________________ 199 लघी०१।६] प्रामाण्यवादः यदप्युक्तम्'-'अनुमानप्रामाण्योत्पत्तौ त्रैरूप्यातिरिक्तं गुणान्तरं नोपलभ्यते' इत्यादि; तदप्यविचारितरमणीयम् ; तदुत्पत्तौ साध्याऽविनाभावित्वस्यैव गुणस्य सद्भावात् / ननु साध्याऽविनाभावित्वं हेतोः स्वरूपसाकल्यं कथं गुणः ? तर्हि तदविनाभावित्वाऽभावोऽपि हेतोः स्वरूपवैकल्यम् न पुनर्दोषः, इत्यप्रामाण्यमपि अनुमाने दोषेभ्योऽसंभाव्यम् / अथ स्वरूपवैकल्यमेवाऽत्र दोषः; तर्हि तत्साकल्यमेव गुणोऽस्तु विशेषाऽभावात् / अतः सिद्धम् अनुमानेऽपि गुण- 5 प्रभवं प्रामाण्यम् / आगमप्रामाण्योत्पत्तौ तु विधिरूपस्य यथार्थदर्शनादेर्गुणस्य व्यापारः सुप्रसिद्धः, अयथार्थदर्शनादेर्दोषस्य इव तदप्रामाण्योत्पत्तौ / ___ यदप्युक्तम्-‘आत्मलाभे तु भावानाम्' इत्यादि ; तदप्ययुक्तम् ; अप्रामाण्यस्याप्येवं स्वतो भावाऽनुषङ्गात् , यथैव हि यथार्थप्रकाशनशक्तिः प्रामाण्यरूपा चक्षुरादिकारणेषु अविद्यमाना ज्ञाने भवन्ती स्वतोऽभिधीयते तथा अयथार्थप्रकाशनशक्तिरपि अप्रामाण्यरूपाऽभिधीयताम् अवि- 10 शेषात् , न हि सापि तद्वत् तत्र विद्यते / तथाच "वस्तुत्वाद् द्विविधस्यात्र संभवो दुष्टकारणात्" [ मीमा० नो० सू. 2 श्लो० 54 ] इत्यस्य विरोधः / . किञ्च, उत्पत्तौ, ज्ञप्ती, स्वकार्ये वा स्वतः प्रमाणानां प्रामाण्यं स्यात् ? तत्र न तावदुत्पत्तौ; तथाहि-प्रामाण्यं प्रमाणोत्पादककारणकलापातिरिक्तकारकोत्पाद्यं तदनुवृत्तावपि व्यावर्त्तमा- . नत्वात् , यद् यदित्थं तत् तत्तथा यथा घटानुवृत्तावपि व्यावर्त्तमानः तद्वयतिरिक्तः संयो- 15 गादिः, तथा चेदम् , तस्मात्तथेति / न चायमसिद्धो हेतुः ; मिथ्याज्ञाने प्रामाण्याश्रयबोधसद्भावेऽपि प्रामाण्याऽनुत्पत्तेः / नापि विरुद्धः ; विपक्ष एवाऽवृत्तेः। नाप्यनैकान्तिकः ; विपक्षाद् व्यावृत्तत्वादेव / नापि कालात्ययापदिष्टः ; विपरीतार्थोपस्थापकस्य अध्यक्षादेरभावात् / किञ्च, अयं स्वंशब्दः आत्मा-आत्मीय-ज्ञाति-धनेषु मध्ये अत्र कस्मिन्नर्थे प्रवर्त्तमानो गृह्यते ? तत्र ज्ञाति-धनयोः अत्राऽसंभवात् आत्मा-आत्मीयौ एवाऽवशिष्यते / तत्रापि स्वतः 'कारणम- 20 न्तरेण आत्मनैव प्रामाण्यमुत्पद्यते' इत्यर्थः स्यात् , आत्मनो वा सकाशात् , आत्मीयायाः सामप्रीतो वा ? प्रथमपक्षे निर्हेतुकस्याऽस्य देश-कालनियमाऽयोगात् सर्वत्र सर्वदा तत्प्रसङ्गः / द्वितीयविकल्पेऽपि 'स्वतः' इति प्रामाण्यविशेषणम्, प्रमाविशेषणं वा ? प्रामाण्यविशेषणत्वे 'प्रामाण्यं प्रामाण्याद् आत्मलाभमनुभवति' इत्यायातम् ; तच्च अयुक्तम् ; एकस्य वस्तुनः स्वात्मापेक्षया उत्पाद्योत्पादकत्वधर्माप्रतीतेः / अनुपपत्तेश्च ; तथाहि-प्रामाण्यं स्वात्मन एव नोत्पद्यते 25 कार्यत्वाद् अप्रामाण्यवत् घटादिवद्वा / 1 पृ०१९५५०११। 2 “अनुमानोत्पादकहेतोस्तु साध्याविनाभावित्वमेव गुणो यथा तद्वैकल्यं दोषः"" प्रमेयक० पृ. 42 उ० / सन्मति० टी० पृ. 11 / स्या. रत्ना० पृ. 248 / 3 पृ० 195 पं० 22 / 4 “प्रामाण्यं प्रमाणोत्पादककारणकलापातिरिक्तकारकोत्पाद्यम्"... 5 "स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने // 210 // " अमरको० नानार्थवर्ग / 6 प्रमाणवि- आ०, श्र०। 7 स्वापेक्षया भां०, श्र. /