________________ लघी० श६] ज्ञानान्तरवेद्यज्ञानवादः 183 स्वाऽर्थयोः प्रकाशकं स्यात् ? अथ भिन्नौ; तत्रापि किं तौ स्वसंविदितौ, स्वाश्रयज्ञानविदितौ वा ? प्रथमपक्षे स्वसंविदितज्ञानत्रयप्रसङ्गः, तत्रापि प्रत्येकं स्वपरप्रकाशस्वभावद्वयात्मकत्वे स एव पर्यनुयोगः अनवस्था च / द्वितीयपक्षेऽपि स्व-परप्रकाशहेतुभूतयोः तयोर्यदि ज्ञानं तथाविधेन स्वभावद्वयेन प्रकाशकम ; तर्हि अनवस्था / तदप्रकाशकत्वे प्रमाणत्वाऽयोगः, तयोर्वा तत्स्वभावत्वविरोध इति / अत्र प्रतिविधीयते / यत्तावदुक्तम् -'प्रमेयत्वात्' इति साधनम् ; अतः किम् अस्मदादि ... . ज्ञानस्य ज्ञानान्तरवेद्यत्वं प्रसाध्यते, ज्ञानसामान्यस्य वा ? यदि ज्ञानान्तरवेद्यत्वनिराकरण ज्ञानसामान्यस्य ; तदा ईश्वरज्ञानेन अनेकान्तः / अथ अस्मपुरस्सरा ज्ञानस्य स्वसंवेदनसिद्धिः- . दादिज्ञानस्य ; तन्न ; अस्मदादिविशेषणस्य अत्राऽप्रतीयमा नत्वात् / हृन्निविष्टं तद् इति चेत् ; कथं कोशपानाहते अय- 10 मर्थः प्रतीयते ? अस्तु वा, तथापि तत् किं पक्षस्य विशेषणम् , हेतोर्वा ?. यदि पक्षस्य ; तदा ईश्वरज्ञानम् अपक्षोऽस्तु , हेतुस्तु तत्र प्रवर्तमानः केन निषिद्ध यते येन अनैकान्तिको न स्यात् ? किञ्च, ईश्वरज्ञानं स्वसंविदितत्वाद् अनेन व्यवच्छिद्यते, सर्वदा परोक्षत्वात् , सदाऽप्रमेयत्वाद्वा ? स्वसंविदितत्वाच्चेत् ; कुतस्तस्य तत्सिद्धिः-युक्तितः, अभ्युपगममात्राद्वा ? अभ्युपगममात्रात् तत्सिद्धौ सर्व सर्वस्य इष्टं सिद्धयेत् / अथ युक्तितः ; काऽत्र युक्तिः ? अर्थ- 15 ग्रहणात्मकत्वम् , ज्ञानत्वं वा ? द्वयमपि चेदम् अस्मदादिज्ञानेऽस्त्येव इत्युभयत्र स्वसंविदितत्वं सिद्धयेत् न वा क्वचिदपि अविशेषात् / नँनु च ईश्वरज्ञानस्य अस्मदादिज्ञानाद् विशिटत्वात् तत्रैव स्वसंविदितत्वं युक्तम् नान्यत्र, न हि विशिष्टे दृष्टं धर्मम् अविशिष्टेऽपि योजयन प्रेक्षावत्तां लभते ; इत्यप्यविचारितरमणीयम् ; ज्ञानत्वस्य अर्थग्रहणात्मकत्वस्य च ईश्वरज्ञाने विशिष्टे दृष्टस्य धर्मस्य अस्मदादिज्ञाने प्रतिषेधप्रसङ्गात् / ननु ज्ञानत्वस्य अर्थग्रहणात्मकत्वस्य 20 चाऽभावे कथं तत् ज्ञानं स्यात् "तस्य तत्स्वभावत्वात् ? इत्यन्यत्रापि समानम् , न हि स्वसंविदितत्वस्वभावस्याप्यभावे ज्ञानस्य ज्ञानता युक्ता;तस्यापि "तत्स्वभावत्वाऽविशेषात् / न हि ईश्वरज्ञाने ज्ञानत्व-अर्थग्रहणात्मकत्वाभ्यामिव स्वसंविदितत्वेनापि विना ज्ञानस्वभावता दृष्टा एवमन्यत्रापि। .. 1 तत्स्वभाव इति विरोध भां०, श्र० / २पृ० 18150 16 / ३-साध्येत श्र० / 4 “महेश्वरार्थज्ञानेन हेतोर्व्यभिचारात्" "प्रमाणपरी० पृ. 60 / “सुखादिनापि वेद्यत्वस्य व्यभिचारित्वमीश्वरज्ञानेन च।" न्यायवि० टी० पृ० 116 पू० / स्या० रत्ना० पृ० 222 / 5 हेतुस्तत्र भा० / ६-मप्यस्मदा-भां०, श्र०। ७“अस्मदादिज्ञानापेक्षया अर्थज्ञानस्य ज्ञानान्तरवेद्यत्वं प्रमेयत्वहेतुना साध्यते, ततो नेश्वरज्ञानेन व्यभिचारः तस्य अस्मदादिज्ञानाद् विशिष्टत्वात् / न हि विशिष्ट दृष्टं धर्ममविशिष्टेऽपि घटयन् प्रेक्षावत्तां लभते / " प्रमाणपरी० पृ. 60 / प्रमेयक० पृ० 34 उ० / स्या० रत्ना० पृ. 222 / 8 योजयत् आ०, श्र० / 9 लभ्यते भा०, श्र० / 10 तस्यैतत्स्व-भां० / 11 तत्स्वाभाव-आ० /