________________ लघी० 16] प्रधानपरिणामात्मक-अचेतनज्ञानवादः 189 भिधानमात्रम् ; यतः अर्थप्रकाशकत्वम् अर्थोद्योतकत्वम् उच्यते तच्च क्वचिद् बोधरूपतया कचिद् भासुररूपतया वा न विरोधमध्यास्ते / ___ यच्चान्यदुक्तम्-'येनैवाऽऽत्मना ज्ञानमात्मानं प्रकाशयति तेनैवार्थम्' इत्यादि; तदैसमीक्षिताभिधानम् ; स्वभौव-तद्वतोः भेदाऽभेदं प्रति अनेकान्तात् , ज्ञानात्मना हि स्वभावतद्वतोः अभेदः , स्वपरप्रकाशस्वभावात्मना च भेदः , इति ज्ञानमेव अभेदः , तत्स्वभावौ 5 एव भेदः इत्युक्तदोषाऽनवकाशः / कल्पितयोस्तु भेदाऽभेदयोः तद्रूषणप्रवृत्तौ स्वाभिप्राय एव प्रतिषिद्धः स्यान्न वस्तुस्वरूपम् / न चैवं कस्यचिद् इष्टतत्त्वव्यवस्था घटते; तथा तत्प्रवृत्तेः सर्वत्र संभवात् / स्व-परग्रहणस्वभावौ च ज्ञानस्य तत्प्रकाशनसामर्थ्ये, तद्रूपतया च अस्य परोक्षता, तत्प्रकाशनलक्षणकार्याऽनुमेयत्वात् तयोः, इत्युक्तदोषाऽनवकाशः इति / एतेन साङ्खयोऽपि ज्ञानस्य ज्ञानान्तरवेद्यत्वं प्रतिपादयन् प्रत्याख्यातः / ननु ज्ञानं स्वव्यवसायात्मकं न भवति अचेतनत्वात् पटादिवत् / न चास्य अचेतनत्वमसि द्धम् ; तथाहि-अचेतनं ज्ञानम् प्रधानपरिणामत्वात् तद्वदेव / यत् 'अचेतनत्वात् न ज्ञानं स्व स्व- पुनश्चेतनम् तन्न प्रधानपरिणामः यथा आत्मा, प्रधानपरिणामश्च व्यवसायात्मकम् / इति सांख्य ज्ञानम् इति / तत्परिणामत्वञ्चास्य सुप्रसिद्धम् “प्रेकृतेर्महान्" स्य पूर्वपक्षः [सांख्यका० 22] इत्याद्यभिधानात् / प्रधानस्य हि जगत्प्रपञ्च- 15 रचनायां प्रवर्तमानस्य प्रथमतो "महान् एको व्यापको विषयाध्यवसायस्वरूप आसर्गप्रलयस्थायी भवति " आसर्गप्रलयादेका बुद्धिः"" [ ] इत्यभिधानात् / स च अस्माह 1 यतः अर्थोद्यो-श्र० / 2 पृ० 182 पं० 20 / 3 तदप्यस-श्र० / 4 " स्वभावतद्वताः भेदाभेदं प्रत्यनेकान्तात्"" प्रमेयक० पृ. 38 पू० / ५-नवकाशाः आ० / 6 तथा प्रवृत्तेः आ० / ७-हणभावौ आ० / 8 ज्ञानान्तरवेद्यज्ञानवादस्य खण्डनं निम्नग्रन्थेषु विलोकनीयम् - तत्त्वार्थश्लो. पृ० 40 / प्रमाणपरी० पृ०६० / युक्तयनुशा० टी० पृ. 7 / प्रमेयक० पृ. 33 उ० / न्यायवि. टी. पृ० 109 उ० / प्रमेयरत्नमा० सू०६।१। सन्मति० टी० पृ० 475 / स्या० रत्ना० पृ. 219 / स्या० मं० पृ. 95 श्लो० 15 / 9 " प्रकृतेर्महान् ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः / तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि // 22 // " सांख्यका० / " तस्याः प्रकृतेर्महान् उत्पद्यते प्रथमः कश्चित् / महान् बुद्धिः मतिः प्रज्ञा संवित्तिः ख्यातिः चितिः स्मृतिरासुरी हरिः हरः हिरण्यगर्भ इति पर्यायाः / " माठरवृ०, गौड़पादभा० / सांख्यसं० पृ.६। 10 “महदाख्यमाद्यं कार्य तन्मनः // 71 // महदाख्यमाद्यं कार्य तन्मनो मननवृत्तिकम् / मननमत्र निश्चयः। तवृत्तिका बुद्धिरित्यर्थः / यदेतद्विस्तृतं बीज प्रधानपुरुषात्मकम् / महत्तत्त्वमिति प्रोक्तं बुद्धितत्त्वं तदुच्यते // " सांख्यप्र. भा. 1171 / “सत्तामात्रात्मभावो यश्चाहमस्मीति लक्षणः // 38 // आत्मनिश्चयबुद्धिा लिङ्गमात्रं महानिति। बुद्धितत्त्वं तथाख्यातं तत् षट् प्रकृतिकारणम् // 39 // " योगका• साधनपाद / 11 उद्धृतश्चैतत्-तत्त्वसं. पं० पृ. 29 / सन्मति• टी. पृ० 300 /