________________ लघो 1 / 6] प्रामाण्यवादः 201 तथाविधाऽनुभवाऽभावात् / नापि अनुमानगम्यम् ; लिङ्गाऽभावात् / अर्थप्राकट्यं लिङ्गमिति चेत् ; किं यथार्थविशेषणम् , निर्विशेषणं वा ? न तावद् यथार्थविशेषणम् ; प्रामाण्यनिश्चयात् प्राग् अर्थप्राकट्यस्य यथार्थत्वं विशेषणाऽसिद्धः / तन्निश्चयात् तत्सिद्धौ च इतरेतराश्रयः / निर्विशेषणस्य चास्य प्रामाण्यनिश्चायकत्वे मिथ्याज्ञानेऽपि तन्निश्चायकत्वप्रसङ्गः अविशेषात् / तन्न ज्ञप्तावपि स्वतः प्रामाण्यं युक्तम् / / नापि स्वकायें ; यतः अस्य कार्य पुरुषप्रवृत्तिः, अर्थपरिच्छेदो वा ? तत्र पुरुषप्रवृत्तिहेतुत्वं प्रामाण्यस्य निश्चितस्यैव युक्तम् निवृत्तिहेतुत्ववदप्रामाण्यस्य / न हि अर्थित्वमात्रेण प्रेक्षापूर्वकारिणः प्रवर्तन्ते, रसायनादौ उपयोगिन्यौषधे जरा-मृत्युहरणादिसामोपेते तथात्वेनाऽ निश्चिते प्रकृष्टायामप्यर्थितायां तेषां प्रवृत्त्यभावात् , निश्चयापेक्षा एवं हि सर्वे धर्माः प्रवृत्तिहेतवः / नापि अर्थपरिच्छेदाख्ये स्वव्यापारे प्रामाण्यं स्वग्रहणाऽनपेक्षम् ; यतोऽस्य अर्थ- 10 परिच्छेदमात्रं कार्यम् , यथार्थपरिच्छेदो वा ? न तावद् अर्थपरिच्छेदमात्रम् ; तस्य अप्रामाण्येऽपि संभवात् / यथार्थपरिच्छेदश्च नाऽगृहीतप्रामाण्यात् प्रमाणात् संभवति, ततः प्रमाणाऽप्रमाणसाधारणस्य अर्थपरिच्छेदमात्रस्यैवोत्पत्तेः / न च तद्ग्रहणे अनवस्थादिदोषाऽनुषङ्गः; अभ्यासावस्थायां स्वतः प्रामाण्यनिश्चयतः संवादाद्यपेक्षाऽभावतः अनवस्थाद्यनवतारात् / नहि अभ्यासक्रोडीकृते जले जलज्ञानम् आत्मनोऽर्थतथाभावपरिच्छेदसमर्थस्वभावताप्रतिपत्तौ संवा- 15 दादिकमपेक्षते, निरारेकस्य 'इदमित्थमेव' इत्यध्यवसायात्मनोऽस्य प्रतिप्राणि प्रसिद्धत्वादप्रामाण्यवत् / न खलु स्वभ्यस्ते विषये मरीचिकादौ जलादिप्रतिभासः स्वात्मनोऽर्थान्यथात्वपरिच्छेदसमर्थस्वभावताप्रतिपत्तौ विसंवादादिकमपेक्षते , तत्स्वभावतया अस्यात्र स्वतः सर्वेषां सुप्रसिद्धत्वात् इत्युभयं तत्र स्वतः सिद्धमभ्युपगन्तव्यम् / अनभ्यासावस्थायां 1 "तद्धि फलं निर्विशेषणं वा स्वकारणस्य ज्ञातृव्यापारस्य प्रामाण्यमनुमापयेद् , यथार्थत्वविशिष्टं वा?" न्यायमं० पृ० 168 / प्रमेयक० पृ. 42 उ० / सन्मति० टी० पृ० 14 / स्या० रत्ना० पृ० 256 / २-विशेषासि-आ० / 3 "तस्मात् प्रेक्षावतां युक्ता प्रमाणादेव निश्चितात् / सर्वप्रवृत्तिरन्येषां संशयादेरपि क्वचित् // 123 // " तत्त्वार्थश्लो. पृ० 176 / ४-तायां प्रवृ-भां० / 5 एव सर्वे आ० / 6 तथा अप्रा-ब०, ज० / “नार्थपरिच्छेदमात्रं प्रमाणकार्यमप्रमाणेऽपि तस्य भावात् / " सन्मति० टी० पृ० 12 / 7 "आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्वतः / मिथ्याज्ञानं तथा किश्चिदप्रमाणं स्वतः स्थितम् // 3100||" तत्त्वसं० / “नहि बौद्धः एषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टः अनियमपक्षस्य इष्टत्वात् ; तथाहि-उभयमप्येतत् किञ्चित् स्वतः किञ्चित् परतः इति पूर्वमुपवर्णितम्।" तत्त्वसं० पं० पृ०८११। "तत्राभ्यासात् प्रमाणत्वं निश्चितं स्वत एव नः / अनभ्यासे तु परतः इत्याहुः केचिदासा // 152 // तच्च स्याद्वादिनामेव स्वार्थनिश्चयनात् स्थितम् / न तु स्वनिश्चयोन्मुक्तनिःशेषज्ञानवादिनाम् // 126 // क्वचिदत्यन्ताभ्यासात् स्वतः प्रमाणत्वस्य निश्चयानानवस्थादिदोषः / " तत्त्वार्थश्लो. पृ० 177 // // इति स्थितमेतत्-प्रमाणादिष्टसंसिद्धिः तदाभासाद्विपर्ययः। प्रामाण्यं तु स्वतः सिद्धमभ्यासात् परतोऽन्यथा // " प्रमाणपरी० पृ० 63 / ८-तः प्रसि- श्र० / 26