________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० शामसंवेद्यस्वभावः, ततस्तु या प्रतिप्राणि विभिन्ना इन्द्रिय-मनोवृत्तिद्वारेण बुद्धिवृत्तयो निस्स: रन्ति ताः प्रमाणान्तरेण संवेद्यस्वभावाः / प्रेतिपुरुषं हि इन्द्रियवृत्तिः प्रथमतो विषयाकारण परिणमते ततो मनोवृत्तिद्वारेण, बुद्धिवृत्तिः एकतः सङ्क्रान्तविषयाकारा अन्यतश्च सक्रान्तचिच्छाया विषयव्यवस्थापिका। न खलु बुद्धौ आदर्शस्थानीयायां विषयाकाराऽसङ्क्रमे 5 पुरुषेण अर्थश्चेतयितुं शक्यः “बुद्धेयध्यवसितमर्थ पुरुषश्चेतयते" [ ] इत्यभिधा नात् / बुद्धयध्यवसितं बुद्धिप्रतिबिम्बितम् इत्यर्थः।। ___ ननु बुद्धिव्यतिरिक्तस्य चैतन्यस्य कदाचिदप्यप्रतीतेः कथं तत्र चिच्छायासङ्क्रान्तिः ? इत्यप्यसमीचीनम् ; सतोऽप्यनयोविवेकस्य संसर्गविशेषवशाद् विप्रलब्धेन अवधारयितुमशक्तेः अयोगोलक-वह्निविवेकवत् / न च अयोगोलक-वह्नयोरपि अभेद एव इत्यभिधातव्यम् ; अनयोः 10 अन्योन्याऽसंभविसंस्थान-रूप-स्पर्शविशेषप्रतीतितः अन्योन्यं भेदप्रतीतेः / ययोरन्योन्याऽ संभवी संस्थान-रूप-स्पर्शविशेषः प्रतीयते तयोरन्योन्यं भेदः यथा घट-पटयोः, अन्योन्याऽसंभवी संस्थान-रूप-स्पर्शविशेषश्च अयोगोलक-वह्नयोरिति / . न चाऽयमसिद्धः ; अयोगोलकवृत्तसन्निवेशाऽभासुररूपाऽनुष्णस्पर्शेभ्यो वह्निभासुररूपोष्णस्पर्शयोः प्रत्यक्षत एव विशेषः प्रती यते / अतो यथाऽत्र अन्योन्यप्रदेशाऽनुप्रवेशलक्षणसंसर्गाद् विप्रलब्धो भेदं नावधारयति 15 एवं बुद्धिचैतन्ययोरपि। उक्तञ्च-" तस्मात्तत्संसर्गादचेतनं चेतनावैदिव लिङ्गम् " [ सांख्य का० 20 ] इति / अचेतनाऽपि हि बुद्धिः चेतनासंसर्गात् 'चेतनायमाना प्रतिभासते इति / १“एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः / कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥"बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च सङ्कल्प्य अहङ्काराय अहङ्कारश्चाभिमत्य बुद्धी सर्वाध्यक्षभूतायाम् / सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः / सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् // 37 // बुद्धिर्हि पुरुषसन्निधानात् तच्छायापत्त्या तद्रूपेव सर्वविषयोपभोगं पुरुषस्य साधयति..." सांख्यका० 36, 37 / " इन्द्रियप्रणालिकया अर्थसन्निकर्षेण लिङ्गज्ञानादिना वा आदौ बुद्धेराकारा वृत्तिर्जायते "स्मृतिरपि-"तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः / इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः // " सांख्यप्र० भा०१।८७ / “बुद्धिदर्पणे पुरुषप्रतिबिम्बसङ्क्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः तथा च दृशिच्छायापन्नया बुद्ध्या संसृष्टाः शब्दादयो भवन्ति दृश्याः इत्यर्थः / " योगसू० तत्त्ववैशा० 2 / 20 / 2 उद्धृतश्चैतत्-तत्त्वार्थश्लो० पृ० 50 / आप्तपरी० पृ० 41 / प्रमेयक० पृ० 26 उ० / न्यायवि० टी० पृ० 547 पू० / स्या. रत्ना० पृ० 233 / ३-रूपस्पर्शनयोः वि-भां० / 4 विशेषप्रतीतेः भां०, श्र० / ५-वदिह भां०, श्र० / “तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् / गुणकर्तृत्वेऽपि तथा कर्त्तव भवत्युदासीनः // 20 // यस्माचेतनस्वभावः पुरुषः तस्मात् तत्संयोगादचेतनं महदादि लिङ्ग अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते / को दृष्टान्तः / तद्यथाअनुष्णाशीतो घटः शीताभिरद्भिः संसृष्टः शीतो भवति अग्निना संयुक्त उष्णो भवति एवं महदादिलिङ्गमचेतनमपि भूत्वा चेतनावद् भवति / " माठरवृ., गौड़पादभा० / 6 चेतयमाना श्र०।.