________________ 204 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [१प्रत्यक्षपरि० दिरूपतेति / द्वितीयपक्षेऽपि विषयमात्रस्य संशयादिरूपोत्पत्ती व्यापारः, विशिष्टस्य वा विषयस्य ? विषयमात्रस्य चेत्; सर्व ज्ञानं संशयादिरूपं स्यात् / विशिष्टस्य चेत् ; ननु किमिदं विषयस्य विशिष्टत्वम्-अविवेचितत्वम् , सादृश्योपहतत्वं वा ? अविवेचितत्वे विषयमात्रमेव अङ्गीकृतं स्यात् , तत्र च उक्तो दोषः / अथ सादृश्योपहतो विषयो विरुद्धविशेषस्मरणद्वारेण विपर्यय५ ज्ञानं जनयति, उभयविशेषस्मरणद्वारेण च संशयज्ञानम् ; तदप्यचारु; सर्वस्यैव विषयस्य अव श्यं केनचित् सादृश्यसंभवात् सर्वदैव तथाविधज्ञानोत्पत्तिः स्यात् / गृहीतं सादृश्यं तथा करोति इति चेत् ; सन्निहितेऽपि कुर्यात् / विशेषाऽग्रहणमपि तत्कारणम् , सन्निहिते च तदभावात् तन्न करोति इति चेत् ; ननु सतो विशेषस्य अग्रहणमपि कुतः ? अदृष्टाच्चेत् ; तन्न ; अदृष्टस्य अवि कलसामग्यां कार्यप्रतिबन्धकत्वाऽदर्शनात् / तद्वशाद्धि कदाचित् सामग्री एव नसंयुज्यते, संयुक्ता 10 वा विजातीयेन युज्यते येन सामग्यन्तरतामाखादयति, अत्र च इन्द्रियादिसामग्री नान्यथाभूता नौप्यसंयुक्ता इति कथं विशेषाऽग्रहणम् ? किञ्च, विशेषाऽग्रहणवत् प्रामाण्याऽप्रामाण्योत्पादनेऽ पि अदृष्टस्य व्यापारः किन्न स्याद् यतोऽप्रामाण्यवत् प्रामाण्यमपि परतो न स्यात् ?.. एतेन तृतीयपक्षोऽपि प्रत्याख्यातः; सहकारिभिः अधर्मादिभिः अप्रामाण्यं संशयादिरूपमापाद्यते, धर्मादिभिस्तु प्रामाण्यम् अवितथार्थनिश्चयस्वरूपमिति / नापि प्रमात्रा तंत्र तद्रूप१५ मापाद्यते ; प्रतीतिविरोधात् , न हि कस्यचित् प्रमातुः ईदृशी प्रतीतिः 'संशयवानहं भूया सम्' इति / अभ्युपगमे वा नास्य ज्ञानस्याऽप्रामाण्यहेतुत्वम् ; तथाहि-'संशयो मे स्यात्' इति ज्ञानं नाऽप्रामाण्यकारणं ज्ञानत्वात् 'घटं जानीयाम्' इत्यादिज्ञानवत / अथ ज्ञानान्तरप्रभावाद् आविर्भूतोऽसौ विशेषः / तत्रापि किं स्वकीयात् , परकीयाद्वा तदन्तरप्रभावादसौ आविर्भवेत् ? यदि स्वकीयात् ; तदा स्वकाले सतो ज्ञानस्य तेनाऽसौ विशेषो विधीयते, असतो वा ? न 20 तावत् सतः ; ज्ञानान्तरकाले प्राक्तनज्ञानस्याऽसंभवात् , अन्यथा युगपज्ज्ञानद्वयाऽनभ्युपगम विरोधः / स्वकालेऽसतश्च कथं तेनाऽसौ विधातुं शक्यः भिन्नकालत्वात् , यद् यतो भिन्नकालं न तेन तस्य विशेषो विधातुं शक्यः यथा भूत-भविष्यत्कालभाविजपापुष्पेण वर्तमानकालीनस्फटिके, भिन्नकालञ्च इदं ज्ञानान्तरमिति / नापि परकीयात् ततः संशयाद्युत्पत्तिः, तथा प्रती त्यभावात् / ननु 'चैतस्य संशयमुत्पादयामि' इति प्रमात्रन्तराणां प्रतीतिरस्ति; तन्न; सार्व२५ त्रिकसंशये प्रमात्रन्तरज्ञानस्य नियतसद्भावाऽसंभवात्। यत् खलु यत्र कारणं तत् तत्र नियतस द्भावम् यथा अन्त्यदशाप्राप्तं बीजमङ्कुरस्य, न च प्रमात्रन्तरज्ञानं नियतसद्भावं संशयादिकार्ये इति / इन्द्रियादेश्च तद्धेतुत्वे सर्वत्र ज्ञाने संशयादिरूपोत्पत्तिप्रसङ्गः / अथ आधारसम्बन्धात्तत्र तदुत्पत्तिः; ननु तत्सम्बन्धः प्रमाणतः प्रतिपन्नः, न वा ? प्रतिपन्नश्चेत् ; कथं संशयविपर्या १'विषयस्य' नास्ति ब०, ज० / 2 नाप्यन्यसं-श्र० / 3 ज्ञाने / ४-मानस्फ-ब०, ज० / 5 चैत्रस्य आ०, श्र०।