________________ 188 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रकाशनस्वभावस्य अस्योत्पत्तेः तस्यास्तत्राऽविरोधः, इत्यन्यत्रापि समानम् / यदि चैकत्र दृष्टो धर्मः सर्वत्र विधीयते प्रतिषिद्धयते वा, तर्हि रथ्यापुरुष असर्वज्ञत्वोपलम्भात् महेश्वरेऽपि तत्प्रसङ्गः, द्विचन्द्रादिज्ञाने च प्रामाण्यप्रतिषेधप्रतीतेः एकचन्द्रादिज्ञानेऽपि तत्प्रतिषेधप्रसङ्गः / अत्र वस्तुवैचित्र्यसंभवे ज्ञानेन किमपराद्धं येन तत् तत्र नेष्यते ? किञ्च, ज्ञानान्तरापेक्षया तत्र कर्मत्वविरोधः, स्वरूपापेक्षया वा ? प्रथमपक्षे महेश्वरस्य असर्वज्ञत्वम् , " एकात्मसमवेताऽनन्तरज्ञानग्राह्यम् अर्थज्ञानम् / " [ ] इति ग्रन्थविरोधश्च स्यात् / ज्ञानान्तरापेक्षया तत्र तस्याऽविरोधे च स्वरूपापेक्षयापि अविरोधोऽस्तु, सहस्रकिरणवत् स्वपरोद्योतनस्वभावत्वात्तस्य / कर्मत्ववच्च ज्ञानक्रियातोऽर्थान्तरस्यैव करणत्वस्य प्रतीतेः तस्यापि तत्र विरोधः स्यात् , तथा च 'ज्ञानेन अहमर्थ जानामि' इति ज्ञानस्य करण१० तया प्रतीतिर्न स्यात् / ___अथ अर्थवत् ज्ञाने ज्ञानस्वरूपस्याऽप्रतीतेने स्वतः प्रत्यक्षता; ननु ‘अर्थवत्' इति कोऽर्थःकिं यथा अर्थो बहिर्देशसम्बद्धः प्रतीयते न तथा ज्ञानम् , किं वा यथा अर्थोन्मुखं ज्ञानं न तथा स्वोन्मुखम् इति ? प्रथम विकल्पे सिद्धसाध्यता, घटाद्यर्थ-तज्ज्ञानयोर्बहिरन्तर्देशसम्बद्धतया अवभासनात् / घटाद्यर्थदेशसम्बद्धतया ज्ञानस्याऽप्रतिभासनाद् अप्रत्यक्षत्वे घटाद्यर्थस्यापि ज्ञान१५ देशसम्बद्धतयाऽप्रतिभासनाद् अप्रत्यक्षता स्यात् / द्वितीयविकल्पोऽप्यनुपपन्नः; 'घटम् ' 'अहम्' 'वेद्मि' इति त्रयस्यापि प्रतिभासनात् / अत्र प्रतिभासद्वयविलोपे घटप्रतिभासे कः समाश्वासः ? किञ्च, ज्ञानस्वरूपताऽप्रतिभासे कथं तस्य अर्थोन्मुखत्वम् अन्यद्वा व्यवस्थापयितुं शक्यम् 'अस्य इदम्' इति सम्बन्धप्रतिपत्तेः सम्बन्धिप्रतिपत्तिनान्तरीयकत्वात् ? अथ ज्ञाना न्तरेण ज्ञानं प्रतीत्य अर्थोन्मुखत्वमस्य प्रतीयते; तदा आवृत्त्या अर्थप्रतीतिप्रसङ्गः-प्रथमं हि 20 प्रथमज्ञानेऽर्थप्रतीतिः ततो ज्ञानान्तरे, कथमन्यथा 'अर्थोन्मुखमेतत्' इति प्रतीतिः स्यात् ? ततो ज्ञाने अर्थोन्मुखत्वप्रतिभासवत् स्वोन्मुखत्वप्रतिभासोऽप्यभ्युपगम्यताम् अलं प्रतीत्यपलापेन / ____ कश्र्चे क्रियायाः स्वात्मा यत्र अस्या विरोधः प्रतिपाद्यते-किं तस्याः स्वरूपम् , क्रियावदात्मा वा स्यात् ? तत्र आद्यविकल्पोऽयुक्तः; स्वरूपस्याविरोधकत्वात् , अन्यथा सर्वभावानां स्वरूपे विरोधाऽनुषङ्गात् निःस्वरूपत्वप्रसङ्गः स्यात् / विरोधस्य द्विष्ठत्वाच्च न अस्याः स्वरूप 25 विरोधो युक्तः / द्वितीयविकल्पोऽप्यनुपपन्नः; क्रियावत्येव अखिलक्रियाणां प्रतीतेः, अन्यथा सर्व द्रव्याणां निष्क्रियत्वं क्रियाणाञ्च निराश्रयत्वं स्यात्, न चैवम् , कर्तृस्थायाः क्रियायाः कर्त्तरि कर्मस्थायाश्च कर्मणि प्रतीयमानत्वात् / __ यदप्यभिहितम्-'प्रकाशत्वं बोधरूपत्वम् , भासुररूपसम्बन्धित्वं वा' इत्यादि; तदप्य 1 वैचित्र्यम् / २-खज्ञानं आ० / 3 प्रथमपक्षे श्र० / 4 “स्वात्मा हि क्रियायाः स्वरूपं क्रियावदात्मा वा ?" आप्तपरी० पृ० 47 / प्रमेयक० पृ० 35 उ० / स्या० रत्ना० पृ० 229 / 5 पृ. 182 पं०१७ / 6 प्रकाशकत्वं श्र० /