________________ लघी० श६] ज्ञानान्तरवेद्यज्ञानवादः . 187 कृतः छेदः सः क्रममाव्येव, यथा तथाभूतानां ताम्रपत्राणां मूर्तेन सूच्यग्रेण एकपुरुषव्यापारात् कृतश्च्छेद इति / आत्मनस्तु स्वपरप्रकाशनस्वभावस्य अविकलेन्द्रियस्य अप्राप्तार्थप्रकाशकस्य अमूर्तस्य युगपत् स्वविषयप्रकाशने को विरोधः यतो युगपज्ज्ञानोत्पत्तिर्न स्यात् ? न च उत्पलपेत्रशतवत् परस्परपरिहारस्थितानि इन्द्रियाणि सूच्यप्रवन्मूर्तस्य मनसः युगपत्प्राप्तुमसमर्थत्वान्न तथा तदुत्पत्तिः इत्यभिधातव्यम् ; भवत्कल्पितस्य मनसः षट्पदार्थपरीक्षावसरे निरा- 5 करिष्यमाणत्वात् / __ यदप्युक्तम्-'स्वेन-आत्मनैव संवेदनम् स्वसंवेदनम् ; तदयुक्तम् ; स्वात्मनि क्रियाविरोधात्' इत्यादि; तदप्यसारम् ; ईश्वरज्ञानेन प्रदीपाद्यालोकेन च अनेकान्तात् / न हि ईश्वरज्ञानं स्वप्रकाशने ज्ञानान्तरमपेक्षते " स्वपरावभासकमेकं नित्यज्ञानं जगत्कर्तुः [ ] इत्यभ्युपगमात् / नापि प्रदीपाद्यालोकः स्वरूपप्रकाशने प्रकाशान्तरमपेक्षते; प्रतीतिविरोधात् / का च 10 क्रिया ज्ञानस्य स्वात्मनि विरुद्धथते-किम् उत्पत्तिरूपा, परिस्पन्दात्मिका, धात्वर्थस्वभावा, ज्ञप्तिलक्षणा वा ? यदि उत्पत्तिलक्षणा; सा विरुद्धयताम् / न हि 'ज्ञानम् आत्मानमुत्पादयति' इति अस्माकमभ्युपगमः, स्वसामग्रीतः तदुत्पत्तिप्रतिज्ञानात् / नापि परिस्पन्दात्मिका; तस्या द्रव्यवृत्तित्वेन अद्रव्यरूपे ज्ञाने सत्त्वस्यैवाऽसंभवात् / धात्वर्थरूपाऽपि-अकर्मिका, सकर्मिका वा क्रिया स्वात्मनि विरुद्धचते ? न तावदकर्मिका; 15 * वृक्षस्तिष्ठति' इत्यादौ तस्याः स्वात्मन्येव प्रतीतेः / अथ प्रतीतितः अस्यास्तत्राऽविरोधः; तर्हि 'ज्ञानं प्रकाशते' इत्याद्यकर्मकक्रियायाः ज्ञानस्वरूपेऽप्यविरोधोऽस्तु , प्रतीतेः उभयत्राप्यविशिटत्वात् / अथ 'ज्ञानम् आत्मानं जानाति' इति सकर्मिका क्रिया स्वात्मनि विरुद्धा, ततोऽन्यत्रैव कर्मत्वप्रतीतेः इत्युच्यते; तदप्युक्तिमात्रम; 'आत्मा आत्मानं हन्ति, प्रदीपः स्वात्मानं प्रकाशयति' इत्यादेरपि विरोधाऽनुषङ्गात् / आत्मादेः कर्तुः कर्मत्वोपचारः ज्ञानेऽपि समानः / 20 एतेन ज्ञप्तिक्रियायाः स्वात्मनि विरोधः प्रत्याख्यातः ; स्वरूपेण कस्यचिद् बिरोधाऽसिद्धेः, अन्यथा प्रदीपस्यापि स्वपरप्रकाशनविरोधः स्यात्, न चैवम् , अतो यथा प्रदीपः स्वकारणकलापात् स्वपरप्रकाशनस्वभावो जायमानो न विरोधमध्यास्ते तथा ज्ञानमपि / अथ ज्ञप्तिक्रिया कर्मतया स्वात्मनि विरुद्धयते ततोऽन्यत्रैव कर्मत्वस्य प्रतीतेः; तर्हि प्रकाशनक्रियापि प्रदीपस्वरूपे "तथा विरुद्धथताम् स्वरूपादन्यत्रैव "अस्या अपि "प्रतीत्यविशिष्टत्वात् / स्वसामग्रीतः स्वपर- 25 १-पत्रवत् आ०, भां० / 2 पृ० 182 पं० 14 / ३-त्यं ज्ञानं श्र० / 4 " का पुनः स्वात्मनि क्रिया विरुद्धा; परिस्पन्दरूपा, धात्वर्थरूपा वा ?" तत्त्वार्थश्लो• पृ० 42 / “किमुत्पत्तिप्तिर्वा...,' प्रमाणपरी० पृ० 59 / आप्तपरी० पृ. 47 / प्रमेयक० पृ० 35 उ० / स्या. रत्ना० पृ. 228 / स्या० मं० पृ. 93 / 5 परस्पन्दा-आ० / 6 विरुद्धथत श्र०। ७-क्रियायां आ० / 8 अन्यथापि प्र-आ० / 9 स्वात्मनः / 10 कर्मतया / 11 प्रकाशनक्रियायाः / 12 प्रतीतिविशेषात् आ० /