________________ लघी० 1 / 6] ज्ञानान्तरवेद्यज्ञानवादः 185 तत्राद्यः पक्षोऽध्यक्षविरुद्धः; 'नीलम्' इत्युल्लेखेन अर्थग्रहणवत् 'अहम्' इत्युल्लेखेन आत्मग्रहणस्याप्यनुभवात् / न हि नीलादिसंवेदनाद् भिन्नकालं तदात्मसंवेदनमनुभूयते ; तत्संवेदनसमकालमेव अन्तः परिस्फुटरूपस्याऽनुभवात्। अतोऽर्थसंवेदनस्य आत्मसंवेदनादभिन्नस्वभावत्वात् तत्संवेदने तदपि संविदितम् इति स्वसंवेदनसिद्धिः / यद् यस्माद् अभिन्नस्वभावं तस्मिन् गृह्यमाणे तद् गृहीतमेव यथा नीले गृह्यमाणे तस्यैव स्वरूपं सन्निवेशादि, स्वरूपसंवेदनाद् अभि- 5 नस्वभावञ्च अर्थसंवेदनमिति / अथ 'अर्थस्यापि ग्रहणम्' इत्ययं पक्षः कक्षीक्रियते ; तदा सिद्धसाधनं स्वसंवेदनाऽप्रतिक्षेपात् / यदि च ज्ञानमस्वसंविदितस्वभावम् इष्यते ; तदा तत् किं परोक्षं स्यात् , ज्ञानान्तरवेद्यं वा ? न तावत्परोक्षम् ; मतान्तरप्रसङ्गात्, तेनाऽप्रत्यक्षेण अर्थप्रत्यक्षताविरोधाच्च / तथाहियद् अव्यक्तव्यक्तिकं न तद् व्यक्तम् यथा किञ्चित् केनचिद् अज्ञानम् , अव्यक्तव्यक्तिकञ्च 10 नीलादिकं वस्तु इति / व्यक्तिर्हि ज्ञानम् , सा यदा अव्यक्ता ; तदा कथम् अर्थव्यक्ततोपपन्ना, सन्तानान्तरज्ञानादपि अर्थव्यक्तत्वाऽनुषङ्गात् / : अथ ज्ञानान्तरवेद्यं तदिष्यते; तत्रापि किंसहसम्भूतज्ञानसंवेद्यम् , उत्तरकालीनज्ञानसंवेद्यं वा स्यात् ? तत्राद्यः पक्षोऽनुपपन्नः; युगपज्ज्ञानानामसंभवात् , अन्यथा “युगपज्ज्ञानाऽनुत्पत्तिर्मनसो लिङ्गम् [ न्यायसू० 1 / 1 / 16 / ] इति वचो विरुद्ध येत / द्वितीयपक्षोऽप्ययुक्तः ; 15 विच्छिन्नप्रतिभासाऽभावात् , न खलु 'प्रागर्थज्ञानम् , पश्चात्तज्ज्ञानज्ञानम्' इति सान्तरा प्रतीतिरनुभूयते / ततः 'ग्रहणञ्च अर्थज्ञानस्य एकात्मसमवेताऽनन्तरज्ञानेन' इत्यादि प्रत्याख्यातम् / किञ्च, उत्तरकालीनज्ञानकाले तत् प्राक्तनज्ञानम् अनुवर्तते, न वा ? यद्यनुवर्तते ; स एव ज्ञानयोगंपद्यप्रसङ्गः, अक्षणिकत्वाऽनुषङ्गश्च स्यात् / अथ नाऽनुवर्तते ; कस्य तर्हि तद् ग्राहकम् ग्राह्यस्य प्रागेव विलीनत्वात् ? किञ्च, इन्द्रियजं प्रत्यक्षं प्रवर्तमान सम्बद्ध वर्तमाने च विषये 20 प्रवर्तते, अतीतक्षणवर्तिनश्च ज्ञानस्य न वर्तमानत्वम् मनोलक्षणेन्द्रियसन्निकर्षो वा संभवति, न च असम्बद्धे अवर्तमाने चाऽर्थे प्रवर्तमानं ज्ञानं प्रत्यक्षं युक्तम् , तत्कथं तत्र मानसप्रत्यक्षवार्ताऽपि स्यात् ? अर्थाद् उत्पन्नञ्च ज्ञानम् अर्थग्राहकम् , न च विनष्टस्य जनकत्वम् ; असत्त्वात् / असतश्च अर्थक्रियाकारित्वाऽनुपपत्तिः ; विरोधात् / न च विनश्यदवस्थस्य जनकत्वं युक्तम् ; तथाभूतस्य कारकत्वाऽदर्शनात् , न हि म्रियमाणस्य पितुः पुत्रं प्रति कारकत्वं दृष्टम् / 25 1 अहमित्युल्लेखरूपम् / २-भवनात् श्र० / 3 “परोक्षज्ञानविषयः परिच्छेदः परोक्षवत् / " न्यायवि. पृ. 97 पू० / “तस्यापि च परोक्षत्वे प्रत्यक्षोऽर्थो न सिद्धयति / ततो ज्ञानावसायः स्यात्कुतोऽ स्याऽसिद्धवेदनात् // 224 // " तत्त्वार्थश्लो. पृ० 47 / 4 उद्धृतञ्चैतत्-सन्मति० टी० पृ. 477 / न्यायवि० टी० पृ. 117 उ०। स्या० रत्ना० पृ० 225 / 5 पश्चाज्ज्ञानम् आ०, भां० / 6 कारणत्वं भां०, श्र.। 24