________________ लघी०१६] प्रामाण्यवादः 195 तदेवं कारिकायाः पूर्वभागं व्याख्याय उत्तरभागव्याख्यानार्थमुपक्रम्यते अवग्रहादीनां प्राक् प्रतिपादितविज्ञानविशेषाणां मध्ये पूर्वस्य पूर्वस्य प्रमाणत्वम् कारिकोत्तरार्द्धव्याख्यानम स्यात् भवेत् उत्तरपरिच्छित्तिविशेष प्रति साधकतमत्वात् / उत्तरम् उत्तरम् विज्ञानं फलम् तत्प्रसाध्यत्वात् / तद् यद्या ( यथा ) अवग्रहस्य प्रमाणत्वे ईहा फलम् , एवम् उत्तरत्रामि योज्यम् / __ननु चास्तु उक्तप्रकारेणैषां प्रमाण-फलव्यवस्था ; तत्प्रामाण्यं तु स्वतः अभ्युपगन्त ___ व्यम् , परतस्तदभ्युपगमे अनेकदोषोपनिपातात् / तथाहि-प्रमाणस्वतः प्रामाण्यवादिनो मीमां - स्य भावः अर्थपरिच्छेदिका शक्तिः, कर्म वा अर्थपरिच्छेदः प्रामासकस्य पूर्वपक्षः ण्यम् / तच्च स्वतः-विज्ञानमात्रोत्पादकसामग्रीतो जायते / न हि तत् स्वात्मनि स्वव्यापारे वा तदुत्पादकसामग्रीव्यतिरिक्तं किञ्चिदधिकं गुणादिकमपेक्षते; 10 तस्य विधिमुखेन कार्यमुखेन चाऽप्रतीतेः अनुमानवत् / न हि अनुमाने ज्ञानोत्पादकं त्रैरूप्याऽतिरिक्तं कारणान्तरं प्रामाण्योत्पादकमुपलभ्यते; अन्वय-व्यतिरेकाभ्यां तत एव तदुत्पत्तिप्रतीतेः। किञ्च, अर्थतथात्वपरिच्छेदिका शक्तिः प्रामाण्यम् , शक्तयश्च भावानां स्वत एव आविर्भवन्ति न उत्पादककारणाधीनाः। तदुक्तम् " स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् / न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते // " [ मीमांसाश्लो० सू० 2 श्लो० 47] नैचैतत् सत्कार्यदर्शनसमाश्रयणाद् अभिधीयते, किन्तु यः कार्यगतो धर्मः कारणे समस्ति स कार्यवत् तत एवोत्पद्यते, यथा मृत्पिण्डे विद्यमाना रूपादयो घटेऽपि मृत्पिण्डोदुपजायमाने मृत्पिण्डरूपादिद्वारेण उत्पद्यन्ते / ये तु कार्यधर्माः कारणेष्वविद्यमाना न ते तत एवोत्पद्यन्ते किन्तु स्वत एव, यथा तस्यैव उदकाहरणशक्तिः / एवं विज्ञानेऽपि अर्थतथात्वपरिच्छेदशक्ति: 20 चक्षुरादिष्वविद्यमाना तेभ्यो नोदयमासादयति किन्तु स्वत एव आविर्भवति / उक्तञ्च "आत्मलाभे हि भावानां कारणापेक्षिता भवेत् / लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु // " [ मी० श्रो० सू० 2 श्रो० 48 ] 1 “प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः / नैयायिकास्ते परतः सौगताश्चरमं स्वतः // प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः / प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् // " सर्वद. जैमिनिद० / “सर्वविज्ञानविषयमिदं तावत् प्रतीक्ष्यताम् / प्रमाणत्वाप्रमाणत्वे स्वतः किं परतोऽथवा ? // 33 // " ...... स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् // 47 // " मीर्मासाश्लो० सू० 2 / २-पातात् अर्थपरि-आ० / 3 उद्धृतश्चैतत्-तत्त्वसं० पृ. 475 / न्यायम० पृ० 165 / प्रमेयक० पृ. 39 उ० / सन्मति० टी० पृ० 4 / 4 “न चैतत्सत्कार्यदर्शनसमाश्रयणादभिधीयते; किन्तु यः..." प्रमेयक० पृ. 39 उ०। 5 मृत्पिण्डाज्जाय-श्र०। 6 उद्धृतञ्चैतत्-प्रमेयक० पृ० 39 उ० / सन्मति० टी० पृ० 4 / तत्त्वसंग्रहे तु पूर्वपक्षे कुमारिलकर्तृकतया (पृ. 756 ) उपलभ्यते।