________________ 194 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० सकलव्यवहारोच्छेदप्रसङ्गश्च, अनिष्टपरिहारेण इष्टे वस्तुन्येकस्मिन् अनुभूयमानेऽपि अन्यस- . द्भावाऽऽशङ्कया क्वचित् प्रवृत्त्याद्यनुपपत्तेः / ततः अबाधितैकत्वप्रतिभासाद् अन्यपरिहारेणीवभासमाने वस्तुनि एकत्वव्यवस्थामिच्छता अनुभवसिद्धकर्तृत्वभोक्तृत्वाद्यनेकधर्माऽऽधारचिद्वि वर्तस्यापि एकत्वेनाऽनुभूयमानस्य एकत्वमभ्युपगन्तव्यम् , न पुनः तद्व्यतिरिक्ता तेन संसृष्टा 5 बुद्धिः / प्रयोगः-यद् यतो व्यतिरेकेण नोपलभ्यते न तत् तद्वचतिरेकेण अभ्युपगन्तव्यम् यथा पृथुबुध्नोदराद्याकारव्यतिरेकेण घटः, नोपलभ्यते च चैतन्यव्यतिरेकेण बुद्धिरिति / यदपि-'इन्द्रियमनोवृत्तिद्वारेण' इत्याद्युक्तम् ; तदप्ययुक्तम् ; इन्द्रियादिवृत्तेः प्रागेव अपास्तत्वात् / अस्तु वाऽसौ; तथापि एतद्द्वारेण प्रतिप्राणि प्रसूतानां बुद्धिवृत्तीनां ज्ञानान्तरवेद्यत्वे यौगपक्षोक्ताऽशेषदोषाऽनुषङ्गः। सङ्क्रान्तविषयाऽऽकारत्वञ्चाऽऽत्मनः बुद्धिरेवावगच्छति, आत्मा 10 वा ? न तावद् बुद्धिरेव; स्वयं स्वात्मनोऽप्रतिपत्तौ ‘अहमनेन समाना' इति प्रतिपत्तेरयोगात् , तथा तत्प्रतिपत्तौ तु सिद्धं स्वसंविदितत्वम् / स्वयं ज्ञानान्तरेण वा बुद्धेरर्थसारूप्यप्रतिपत्तौ वा बौद्धपक्षनिक्षिप्ताऽशेषदोषाऽनुषङ्गः। . आत्माऽपि बुद्धयाँ प्रतिपद्य तत्सारूप्यं प्रतिपद्येत, अप्रतिपद्य वा ? न तावदप्रतिपद्य ; अर्थस्य बुद्धेश्च अप्रतिपतौ तत्प्रतिपत्तेरनुपपत्तेः, द्वयोर्हि स्वरूपप्रतिपत्तौ 'अयमनेन समानः' इति 15 सारूप्यप्रतिपतिर्युक्ता, न पुनस्तदप्रतिपत्तौ / तथाहि-सादृश्यप्रतिपत्तिः तदुभयप्रतिपत्तिपूर्विका सादृश्यप्रतिपत्तित्वात् गो-गवयसादृश्यप्रतिपत्तिवत् / अथ बुद्धधर्थों प्रतिपद्यतेऽसौ; किं स्वतः, बुद्धयन्तरेण वा ? स्वतस्तत्प्रतिपत्तौ बुद्धिकल्पनावैफल्यम् / क्रियायाः करणमन्तरेणाऽनुपपत्तेः तत्साफल्यम्; इत्यपि श्रद्धामात्रम्; इन्द्रियाऽन्तःकरणयोरेव तत्र करणत्वोपपत्तेः / बुद्धयन्तरेण तत्प्रतिपत्तौ च अनवस्था। न च प्राक्तनबुद्धिकाले बुद्धचन्तरमस्ति; ज्ञानयोगपद्याऽनभ्युप। गमात् , अतः कथं तेनापि तत्काले स्वयमसता तत्प्रतिपत्तिः स्यात् ? साकारताऽभ्युपगमे च दूराऽतीतादिव्यवहाराऽभावो बौद्धपक्षोक्तः अत्रापि द्रष्टव्य इति। . एतेन 'न ज्ञानं स्वसंविदितम् भूतपरिणामत्वात् घटादिवत्' इत्याचक्षाणश्चार्वाकोऽपि प्रत्याख्यातः; ज्ञानस्य ज्ञानान्तरवेद्यतायां योग-साङ्ख्यपक्षोक्ताऽशेषदोषाऽनुषङ्गात् / भूतपरिणाम त्वञ्च असिद्धम् आत्मपरिणामत्वात्तस्य / आत्मसिद्धिश्च प्रमेयपरिच्छेदे चार्वाकमतपरीक्षावसरे 25 विधास्यते इत्यलमतिप्रसङ्गेन / १-रेण च भा-आ०, भां० / 2 पृ० 190 50 1 / ३-तौ बौ-श्र० / 4 तद्वदुभय-आ०, भां० / 5 अस्य च प्रधानपरिणामात्मकबुद्धिवादस्य पर्यालोचनं निम्नग्रन्थेषु द्रष्टव्यम्-न्यायसू. भाष्य, वार्त्तिक, ता• टीका 1 / 1 / 15 / 3 / 2 / 3-5 / न्यायमं० पृ. 490 / तत्त्वसं० पृ० 115 / प्रमाणपरी० पृ.६१ / प्रमेयक० पृ. 26 / स्या. रत्ना० पृ. 233 / न्यायवि• टी० पृ. 120 उ०। 6 “न स्वसंवेद्यं ज्ञानं कायाकारपरिणतभूतपरिणामत्वात् पित्तादिवत्" " प्रमाणपरी० पृ०.६२।।