________________ 186 लघोयस्रयालङ्कारे न्यायकुमुदचन्द्रे . [1 प्रत्यक्षपरि० किञ्च, अर्थज्ञानोत्पत्तौ नियमेन तद्ग्राहकं ज्ञानमुत्पद्यते, न वा ? प्रथमपक्षे न पुरुषायुषेणाऽ पि अर्थान्तरे ज्ञानस्य सञ्चारः ज्ञानज्ञानोत्पत्तावेव आजन्म मनसो व्यापारात्, तथा च अनवस्थातो नार्थः अर्थज्ञानं वा सिध्येत् / न च अप्रत्यक्षेण अर्थज्ञानज्ञानेन अर्थज्ञानस्य, तेन च अर्थस्य प्रत्यक्षता युक्ता ; सन्तानान्तरज्ञानादपि तत्प्रसङ्गात् / अथ तदुत्पत्तावपि नियमेन 5 तन्नोत्पद्यते, अर्थजिज्ञासायां हि अर्थे ज्ञानमुत्पद्यते, ज्ञानजिज्ञासायां तु ज्ञाने ; तदप्यसुन्दरम् ; ज्ञानस्य जिज्ञासाप्रभवत्वाऽसंभवात् , नष्टाश्वस्य अश्वदिदृक्षायां सत्यामपि अश्वदर्शनाऽनुत्पत्तेः , असत्यामपि च गोदिदृक्षायां तदर्शनोत्पत्तेः / किञ्च, 'अर्थजिज्ञासायां सत्याम् अहमुत्पन्नम्' इति तज्ज्ञानमेव प्रतिपद्यते, ज्ञानान्तरं वा ? प्रथमविकल्पे जैनमतसिद्धिः, तथा प्रतिपद्यमानं हि ज्ञानं स्वार्थपरिच्छेदकं स्यात् / 10 द्वितीयविकल्पे तु अनवस्था-तत्रापि जिज्ञासाप्रभवत्वस्य अन्यतः प्रतीतेः / अस्तु वा तत्प्रभव तया तृतीयादिज्ञानाऽनुत्पत्तिः ; तथापि-'अर्थज्ञानम् अज्ञातमेव मया अर्थस्य परिच्छेदकम्' इति ज्ञानान्तरं प्रतिपद्यते, न वा ? प्रतिपद्यते चेत् ; तर्हि देव ( तदेव ) स्व-परपरिच्छेदकं सिद्धम्। . न प्रतिपद्यते चेत् ; कथं तथा प्रतिपत्तिः अतिप्रसङ्गात् ? किञ्च, अर्थज्ञानम् अर्थम् आत्मानञ्च प्रतिपद्य 'अज्ञातमेव मया ज्ञानम् अर्थ जानाति' इति ज्ञानान्तरं प्रतीयात् , अप्रतिपद्य वा ? 15. प्रथमपक्षे त्रिविषयत्वमस्य प्रसज्यते / द्वितीयपक्षे तु अतिप्रसङ्गः 'अज्ञातमेव मया अणुद्वयं द्वयणुकमारभते' इत्यपि तत् प्रतीयादिति / ज्ञानस्य ज्ञानान्तरग्राह्यत्वे च अज्ञानतैवास्य स्यात् प्रकाशस्य प्रकाशान्तरापेक्षायाम् अप्रकाशतावत् , न हि स्वसिद्धौ परमुखप्रेक्षित्वं विहाय अन्यज् जडस्य लक्षणम् / किञ्च, अर्थसंवेदनात तत्संवेदनस्य भेदे तथैव उपलम्भः कुतो न स्यात् ? आशुवृत्त्या उत्पलपत्रशतच्छेदवद् यौगपद्याभिमानादिति चेत् ; कथमेवं सर्वभावानां क्षणिकत्वं न स्यात् 'एकत्वाध्यवसायस्य अत्रापि आँशुवृत्तिप्रवृत्तत्वात्' इति बौद्धनापि अभिधातुं शक्यत्वात् ? मूर्तानाञ्च उत्पलपत्राणां मूर्तेन शू (सू )च्यप्रेण छेदः क्रमेणैव युक्तः ; युगपत्प्राप्त्यभावात् / प्रयोगः-योऽयम् औत्तराधर्यक्रमावस्थितानां मूर्तानामुत्पलपत्राणां मूर्तेन एकपुरुषव्यापारात् १“विमुखज्ञानसंवेदो विरुद्धो व्यक्तिरन्यतः / असञ्चारोऽनवस्थानमविशेष्यविशेषणम् // 19 // ज्ञानज्ञानमपि ज्ञानमपेक्षेत परस्तथा / ज्ञानज्ञानलताऽशेषनभस्तलविसर्पिणी // 21 // " न्यायवि. पृ० 110111 / प्रमाणपरी० पृ. 60 / तत्त्वार्थश्लो० पृ. 42 / युक्तयनुशा० टी० पृ. 7 / सन्मति० टी० पृ. 479 / प्रमेयक० पृ० 34 उ० / स्याद्वादम०पृ० 94 / चन्द्रप्रभच० 2 / 57-59 / २-तो ज्ञानात्मार्थज्ञानं वा भा०, श्र० / ३-तीयज्ञा-श्र०। 4 चेतदेव आ०, भा० / 5 "किञ्चाऽर्थज्ञानमर्थमात्मानं च प्रतिपद्य..." युक्तयनुशा० टी० पृ० 9 / प्रमेयक० पृ० 37 उ० / ६-तैव स्यात् आ०, भा० / 7 आशुवृत्तित्वात् भां०। 8 “मूर्तस्य सूच्यग्रस्य औत्तराधर्यावस्थितमुत्पलपत्रशतं युगपद्वयाप्तुमशक्तेः / " प्रमेयक० पृ. 36 पू० / सन्मति. टी. पृ. 477 /