________________ लघो० 116] प्रधानपरिणामात्मक-अचेतनज्ञानवादः 193 तच्छायाच्छुरिता भवति इत्युच्यते; तदप्यविचारितरमणीयम् ; तत्सन्निधानस्य सदैव सद्भावात् , अतो बुद्धः आसर्ग-प्रलयस्थायिन्याः सदैव तच्छायाच्छुरितत्वाऽनुषङ्गात् सदा संवित्तिः स्यात् , तथा च 'अस्मादृशाम् असंवेद्यपर्वणि स्थितः' इति वचो विरुद्धथते / न चास्या वास्तवचैतन्याऽ भावे. विषयव्यवस्थापनशक्तिर्युक्ता, न खलु माणवकस्य अग्न्युपचाराद् दाहादिजननशक्तिदृष्टा। यद् यत्रोपचरितं न तत्तत्र मुख्यप्रयोजनप्रसाधकम् यथा माणवके अग्न्यादि, उप- 5 चरितञ्च बुद्धौ चैतन्यमिति / / किञ्च, मुख-आदर्शवत् बुद्धि-चैतन्ययो)दे सिद्धे सति अन्यस्याऽन्यत्र प्रतिबिम्बनं युक्तम् , न चासौ सिद्धः, संविद्रूपस्यैकस्यैव हर्ष-विषादाद्यनेकाऽऽकारस्य विषयव्यवस्थापकत्वेन अनुभवप्रसिद्धत्वात् / तस्यैवं एते 'चैतन्यम् , बुद्धिः, अध्यवसायः, ज्ञानम् , संवित्तिः' इति पर्यायाः। तथा च चैतन्यं ज्ञानमेव तद्वाचकैः प्रतिपाद्यमानत्वाद् बोधवत् / प्रसिद्धौ हि लोके 10 'चेतयते, जानीते, बुद्धयते, अध्यवस्यति, पश्यति' इति एकार्थे प्रयोगः / न च शब्दभेदमात्राद् वास्तवोऽर्थभेदः ; अतिप्रसङ्गात् / ___ यदप्यभिहितम् -'संसर्गविशेषवशाद्विपलब्धो बुद्धि-चैतन्ययोविवेकं नावधारयति' इत्यादि; तदप्यभिधानमात्रम् वह्नि-अयोगोलकयोरपि अन्योन्यं भेदाऽभावात् , अयोगोलकद्रव्यं हि पूर्वाकारपरित्यागेन अग्निसन्निधानाद् विशिष्टरूप-स्पर्शपर्यायाऽऽधारमेकमेव उत्पन्नमनुभूयते आ- 15 माऽऽकारपरित्यागेन पाकाकाराधारघटद्रव्यवत् / एवमिहापि एकस्मिन् स्व-परप्रकाशात्मकपर्याये अनुभूयमाने अन्यसद्भावो नाऽभ्युपगन्तव्यः, अन्यथा न क्वचिद् एकत्वव्यवस्था स्यात् / 1 “एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त पश्यामः / .." न्यायमं० पृ० 74 / 2 "बुद्धिरुपलब्धिानमित्यनान्तरम् / " न्यायसू० 1 / 1 / 15 / प्रशस्त. भा० पृ. 171 / “बुद्धिः किल गुण्यविकारः त्रैगुण्यं चाऽचेतनमित्यचेतनम् / केवलमिन्द्रियप्रणालिकया अर्थाकारेण परिणमते / चितिशक्तिश्वापरिणामिनी नित्यचैतन्यस्वभावा / तस्याः सन्निधानादयस्कान्तमणिकल्पा बुद्धिः तत्प्रतिबिम्बोद्ग्राहितया चैतन्यरूपतामापन्ना इव अाकारपरिणता अर्थ चेतयते। तेन योऽसौ नीलाकारः परिणामो बुद्धेः स ज्ञानलक्षणा वृत्तिरित्युच्यते / आत्मप्रतिबिम्बस्य तु बुद्धिसङ्क्रान्तस्य यो बुद्ध्याकारनीलसम्बन्धः स आत्मनो व्यापार इवोपलब्धिः आत्मनो वृत्तिरित्याख्यायते। तदिदं बुद्धि तत्त्वं जडप्रकृतितया इन्दुमण्डलमिव स्वयमप्रकाशं चैतन्यमार्तण्डमण्डलछायापत्त्या प्रकाशते, प्रकाशयति चार्थान् , इति तन्निराकरणाय पर्यायोपन्यासः बुद्धिरुपलब्धिः '"" न्यायवा०ता टी. 1 / 1 / 15 / प्रशस्त कन्द० पृ. 171 / “बुद्धिरध्यवसायो हि संवित्संवेदनं तथा। संवित्तिश्चेतना चेति सर्वं चैतन्यवाचकम् // 302 // " तत्त्वसं० पृ० 115 / सन्मति.टी. पृ. 304 / स्या. रत्ना० पृ. 238 / 3 "समानं भवति पुरुषश्चेतयते बुद्धिर्जानीते इत्यत्रापि अर्थो न भिद्यते" न्यायभा० 3 / 2 / 3 / “य एव बुद्ध्यते जानाति अध्यवस्यति स एव पश्यति चेतयते च, न खल्वत्र वस्तुरूपभेदं पश्यामः" "न्यायमं० पृ. 491 / 4 पृ. 19. पं. 8 // 5 "वह्नययोगोलकयोरप्यभेदात् " प्रमेयक. पृ. 26 उ.। 25