________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० तुं परतः / न चैवमनवस्था; तस्य अभ्यस्तविषयत्वेन स्वतः प्रामाण्यप्रसिद्धया प्रमा-. णान्तराऽनपेक्षणात् / अनभ्यस्तविषये हि जलप्रतिभासे अर्थक्रियाज्ञानाद् दर्दुराऽऽरावउदकाहरणादिलिङ्गोत्थाऽनुमानाद्वा जलाविनाभावित्वेन असकृन्निश्चयतः स्वतः सिद्धप्रामाण्यात प्रामाण्यं निश्चीयते। ____ न च अर्थक्रियाज्ञानमपि अर्थाऽभावेऽपि स्वप्नावस्थायां दृश्यते, तत् कोऽस्य पूर्वज्ञानाद् विशेषः ? इत्यप्यसुन्दरम् ; जाग्रहशायां तद्विसंवादाऽदर्शनात् / न खलु यथा जाग्रहशायामर्थज्ञानम् अर्थमन्तरेणाप्युपलभ्यते तथा अर्थक्रियाज्ञानमपि, येन अस्यापि तदा व्यभिचाराssशङ्कया अर्थक्रियाज्ञानान्तरात् प्रामाण्यं निश्चीयते, तद्दशाञ्चाश्रित्य प्रमाणादिचिन्ता प्रतन्यते / अंतो न स्वप्नदशोपलब्धेन जाग्रद्दशोपलब्धस्य साम्याऽऽशङ्कापि श्रेयसी / नहि प्रेक्षापूर्वकारी 10 स्वप्नदशासमानां जाग्रदशां मन्यते, तदृष्टान्तेनैव अशेषप्रत्ययानां निरालम्बनत्वाऽनुषङ्गतो बहि रर्थाऽभावप्रसङ्गात् क्क कस्य प्रामाण्यमप्रामाण्यं वा स्यात् ? ___ ननु च अर्थक्रियाज्ञानात् पूर्वज्ञानस्य प्रामाण्ये मणिप्रभायां मणिबुद्धः कूटेऽपि द्रमे तद्-.. बुद्धश्च प्रामाण्यप्रसङ्गः; तन्न; एवम्भूताऽर्थक्रियाज्ञानात् पूर्वज्ञाने अप्रामाण्यस्यैव प्रसिद्धः तेन संवादाऽसंभवात् / 'कुञ्चिकाविवरस्थायां हि मणिप्रभायां मणिज्ञानम्, अपवरकान्तर्देशसम्बद्धे 15 तु मणौ अर्थक्रियाज्ञानम्' इति भिन्नदेशार्थग्राहकत्वेन भिन्नविषययोः तयोः कथमविसंवादः तिमिराद्याहितविभ्रमज्ञानवत् ? कूटे च द्रमे किं कूटज्ञानम् , द्रमज्ञानम् , खरकज्ञानं वा प्रमाणमापद्येत ? तत्राद्यपक्षद्वये सिद्धसाधनम् / तृतीयपक्षस्त्वयुक्तः ; तत्साध्यार्थक्रियासंवादाऽसंभवात् , सम्पूर्णचेतना (र्णवेतन) लाभो हि खरॅकद्रमस्य अर्थक्रिया न कतिपयचेत ना ( यवेतन ) लाभः / ___यच्चोक्तम्-'प्रामाण्यं हि बोधकत्वम्' इत्यादि ; तत्रापि किं बोधकत्वमानं प्रामाण्यम् , उत अर्थबोधकत्वम् ? तत्राद्यपक्षोऽसंभाव्यः ; बोधकत्वमात्रस्य कचिज्ज्ञाने प्रतीत्यभावात् , 1 तु तेषां पर-भां / 2 “ननु चार्थक्रियाभासि ज्ञानं स्वप्नेऽपिं विद्यते / न च तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य च // 2980 // नैवं भ्रान्ता हि सावस्था सर्वा बाह्यानिबन्धना / न बाह्यवस्तुसंवादः तास्ववस्थासु विद्यते // 2981 // " तत्त्वसं० / प्रमेयक पृ० 43 पू० / सन्मति• टी० पृ० 15 / 3 अतो न स्वप्नदशोपलब्धस्य साम्या-आ० / 4 अनृते / भाषायां 'जाली' इति / 5 द्रम इति मुद्राविशेषः / ६मूल्यम् / “कर्मण्या तु विधा भृत्या भृतयो भर्म वेतनम् / भरण्यं भरणं मूल्यं निवेशः पण इत्यपि॥" अमरको. शूद्रव० 38 / 7 खरकं सत्यम् , 'खरा' इति भाषायाम् / “क्वचित्कूटेऽपि जयतुङ्गे ज्ञानं प्रमाणं कतिपयार्थक्रियादर्शनात् / तत्र कूटे कूटज्ञानं प्रमाणमेव अकूटज्ञानं तु न प्रमाणं तत्संवादाभावात् / सम्पूर्णचेतनालाभो हि तस्यार्थक्रिया न कतिपयचेतनालाभ इति / " प्रमेयक. पृ. 43 उ.। 8 पृ. 197 पं० 11 / “अपरे / अन्यथा प्रतिज्ञार्थं वयन्ति-बोधात्मकत्वं नाम प्रामाण्यम्" तदेतदसम्यक ; यतोन बोधात्मकत्वमेव प्रामाण्यं युक्तं विपर्ययज्ञानेऽपि संभवात् / " तत्त्वसं०५०प्र०८११॥