________________ 198 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० क्तस्यैव उत्पादात् , तद्वथतिरेकेण अनुपलभ्यमानत्वाद्वा ? प्रथमपक्षे रूपादिभिर्व्यभिचारः, घटादेः तद्युक्तस्यैवोत्पादेऽपि तेषां तद्गुणत्वप्रतीतेः / कथञ्चैवंवादिनः काचकामलादेः दोषता सिद्धयेत् जाततैमिरिकस्य तद्युक्तस्यैव चक्षुरादेरुत्पादात् ? एतेन द्वितीयपक्षोऽपि प्रत्युक्तः; काचकामलादेः चक्षुषः रूपादेश्च घटादे देनाऽनुपलभ्यमानस्यापि दोष-गुणत्वप्रतीतेः / कश्चात्र स्वरूपशब्दार्थः५ तादात्म्यम् , तन्मात्रत्वं वा ? तत्र आद्यविकल्पे नैर्मल्यादेर्न गुणत्वनिषेधः तादात्म्यस्य तद प्रतिद्वन्दित्वात् , अन्यथा रूपादेरपि गुणत्वाऽभावः स्यात् / द्वितीयविकल्पस्तु अयुक्तः ; चक्षुरादौ अनुवर्तमानेऽपि अस्य निवर्तमानतया तन्मात्रत्वाऽनुपपत्तिः / यस्मिन्ननुवर्तमानेऽपि यनिवर्तते न तत् तन्मात्रमेव, यथाऽनुवर्तमानेऽपि पटे नीलादिसंयोगानिवर्तमानः शुक्लादिगुणः, अनुवर्तमानेऽपि चक्षुरादौ निवर्तते च कामलिनः कुपितादेर्वा नैर्मल्यादिकमिति / ___यदि च गुणाः चक्षुरादौ नेष्यन्ते तर्हि तत्पटुत्वतारतम्यसद्भावो न प्राप्नोति, अस्ति चायम्'अयं पद्विन्द्रियः अयं पटुतरेन्द्रियः' इत्यादिप्रतीतेः / कथं वा गुणाऽनभ्युपगमे “गुणेभ्यो दोषाणामभावः” [मीमांसाश्लो० सू० 2 श्रो० 65] इत्यादि स्थाने स्थाने गुणसद्भावाऽऽवेदको वार्त्तिककारोद्गारः शोभते ? न च 'गुणो नाम न कश्चिदस्ति दोषाऽभावमात्रे तद्वयवहारात' इत्यभिधातव्यम् ; दोषस्याप्येवम् असत्त्वाऽनुषङ्गात् तत्रापि 'गुणाऽभावमात्रे दोषव्यवहारः' इत्य१५ भिदधतो न वक्त्रं वक्रीभवति / नैमादेर्मलाऽभावरूपतया अगुणत्वे च कथं तदर्शने लोकस्य 'इदं गुणवञ्चक्षुः' इति व्यवहारः स्यात् ? अञ्जनादिना च चक्षुषो गुणातिशयाधानं सुप्रतीतमेव, कथमन्यथा बहलान्धकारायां निशीथिन्यां व्याघ्रादिनेत्रचूर्णाञ्जनाद् रूपविशेषोपलम्भः, शिशुमारवसाञ्जनात् जलान्तरितार्थस्य ग्रहणं वा ? न च सत्त्वेऽपि गुणानां दोषापसारणे व्यापा रेण प्रामाण्याऽहेतुत्वात् स्वतस्तत् इत्यभ्युपगन्तव्यम् ; अप्रामाण्यस्याप्येवं स्वतः सत्त्वप्रसङ्गात 20 दोषाणां गुणापसारणहेतुत्वेन अप्रामाण्याऽजनकत्वात् / तस्माद् उभयं स्वतः , परतो वा अभ्युपगन्तव्यं समानाऽऽक्षेपसमाधानत्वात् / न च 'उत्पन्नायाः ज्ञानव्यक्तेः पश्चात् कारणान्तरात् प्रामाण्यमुत्पद्यते वस्त्रस्य लाक्षादे रक्ततादिवत्' इत्यभ्युपगम्यते , येन 'उत्पत्त्यनन्तरमेव विज्ञानस्य प्रध्वंसात् किमाश्रयं प्रामाण्यं स्यात्' इत्ययं दोषोऽवकाशं लभेत्, स्वसामग्रीतः अर्थान्यथात्वपरिच्छेदसामर्थ्यलक्षणाऽप्रामाण्यवत् अर्थतथाभावपरिच्छेदसामर्थ्यलक्षणप्रामाण्य२५ स्यापि उत्पत्त्यभ्युपगमात् / १-देप्येषां श्र० / 2 तत्र पटुत्व-भां० / 3 कुमारिलस्य मीमांसाश्लोकवार्तिककर्तः उद्गारः / 4 वकंभ- आ० / 5 जलजन्तुविशेषः / शिंशुमार-भां०, श्र०। 6 “तस्मादेव च ते न्यायादप्रामाण्यमपि स्वतः / प्रसक्तं शक्यते वक्तं यस्मात्तत्राप्यदः स्फुटम् // 3066 / / तस्माद्दोषेभ्यो गुणानामभावस्तदभावतः / प्रमाणरूपनास्तित्वं तेनोत्सर्गोऽनपोदितः // 3067 // " तत्त्वसं० / “तेषां स्वतोऽप्रमाणत्वमज्ञानानां भवेन किम् / तत एव विशेषस्याभावात सर्वत्र सर्वथा // 95 // " तत्त्वार्थश्लो. पृ. 175 / प्रमेयक० पृ० 41 उ० / सन्मति० टी० पृ. 9 / स्या. रत्ना० पृ. 243 / .