस्य नीलादेराकार इव तदाकारः यश्च वेदकाकारः वेद्याकारग्राहकाऽऽकारः तयोर्या प्रमाणफलव्यवस्था वेद्याकारस्य प्रमाणव्यवस्था “सारूप्यमस्य 10 प्रमाणम्' [ न्यायवि० 1 / 16 ] इत्यभिधानात् , वेदकाकारस्य च फलव्यवस्था "अधिगतिः फलम् " [ ] इति वचनात् / तस्यामङ्गीक्रियमाणायाम क्षणभङ्गादेरपि क्षणभङ्गः आदिर्यस्य, आदिशब्दोऽयं प्रकारवाची तेन क्षणभङ्गप्रकारः सर्वो निरंशत्वादिस्वभावो लिङ्गादभिन्नो गृह्यते, तस्यापि न केवलं सत्त्वादिहेतोः प्रत्यक्षत्वं प्रत्यक्षविषयत्वम् प्रसज्येत / ततः तस्मात् तत्प्रत्यक्षत्वात् किं दूषणं स्याद् इति चेत् , अत्राह-'गृहीत' इत्यादि / गृहीतस्य दर्शन- 15 विषयीकृतस्य ग्रहणात् तदनुमानं क्षणभङ्गाद्यनुमानं प्रमाणं न स्यात् संवृतिवत् प्रत्यक्षपृष्ठभाविविकल्पवत् / ननु गृहीतेऽपि क्षणभङ्गादौ विपरीतारोपव्यवच्छेदफलत्वात् नानुमानम् अप्रमाणमिति चेत् , अत्राह-'तत्' इत्यादि / तयोः प्रमाणाऽप्रमाणतया अङ्गीकृतयोः अनयोः संवृति-अनुमानयोर्मध्ये न केवलं प्रत्यक्षाद् अनुमानस्य अपि तु संवृतेरपि ताभ्यां प्रमाणान्तरत्वं स्यात् / कुत एतत् इति चेत् ? अत्राह-समारोपव्यवच्छेदाऽविशेषात् / यथैव हि अनुमा- 20 नातक्षणविवेकनिश्चये निश्र्चय-आरोपमनसोर्बाध्यबाधकभावात् भावी समारोपो न जायते इति तद्व्यवच्छेदकं तत् , तथा संवृत्या नीलादेनिश्चये अनीलादिरूपोऽसौ न जायते इति सापि तद्व-य -- १-नतिरिक्ते आ०, भां० / 2 स्वतःप्रामाण्यवादस्य विविधरीत्या समीक्षा निम्नग्रन्थेषु द्रष्टव्यातत्त्वसं० स्वतःप्रामाण्यपरी० पृ० 744 / न्यायवा० ता. टो० पृ. 11 / न्यायमं० पृ० 167 / न्यायकुसुमा० द्वि० स्त० / तत्त्वार्थश्लो० पृ० 175 / प्रमाणपरी• पृ. 63 / प्रमेयक० पृ० 38 उ० / सन्मति० टी० पृ. 2 / स्या. रत्ना० पृ. 240 / प्रमेयरत्नमा० 1 / 12 / 3 "अर्थसारूप्यमस्य प्रमाणम्" न्यायबि० / “स्वसंवित्तिःफलञ्चास्य तद्रूपादर्थनिश्चयः। विषयाकार एवास्य प्रमाणं तेन मीयते // " प्रमाणसमु. 1 / 10 / " विषयाधिगतिश्चात्र प्रमाणफलमिष्यते / स्ववित्तिा प्रमाणं तु सारूप्यं योग्यतापि वा // 1343 // " तत्त्वसं०।४ "निश्चयारोपमनसोर्बाध्यबाधकभावतः / " प्रमाणवा. 150