________________ 196 लघीयस्त्रयालङ्कार न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरिक यथा-"मृद्-दण्ड-चक्र-सूत्रादि घटो जन्मन्यपेक्षते / उदकाहरणे त्वस्य परापेक्षा न विद्यते // " [ ] तन्न उत्पत्तौ प्रामाण्यं गुणादिकमपेक्षते / नापि अर्थपरिच्छेदलक्षणे स्वव्यापारे स्वग्रहणम् , अगृहीतप्रामाण्यादपि प्रमाणाद् अर्थपरिच्छेदप्रतीतेः / यदि पुनः संवादकज्ञानात् गुणज्ञानात् अर्थ५ क्रियाज्ञानाद्वा प्रामाण्यनिश्चयः स्यात् , तदा अनवस्थादिदोषाऽनुषङ्गः-संवादज्ञानस्य संवादज्ञानान्तराऽपेक्षणात् , गुणज्ञानस्य गुणज्ञानान्तरापेक्षणात् , अर्थक्रियाज्ञानस्य च तदितराऽपेक्षणात् / प्रथमज्ञानस्य द्वितीयात् , द्वितीयस्य च प्रथमात् प्रामाण्यनिश्चये अन्योन्याश्रयः / संवादादिज्ञानस्य संवादाद्यनपेक्षस्यैव तन्निश्चये प्रथमस्य तथा तद्भावे प्रद्वेषः किन्निबन्धनः ? उक्तञ्च “येथैव प्रथमं ज्ञानं तत्संवादमपेक्षते / / संवादेनापि संवादः परो मृग्यस्तथैव हि // " [ ] " कस्यचित्तु यदीष्येत स्वत एव प्रमाणता / प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना // " [ मीमांसानो० सू० 2 श्लो० 76 ] . " संवादस्याथ पूर्वेण संवादित्वात् प्रमाणता।। अन्योन्याश्रयभावेन प्रामाण्यं न प्रकल्प्यते // " [ . ] 15 तस्मात् स्वत एव सर्वत्र प्रामाण्यम् / अप्रामाण्यं तु परतः, तत् खलु उत्पत्तौ ज्ञानोत्पादककारणाऽतिरिक्तं दोषाख्यं कारणान्तरमपेक्षते, निवृत्त्याख्ये च स्वकार्ये स्वग्रहणम् / अप्रमाणं हि संशय-विपर्यय-अज्ञानभेदात् त्रिविधम् / तत्र अज्ञानस्य ज्ञानाऽभावस्वरूपतया स्वतः सिद्धत्वान्न तत्र काचिदपेक्षा, संशय-विप र्यययोस्तु उत्पत्तौ प्रमातृदोषाः क्षुदादयः, मनोदोषा अप्रणिधानादयः, इन्द्रियदोषाः तिमिरादयः, 20 विषयदोषाः चलत्वादयः, यथासंभव कारणत्वेन अनुमन्यन्ते / निर्वृत्त्याख्ये स्वकार्ये स्वज्ञप्त्यपे 1 मृत्पिण्डचक्रसूत्रादि भां० / न्यायमं० पृ० 162 / 'मृत्पिण्डदण्डचक्रादि' प्रमेयक० पृ० 39 उ० / सन्मति० टी० पृ० 4 / तत्त्वसंग्रहे तु पूर्वपक्षे कुमारिलकर्तृकतया / (पृ. 757 ) उपलभ्यते / “सर्वे हि भावाः स्वात्मलाभायैव स्वकारणमपेक्षन्ते / घटो हि मृत्पिण्डादिकं स्वजन्मन्येव अपेक्षते नोदकाहरणेऽपि। तथा ज्ञानमपि स्वोत्पत्तौ गुणवत् इतरद्वा कारणमपेक्षतां नाम स्वकार्ये तु विषयनिश्चये अनपेक्षमेव / " मीमांसाश्लो. टी. सू. 2 श्लो.४८ / 2 एतत्कारिकात्रयं निनग्रन्थेषु उद्धृतं वर्तते-प्रमेयक० पृ. 40 पू० / सन्मति० टी० पृ०६ / स्या० रत्ना० पृ. 251 / 'कस्यचित्तु' इत्येका तु न्यायमं० पृ० 163 / 'प्रद्वेषः किन्निबन्धनः' मीमांसाश्लो० / पूर्वे द्वे कारिके तत्त्वसंग्रहे पूर्वपक्षे कुमारिलकर्तृकतया (पृ. 757 ) उपलभ्यते / 3 “अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयः / वस्तुत्वाद द्विविधस्यात्र संभवो दुष्टकारणात् // 54 // " मीमांसाश्लो. सू. 2 / 4 "अप्रमाणं पुनः स्वार्थग्राहक स्यात् स्वरूपतः / निवृत्तिरतस्य मिथ्यात्वे नाऽगृहीते परैर्भवेत् // 85 // " मीमांसाश्लो० सू० 2 / ५-ख्ये अकार्ये आ०।