________________ प्रामाण्यवादः लघीय श६] 197 क्षा च; उत्पन्नमात्रे ज्ञाने प्रतीतिमात्रे च साधारणे न तावत् पुरुषं निवर्त्तयति यावत् कारणदोषज्ञानादिना तत् मिथ्यात्वेन नाऽवधार्यते / न च प्रामाण्यमपि उत्पत्तौ गुणाख्यं कारणान्तरमपेक्षते अतस्तदपि परतः इत्यभिधातव्यम् ; गुणानां कुतश्चिदप्यप्रसिद्धः, सिद्धौ वा न तदुत्पत्ती व्यापारः दोषापसारणे एव तेषां चरितार्थत्वात् / एवंविधमेव हि पदार्थानां स्वरूपम्-यत् स्वयं 'संभवन्तः स्वप्रतिपक्षमुन्मीलयन्ति, गुणाश्च दोषप्रंतिपन्थिनः, अतः तैरपारितेषु तेषु स्वरूपत 5 एव कारणानि व्याप्रियमाणानि प्रमाणभूतमेव ज्ञानं जनयन्ति / यदि पुनः निष्पन्नेऽपि ज्ञाने स्वव्यापारकरणसामथ्र्य स्वतो न स्यात् तदा तत्स्वरूपमेव अनिष्पन्न स्यात्। नहि अप्रकाशकत्वधमोपेते वह्नौ निष्पन्ने प्रकाशकत्वादयो धर्माः कारणान्तरेण उत्तरकालमाधीयन्ते इति प्रातीतिकम् / अस्तु वा गुणानां प्रमाणभूतज्ञानोत्पादने व्यापारः; तथापि न प्रामाण्यस्य परतो भावः, प्रामाण्यं हि बोधकत्वम् , तच्च ज्ञानस्य अन्याऽनपेक्षस्य जन्मसमकालञ्चेत् संवृत्तम् तदा सिद्धा स्वतः 10 प्रामाण्यप्रसिद्धिरप्रतिहतप्रसरा / एवञ्च सर्वेषामेव ज्ञानानामौत्सर्गिके बोधकत्वलक्षणे प्रामाण्ये स्थिते यत्र 'बाधकप्रत्ययः कारणदोषज्ञानच उत्पद्यते तत्र अप्रामाण्यं परतो निश्चीयते इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्"-'अर्थपरिच्छेदिका शक्तिः प्रामाण्यम्'; तत्र किम् अर्थ मात्रपरिच्छेदिका शक्तिः प्रामाण्यस्वरूपं स्यात् , यथार्थपरिच्छेस्वतः प्रामाण्यवादप्रतिक्षेपपुर दिका वा ? प्रथमपक्षे संशय-विपर्यय-स्वप्नादिज्ञानैः तल्लक्षण- 15 स्सरं प्रामाण्यस्य कथञ्चित्स्वतः " व्यभिचारः, तेषामप्रामाण्येऽपि अर्थमात्रपरिच्छेदिकायाः शक्तः परतस्त्वप्रसाधनम् - सद्भावात् / द्वितीयपक्षे तु परतः प्रामाण्यप्रसिद्धिः, विज्ञानमात्रोत्पादिकायाः चक्षुरादिसामग्रीतो यथार्थपरिच्छेदसामर्थ्यलक्षणप्रामाण्यस्यानुत्पत्तः, गुणयुक्ताया एव तत्सामग्र्याः तदुत्पादने सामर्थ्यसंभवात् / ननु गुणानां विधिमुखेन कार्यमुखेन वा प्रतीत्यभावात् कथं तदधीना तस्योत्पत्तिः ? इत्यसमीक्षिताभिधानम् ; तेषां सकलजनसाक्षिकत्वेन 20 प्रतीतिभूधेरौधिरूढत्वात् / न हि 'चक्षुरादिगता नैर्मल्यादयः, विषयगताश्च आसन्न-निश्चलत्वा दयः, मनोगताः प्रणिधानादयः, आत्मगताः "सन्तृप्तत्वस्वस्थतादयः, प्रकाशगताः स्फुटत्वादयः . गुणा न सन्ति' इत्यभिदधानो लोकप्रतीत्या न बाध्यते / ननु नैर्मल्यादि चक्षुरादेः स्वरूपम् न पुनर्गुणः / अथ कुतोऽस्य तत्स्वरूपतासिद्धिः-तद्यु १-तयन्ति आ० / 2 “प्रामाण्यं तत्र गुणतो नैव स्यादित्युदाहृतम् // 64 // तस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः / अप्रामाण्यद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः // 65 // " मीमांसाश्लो• सू०२ / 3 एवेतेषाम् आ० / 4 संभवात् स्व-भां०, श्र० / ५-प्रतिबन्धिनः भां०, श्र० / ६-सारितेषु ते स्व-आ० / -सारितेषु स्व-भां० / 7 निष्पन्ने स्व-आ०, भा० / 8 स्यात् तथा च प्रकाश-आ० / ९-दनव्या-श्र० / १०"तस्माद् यस्य च दुष्टं कारणं यत्र च मिथ्येति प्रत्ययः स एव असमीचीनः प्रत्ययो नान्यः / " शावरभा० 1 / 1 / 5 / 11 पृ. 195 पं० 8 / १२-रारूढ-आ० / 13 संतृप्त स्वस्थानादयः आ० /