________________ लघी०११६] प्रधानपरिणामात्मक-अचेतनज्ञानवादः 191 अत्र प्रतिविधीयते। यत्तावदुक्तम्'-'न स्वव्यवसायात्मकं ज्ञानम् अचेतनत्वात्' इति ; तत्र किमिदमचेतनत्वं नाम-अस्वसंविदितत्वम् , अर्थाकारधारिअचेतनत्वनिरसनपुरस्सरं त्वम् , जडपरिणामत्वं वा ? प्रथमपक्षे साध्याऽविशिष्टो हेतुः / ज्ञानस्य स्वसंवेदनत्वव्यव द्वितीयपक्षे तु साधनविकलो दृष्टान्तः, न खलु पटादयो दर्पणास्थापनम् दिवत् अर्थाकारधारिणः प्रतीयन्ते / स्वरूपाऽसिद्धञ्च इत्थम्भूत- 5 मचेतनत्वम् ; अमूर्ते ज्ञाने मूर्तस्याऽर्थस्य आकारधारित्वाऽनुपपत्तेः / तथाहि-न विषयाकारधारि ज्ञानम् अमूर्तत्वात् , यदमूर्तम् तद् विषयाकारधारि न भवति यथा आकाशम् , अमूर्तञ्च ज्ञानमिति / तद्धारित्वे वा अमूर्तत्वमस्य विरुद्धयते ; तथाहि-यद् विषयाकारधारि तन्मूतम् यथा आदर्शादि, विषयाकारधारि च ज्ञानमिति / विषयाकारधारित्वञ्चास्य प्रागेव प्रबन्धन प्रतिषिद्धम् इत्यलमतिप्रसङ्गेन / जडपरिणामत्वमपि असिद्धमेव ; आत्मपरिणामत्वात्तस्य। 10 तथाहि-ज्ञानपरिणामवान् आत्मा दृष्तृत्वात् , यस्तु न तथा स न दृष्टा यथा घटादिः, दृष्टा च आत्मा, तस्मात् ज्ञानपरिणामवान् इति / तथा चास्य अचेतनत्वसमर्थनार्थ यदुक्तम्-'प्रधानपरिणामत्वात्' इति साधनम् ; तदप्यसिद्धमेव ; अस्य आत्मपरिणामत्वसमर्थनात् / न च आत्मनः अनित्यज्ञानपरिणामात्मके अनित्यत्वापत्तिः ; प्रधानेऽपि तत्प्रसङ्गात् / व्यक्ताऽव्यक्तयोरभेदेऽपि 'व्यक्तमेव अनित्यं परिणामत्वात् , न तु अव्यक्तं परिणामित्वात् ' 15 इत्यन्यत्रापि समानम् / आत्मनोऽपरिणामित्वे अर्थक्रियाकारित्वाऽभावतः अश्वविषाणवद् असत्त्वप्रसङ्गश्च / आसर्गप्रलयस्थायित्वं व्यापित्वञ्च बुद्धेः अतीवाऽनुपपन्नम् ; तत्परिणामस्य तद्विरोधात् / तथाहि-न बुद्धिः व्यापिका नित्या च प्रधानपरिणामत्वात् पटादिवत् / न च आकाशादिना अनेकान्तः ; तस्य तत्परिणामत्वाऽसिद्धेः / सिद्धौ वा तव॑त् तस्यापि तद्विरोधप्रसङ्गः / अथ तत्परिणामत्वाऽविशेषेऽपि किञ्चिद् आसर्ग-प्रलयस्थायि व्यापकञ्च अन्यद् अन्यथा ; तर्हि 20 तदविशेषेऽपि 'ज्ञानं स्वसंविदितं पटादिकञ्च अन्यथा' इति किन्नेष्यते अविशेषात् ? किच, अयं प्रथमो बुद्धिरूपः परिणामः प्रकृतेः कुतः स्यात्-स्वभावतः, पुरुषार्थकर्त्तव्यतातः, अदृष्टाद्वा ? यदि स्वभावतः ; तर्हि सदा अस्य सत्त्वप्रसङ्गः स्वभावस्य सदा सत्त्वसंभवात् / यत् स्वाभाविकं न तत् कादाचित्कम् यथा त्रिगुणात्मकत्वम् , स्वाभाविकश्च प्रकृतेराद्यो बुद्धिपरिणाम इति / अथ पुरुषार्थकर्त्तव्यताहेतुः, 'आत्मनो हि भोगो मया सम्पादनीयः' 25 इत्यनुसन्धाय प्रकृतिः महदादिभावेन परिणमते इति; तदप्यसुन्दरम्; जडस्वभावायास्तस्याः १पृ० 18950 11 / 2 “प्रधानस्य चाऽनित्या व्यक्तादनान्तरभूतस्य नित्यतां प्रतीयन् पुरुषस्यापि ज्ञानादशाश्वतादनान्तरभूतस्य नित्यत्वमुपैतु सर्वथा विशेषाभावात् / " आप्तपरी० पृ. 41 / स्या। रत्ना० पृ. 235 / 3 “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् / सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् // 10 // " सांख्यका०।४ पटादिवत् / 5 आकाशस्यापि / 6 नित्यत्वव्यापकत्वविरोध /