________________ 203 लघी० 116] . प्रामाण्यवादः सकलज्ञानानां बैहिरन्तः स्वार्थावबोधकत्वेनैव अध्यवसायात् / द्वितीयपक्षेऽपि अर्थमात्रबोधकत्वं तत् स्यात् , अवितथार्थबोधकत्वं वा ? न तावद् अवितथार्थबोधकत्वम् ; अस्य विशिष्टकारणकलापाधीनत्वप्रतिपादनात् / नापि अर्थमात्रबोधकत्वम् ; द्विचन्द्रादिवेर्दैनस्यापि प्रामाण्यप्रसङ्गात् , तथा च तद्वेद्यस्य द्विचन्द्रादेर्नाऽसत्यत्वम् / यत् खलु प्रमाणभूतवेदनवेद्यं तन्नाऽ सत्यम् यथा सुखादि, प्रमाणभूतवेदनवेद्यञ्च द्विचन्द्रादीति / प्रमाणभूतत्वञ्च द्विचन्द्रादिवेदनस्य 5 'बोधरूपतैव प्रामाण्यम्' इत्यभिदधतां नासिद्धम् ; प्रयोगः-यद् यतो न व्यतिरिच्यते तत् तत्स्वरूपमात्राऽनुबन्धि यथा शाखादिमत्त्वाव्यतिरिच्यमानं वृक्षत्वं तन्मात्रानुबन्धि, न व्यतिरिच्यते च बोधरूपतातः प्रामाण्यमिति / ननु च अनुत्पन्नबाधकस्य बोधस्य प्रमाणभूतत्वं स्वरूपम्, अत्र च बाधकमुत्पद्यते, अत एव अस्माभिः अप्रामाण्यं परतः अङ्गीक्रियते; तदप्यसुन्दरम् ; बोधस्य किल स्वरूपसमकालभाविप्रामाण्यम् , तस्मिन् स्थिते कुतः परतोऽप्रामाण्यस्याऽवकाशः ? 10 किञ्च, इदमप्रामाण्यं किं प्रामाण्यस्याऽभावः, वस्तुभूतो वा धर्मः ? प्रथमपक्षे प्रामाण्याभावो ज्ञानत्वाऽभाव एव उक्तः स्यात् , 'ज्ञानत्वमेव हि प्रामाण्यम्' इति भवतां पक्षः, तथा च परतः 'ज्ञानस्य ज्ञानत्वाऽभावः' इति न किञ्चित् सङ्गतम् / यद्धि यादृगपनियतं तद् अताहग्रूपं नान्यतो भवति यथा घटः पृथुबुनोदराद्याकारः, पँमाणरूपनियतञ्च ज्ञानम्, इति न बाधकज्ञानाद् अप्रामाण्यं युक्तम् / किञ्च, कारणदोषज्ञानं बाधकज्ञानचीऽप्रवर्तमानं कथमतीतज्ञानस्य प्रामाण्याऽभावमापादयितुं शक्नोति ? न हि पूर्वज्ञानकाले तदस्ति, तत्काले वा पूर्वज्ञानमिति / स्वस्मिन्नेव काले तेन तस्य अप्रमाणतासम्पादने अतिप्रसङ्गः घटज्ञानस्यापि पेटज्ञानकालेऽप्रामाण्यप्रसङ्गात् / नहि अन्यद् अन्यकालेऽप्रमाणत्वेन केनचिद् इष्टम् / अथ वस्तुभूतो धर्मः अप्रामाण्यम् ; स वक्तव्यः कौऽसौ इति ? संशय-विपर्ययौ इति चेत्, ननु तयोर्ज्ञानात्मकत्वात् नाऽप्रमाणता युक्ता; तथाहि- 20 संशयविपर्ययौ नाऽप्रमाणं ज्ञानत्वात् प्रमाणत्वाभिमतज्ञानवदिति / किञ्च, सर्वत्र ज्ञाने "औत्सर्गिके प्रामाण्ये सति कुतः संशय-विपर्ययलक्षणधर्मसंभवः ? स हि ज्ञानस्य स्वत एव आयातः, विषयात् , सहकारिभ्यः, प्रमातुः, ज्ञानान्तरप्रभावात् , इन्द्रियादेः, आधारसम्बन्धाद्वा ? प्रथमपक्षे सर्वदा तस्य तथात्वप्रसङ्गः; प्रयोगः-यद् यस्य स्वरूपत एव भवति तत् तस्य न कदाचिदपि निवर्त्तते यथा नीलस्य नीलता, तथा च ज्ञानस्य संशया- 25 1 बहिरन्तश्चार्था- आ० / 2 “बोधविशेषः प्रामाण्यमिति चेत् ; न तर्हि वक्तव्यम्-तच्च ज्ञानानां स्वाभाविकमेव न गुणकृतम् / " तत्त्वसं० पं० पृ० 811 / ३-वेदकस्या-श्र० / 4 दोषादेः / 5 ज्ञानाभावः भां० / ६-दराकारः ब०, ज०।७ प्रमाणनियतरूपञ्च भां०, श्र०। ८-ञ्चावर्तमानम् बा०,०,ज०।९ पटज्ञानेऽप्रा-ब०, ज०। 10 अत्सर्गिके आ०, ब०, ज० / “प्रामाण्यनिश्चयो यस्मातत्र तन्मात्रभाविकः / तस्मिन् जाते च सन्देहविपर्यासावनास्पदौ // 2929 // " तत्त्वसं० / / .