________________ लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० न च स्वभावः प्रादेशिको युक्तः आलोकस्य स्वपरप्रकाशतावत्। न खलु स्वारप्रकाशता आदित्या-. लोकस्यैव स्वभावः न प्रदीपाद्यालोकस्य, उभयत्राप्यविशेषतस्तत्प्रतीतेः / अथ अस्मदादिज्ञानस्य ईश्वरज्ञानवत् स्वपरव्यवसायात्मकत्वे तद्वत् निखिलार्थावभासित्वमपि स्यात् ; तदसमीचीनम् ; योग्यस्यैवाऽवभासनात् प्रदीपवत्। न हि प्रदीपस्य आदित्यवत् स्वपरप्रकाशस्वभावत्वेऽपि तद्व५ निखिलार्थस्य प्रकाशकत्वं दृष्टम् , योग्यस्यैव नियतदेशार्थस्य अनेन प्रकाशनात् , एवमंत्रापि / योग्यता च अखिलज्ञानानां स्वावरणक्षयोपशमतारतम्यलक्षणा प्रतिपत्तव्या / न हि तदभावे विषयग्रहणतारतम्यं तेषां घटते इत्यग्रे प्रसाधयिष्यते। तन्न स्वसंविदितत्वात अस्मदादिविशेषणेन ईश्वरज्ञानस्य व्यवच्छेदः / ___नापि सर्वदा परोक्षत्वात् ; मीमांसकमतानुप्रवेशप्रसङ्गात् , न हि नैयायिकैः सर्वदा परोक्षं 10 किञ्चिज्ज्ञानमिष्यते। तत्परोक्षत्वे च कथम् ईश्वरस्य सर्वज्ञत्वम् ? ततोऽन्यस्याऽशेषार्थस्य ग्रह णात् तत्त्वम् ; इत्यप्ययुक्तम् ; ज्ञानस्याऽग्रहणे तेन अर्थग्रहणाऽयोगात् / नहि असंवेद्यमानाऽनुभवाद् अर्थोऽनुभूतो नाम ; आत्मान्तरप्रत्यक्षतोऽपि अर्थप्रत्यक्षताप्रसङ्गात, न खलु तत्र अस्वसं: . विदितत्वाद् अन्यद् अप्रत्यक्षताकारणमस्ति / यद् यत्र समवेतं तत् तत्र प्रत्यक्षताकारणम् न पुनः स्वसंविदितत्वम् ; इत्यपि मनोरथमात्रम् ; समवायाऽसिद्धौ समवेतत्वाऽसिद्धेः / सदाऽ 15 प्रमेयत्वाऽभ्युपगमे च ईश्वरज्ञानस्य सर्वदाऽसत्त्वप्रसङ्गः, यत् सर्वदाऽप्रमेयं न तत् कदाचित् सत् यथा खपुष्पम् , सर्वदाऽप्रमेयञ्च ईश्वरज्ञानमिति / ततः तस्य सत्त्वम् अर्थग्रहणञ्च इच्छता स्वसंविदितस्वभावत्वमभ्युपगन्तव्यम् , तद्वदन्यदपि / अथ हेतुविशेषणम् 'अस्मदादिज्ञानत्वे सति प्रमेयत्वात्' इति ; तर्हि साधनविकलो दृष्टान्तः, तथाभूतस्य हेतोः घटादिदृष्टान्तेऽसंभवादिति / यदप्युक्तम्-'अर्थग्रहणं बुद्धिश्चेतना' इत्यादि ; तदप्ययुक्तम् ; स्वसंविदितस्वभावाऽभावे 20 ज्ञानेऽर्थग्रहणस्यैवाऽसंभवात् / तद्धि तंत्र अर्थादुत्पत्तः, चेतनातो वा स्यात् ? तत्र यदि अर्था दुत्पत्ते नेऽर्थग्रहणमिष्यते ; तर्हि घटेऽपि तदिष्यताम चक्राद्यर्थात् तदुत्पत्तेरप्यविशेषात् / अथ चेतनातः ; ननु कुतो ज्ञानस्य चेतनासिद्धिः-अर्थग्रहणात् , चेतनात्मप्रभवत्वाद्वा ? अर्थग्रहणाचेत् ; अन्योन्याश्रयः-सिद्धे हि अर्थग्रहणे चेतनासिद्धिः, तत्सिद्धेश्च अर्थग्रहणसिद्धिरिति / अथ चेतनात्मप्रभवत्वात् / ननु आत्मनोऽपि कुतश्चेतनत्वं सिद्धयेत्-चेतनासमवायात् , स्वतो 25 वा ? यदि स्वतः ; ज्ञानस्यापि तथा तदस्तु विशेषाऽभावात् / अथ चेतनासमवायात् ; अयमपरोऽन्योन्याश्रयः-चेतनासमवायाद्धि आत्मा चेतनः, तत्प्रभवत्वाच्च बुद्धिश्चेतना इति / किञ्च, अर्थग्रहणं बुद्धिः' इत्यत्र किम् 'अर्थस्यैव ग्रहणं बुद्धिः' इत्यवधार्यते,किं वा अर्थस्यापि? १-मन्यत्रापि श्र० / 2 सर्वज्ञत्वम् / ३-द्धेः तथाऽप्र--७० / ४-स्वभावमीश्वरज्ञानमभ्युआ०। ५-न्यस्यापि श्र.। अस्मदादिज्ञानमपि / 6 पृ. 182 पं०४ / 7 "अर्थग्रहणत्वं हि ज्ञाने अर्थादुत्पत्तेः चेतनास्वरूपत्वतो वा भवेत् ?" स्या० रत्ना• पृ० 224 /