________________ 200 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० एतेन द्वितीयविकल्पोऽपि प्रत्याख्यातः। आत्मीया चसामग्री-विज्ञानमात्रोत्पादिका, विशिष्टा वा ? विशिष्टा चेत् ; सिद्धसाधनम् , स्वसामग्रीविशेषात् निखिलार्थानामुत्पत्त्यभ्युपगमात् / तथा च अप्रामाण्यस्य अखिलार्थानाच स्वत एव सिद्धिः स्यात् तद्वत् , विशिष्टत्वच तत्सा मग्र्याः प्रागेव प्रतिपादितम् / 'विज्ञानमात्रोत्पादिका' इत्यपि श्रद्धामात्रगम्यम् ; प्रमाणाऽप्रमाणे५ व्यक्तिव्यतिरिक्तस्य ज्ञानमात्रस्य क्वचित् कदाचिदप्यनुपलम्भात् धवादिव्यक्तिव्यतिरिक्तवृक्ष मात्रवत् / ज्ञानमात्रस्य च वृक्षमात्रवत् सामान्यरूपत्वात् , तस्य च भवन्मते कुतश्चिदनुत्पत्तेः कथं तदुत्पादिका काचित् सामग्री स्यात् ? विज्ञानमात्रोत्पादकसामग्रीतः प्रामाण्योत्पत्त्यभ्युपगमे च संशयादावपि तदुत्पत्तिप्रसङ्गः तस्याः तत्राप्यविशेषात् / अथ संशयादौ शुद्धा विज्ञा नसामग्री नास्ति, अतः कथं तदुत्पादः ? यद्येवं विज्ञानस्याऽप्युत्पादो न स्यात् तत्सामग्र्याः अशु१० द्धत्वेन अपरिपूर्णत्वात् / ननु परिपूर्णैव सामग्री, परम् अधिककाचकामलादिदोषाऽनुप्रवेशः ; तर्हि अधिककारणानुप्रवेशात् तज्जन्यमप्रामाण्यमपि उपजायताम् , प्रामाण्यं तु विज्ञानसामग्रीप्रभवं विज्ञानवत् प्रादुर्भवद् दुर्निवारम् / अथ दोषाऽभावविशिष्टायाः सामग्रीतः प्रामाण्यमुत्य द्यते नान्यस्याः ; सिद्धं तर्हि परतः प्रामाण्यम् , विज्ञानकारणाऽतिरिक्तदोषाऽभावाख्य कारणात् ' तदुत्पत्तिप्रसिद्धः / न हि दोषाऽभावो विज्ञानकारणम् ; तमन्तरेणापि मिथ्याज्ञाने विज्ञानोत्पत्ति१५ प्रतीतेः, प्रामाण्योत्पत्तौ तु भवत्येव असौ कारणम् अन्वयव्यतिरेकोपपत्तेः। अन्वय-व्यतिरेकाभ्यामवधृतसामर्थ्यस्याऽप्यस्य प्रामाण्याऽजनकवे दोषाणामपि अप्रामाण्यजनकत्वाऽभावः स्यात्। किञ्च, दोषैः चक्षुरादीनां किं क्रियते येन ते तत्सन्निधाने प्रामाण्यं नोत्पादयन्ति ? तदुत्पादिका शक्तिश्चेदपनीयते; ननु यैव विज्ञानमात्रोत्पादने तेषां शक्तिः सैव प्रामाण्योत्पादनेऽपि, अन्या वा ? सैव चेत्, तर्हि तदपगमे कथं तेषां तन्मात्रोत्पादनेऽपि व्यापारः स्यात् ? अथ 20 अन्या; कथन्न परतः प्रामाण्यम् ? तन्नोत्पत्तौ स्वतः प्रामाण्यं घटते / नापि ज्ञप्तौ; प्रामाण्यनिश्चयस्य कादाचित्कतया निर्निमित्तत्वाऽनुपपत्तेः / तथाहि-यत् कादाचित्तं तन्न निर्निमित्तम् यथा घटादि, कादाचित्कश्च प्रामाण्यनिश्चय इति / निमित्तञ्चास्य-स्वरूपम् , अन्यद्वा स्यात् ? न तावत् स्वरूपम् ; अस्वसंविदितत्वोपगमात् / नापि अन्यत्; स्वतः प्रामाण्यव्याघातप्रसङ्गात् / यच्च अन्यन्निमित्तम् तत् किं प्रत्यक्षम्, उत अनुमानम् अन्यस्यात्रा२५ ऽनधिकारात् ? प्रत्यक्षञ्चेत्, न; अस्य इन्द्रियसम्बद्ध विषये व्यापारात् , न च इन्द्रियाणाम् अर्थसंवेदनेन सह सम्बन्धोऽस्ति येनास्य यथार्थपरिच्छेदस्वभावं प्रामाण्यं प्रत्यक्षतः प्रतीयेत, प्रतिनियते रूपादौ तद्वति चाऽर्थे तेषां सम्बन्धात् / नापि मनोव्यापारप्रभवप्रत्यक्षगम्यं तत्; १-ण व्यति-आ०, भां० / 2 शुद्धविज्ञा-श्र० / ३-रेकेणोप-भां०।४ प्रामाण्याऽनिश्चय ब०, ज. / 5 "सनिमित्तत्वे किं स्वनिमित्ता अन्यनिमित्ता वा?" प्रमेयक. पृ. 42 उ० / सन्मति. टी. पृ० 13 / 6 अन्यं स्या-आ० / 7 प्रतीयते ब०, ज० /