________________ 192 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० 'पुरुषार्थो मया सम्पादनीयः' इत्यनुसन्धानानुपपत्तेः। तथाहि-प्रथमसृष्टिकाले प्रकृतिः अनुसन्धानशून्या अनुत्पन्नबुद्धिवृत्तित्वात् , यदाऽसौ अनुत्पन्नबुद्धिवृत्तिः तदा अनुसन्धानशून्या यथा संहृतसृष्टयवस्थायाम् , अनुत्पन्नबुद्धिवृत्तिश्च प्रकृतिः प्रथमसृष्टिकाले इति / उत्पन्नायां बुद्धिवृत्तौ सङ्क्रान्तायाञ्च चिच्छायायां भवति अनुसन्धानम् , प्रथमसृष्टिकाले च प्रकृतेर्जडत्वात् पुरुषस्य 5 च निरभिलाषत्वात् 'पुरुषार्थमहं प्रवर्ते' इति कस्य इदमनुसन्धानं स्यात् ? चिच्छायासक्रा न्तिश्च पुरुषस्य बुद्धौ प्रतिबिम्बनम् यथा मुखस्य दर्पणे, न च व्यापिनोऽस्य कचित् प्रतिबिम्बनं युक्तम् / यद् व्यापकं न तत् क्वचित् प्रतिबिम्बति यथा आकाशम् , व्यापकश्च आत्मा इति / किन्च, अस्वच्छस्वभावस्य मुखादेः स्वच्छस्वभावे दर्पणे प्रतिबिम्बनमुचितम्, बुद्धौ तु त्रिगुणात्मकत्वेन अत्यन्तम्लानस्वभावायां कथमत्यन्तस्वच्छस्वभावः पुरुषः प्रतिबिम्बेत् ? यत् स्व१० च्छस्वभावं न तद् अस्वच्छस्वभावे प्रतिबिम्बति यथा दर्पणो मुखे, स्वच्छस्वभावश्च चिन्मयः पुरुष इति / प्रतिबिम्बने वा अस्य अस्मादृशामसंवेद्यपर्वणि स्थितत्वात् न तत्प्रतिबिम्बप्रतिपत्तिः स्यात् / यद् असंवेद्यपर्वणि स्थितं न तस्य क्वचित् प्रतिबिम्बितस्यापि प्रतिबिम्बग्रहणम् यथा परमाणोः, असंवेद्यपर्वणि स्थितश्च अस्मादृशाम् आत्मा इति / तद्ग्रहणे वा मुख-दर्पणयोरिव प्रकृति पुरुषयोः विवेकेन अवधारणात् तन्निमित्तः सर्वस्य सर्वदा मोक्षः स्यात् , ततो न कश्चित् शास्त्र१५ श्रवण-मनन-निदध्यासनादिषु प्रयतेत / तन्न पुरुषार्थकर्त्तव्यतातोऽपि प्रकृतेः तत्परिणामः / नापि अदृष्टात् ; चक्रकप्रसङ्गात्-सिद्धे हि चिच्छायाच्छुरितबुद्धिवृत्तिसद्भावे सुखसाधनप्रतिपत्तिपूर्वकमदृष्टसाधनानुष्ठानम् , तदनुष्ठानाद् अदृष्टस्योत्पत्तिः, तदुत्पत्तौ च प्रथमसृष्टिकाले तथाविधबुद्धिवृत्तिसद्भावसिद्धिरिति / यदप्युक्तम् -'तस्मात्तत्संसर्गादचेतनं चेतनावैदिव लिङ्गम्' इति ; तत्र कोऽयं संसर्गश२० ब्दार्थः-प्रतिबिम्बनम् , भोग्यभोक्तृभावो वा ? न तावत् प्रतिबिम्बनम् ; तस्य प्रतिषिद्धत्वात् / नापि भोग्यभोक्तृभावः; पुरुषस्य निरभिलाषत्वात् / न च अस्मिन्निरभिलाषे प्रकृतेर्नोग्यता तस्य वा भोक्तृता उपपद्यते; निरभिलाषस्य सुख-दुःखसंविल्लक्षणभोगाऽभावे भोग्य-मोक्तृभावाऽनुपपत्तेः। चेतनावत्' इत्यस्य च भाषितस्य कोऽर्थः-किम् 'अचेतनं चेतनं सम्पद्यते' इत्यर्थः, तच्छा याच्छुरितं वा ? तत्राद्यपक्षोऽसाम्प्रतः ; अन्यसन्निधाने अन्यस्य अन्यधर्मस्वीकाराऽसंभवात् , 25 अन्यथा अकर्तृत्वादिधर्मोपेताऽऽत्मसन्निधानात् प्रकृतेरपि अकर्तृत्वादिधर्मस्वीकारः स्यात् , तथा च 'प्रकृतेर्महान्' इत्यादि जगत्प्रपञ्चप्ररूपणा विशीर्येत / अत्रैवाऽर्थे प्रयोगः-चेतना बुद्धौ तद्वंथपदेशहेतुर्न भवति आत्मधर्मत्वात् , यो यः आत्मधर्मः स सोऽन्यत्र तद्वचपदेशहेतुर्न भवति यथा प्रकृती अकर्तृत्वादिः; आत्मधर्मश्च चेतना इति / अथ चैतन्यसन्निधाने बुद्धिः 1 अज्ञेयदशायाम् / 2 स्यानतो आ० / ३-षु यतेत श्र०। 4 पृ० 190 पं० 15 / ५-वदिह भा०, श्र० / ६-रासंभावात् आ० / 7 तद्वद्व्यप-श्र० / :