________________ 182 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० लभते; अशेषार्थग्राहित्वस्याऽपि अशेषज्ञानानां तद्वत् प्रसङ्गात् / नापि कालात्ययापदिष्टः ; प्रत्यक्षाऽऽगमाभ्यामबाधितविषयत्वात्। ननु स्वसंविदितस्वभावम् अर्थज्ञानं प्रत्यक्षत एव प्रतीयते, ततः प्रत्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्ट एवाऽयम् ; इत्यप्यसाम्प्रतम् ; ज्ञानस्य स्वसंविदितस्वभावत्वाऽसंभवात् , अर्थग्रहणस्वभावतयैवास्य व्यवस्थितत्वात् / " अर्थ५ ग्रहणं बुद्धिश्चेतनौ" [ ] इत्यभिधानात् / ग्रहणञ्चास्य एकात्मसमवेताऽनन्तर ज्ञानेनैव, न तु स्वतः / यद्येवम् अर्थ-ज्ञानयोः क्रमेणोत्पन्नयोः तथैवोपलम्भः स्यादिति चेत् ; न ; अनयोः क्रमभावेऽपि आशुवृत्त्या उत्पलपत्रशतच्छेदवद् यौगपद्याऽभिमानतो भेदेनाऽनुपलम्भसंभवात् / न च अर्थज्ञानस्य ज्ञानान्तरप्रत्यक्षत्वे तस्यापि अपरज्ञानप्रत्यक्षत्वप्रसङ्गाद् अन वस्था स्यादित्यभिधातव्यम् ; अर्थज्ञानस्य द्वितीयेन अस्यापि तृतीयेन ग्रहणाद् अर्थसिद्धेः 10 अपरज्ञानकल्पनाऽनर्थक्यतोऽनवस्थासंभवाऽभावात् / अर्थजिज्ञासायां हि अर्थे ज्ञानमुत्पद्यते ज्ञानजिज्ञासायां तु ज्ञाने, प्रतीतेरेवंविधत्वात्। ये तु स्वसंवेदनस्वभावं तद् अभ्युपगच्छन्ति ते प्रष्टव्याः-किं स्वेन संवेदनं स्वसंवेदनम् , स्वकीयेन वा ? यदि स्वकीयेन ; तदा सिद्धसाधनम् , स्वकीयेन अनन्तरोत्तरज्ञानेन प्राक्तन ज्ञानस्य संवेदनाऽभ्युपगमात् / अथ स्वेन आत्मनैव संवेदनं स्वसंवेदनम् ; तदयुक्तम् ; स्वा१५ त्मनि क्रियाविरोधात् , न हि सुतीक्ष्णोऽपि खड्गः आत्मानं छिनत्ति, सुशिक्षितोऽपि वा बटुः स्व स्कन्धमारोहति / तथा चेदमयुक्तम्-'ज्ञानं स्वप्रकाशात्मकम् अर्थप्रकाशकत्वात् प्रदीपवत्' इति / चक्षुरादिना अनेकान्तार्छ / स्वप्रकाशात्मकत्वञ्च बोधरूपत्वम् , भासुररूपसम्बन्धित्वं वा स्यात् ? प्रथमपक्षे साध्यविकलो दृष्टान्तः प्रदीपे बोधरूपत्वस्याऽसंभवात् / अथ भासुररूपसम्बन्धित्वम् ; तस्य ज्ञानेऽत्यन्ताऽसत्त्वात कथं साध्यता ? अन्यथा प्रत्यक्षबाधा। किञ्च ; किं येनैव आत्मना ज्ञानम् आत्मानं प्रकाशयति तेनैवाऽर्थम् , स्वभावान्तरेण वा ? यदि तेनैव ; कथं ज्ञानाऽर्थयोः भेदः अभिन्नस्वभावग्रहणग्राह्यत्वात् तदन्यतरस्वरूपवत् ? अथ स्वभावान्तरेण ; तदा तौ स्वभावौ ततोऽभिन्नौ, न वा ? यद्यभिन्नौ ; तत्रापि किं ताभ्यां ज्ञानम् अभिन्नम् , ज्ञानाद्वा तौ ? तत्राद्यविकल्पे तौ एव न ज्ञानम् , तस्य तौवाऽनुप्रवेशात् तत्स्वरूपवत् / द्वितीयविकल्पे तु ज्ञानमेव न तौ, तयोरत्रैवाऽनुप्रवेशात् , तथा च कथं ज्ञानं १प्रत्यक्ष एव भां०,श्र० / २-तत्वस्वभा-श्र०। 3 आप्तप० पृ० 9 / स्या० रत्ना० पृ० 224 / ४-स्था इत्य-श्र० / 5 “स्वात्मनि वृत्तिविरोधान्, न हि तदेव अमुल्यग्रं तेनैव अङ्गुल्यग्रेण स्पृश्यते, सैवाऽसिधारा तयैवाऽसिधारया छिद्यते।" स्फुटार्थ-अभिध पृ. 78 / ६-च्च प्रकाशा-आ०,भां०। 7 "तत्र यदि प्रकाशकत्वं बोधरूपत्वं विवक्षितं तदा साधनविकलमुदाहरणम् , प्रदोपे बोधरूपत्वस्यासंभवात् / अथ प्रकाशकत्वं भास्वररूपसम्बन्धित्वं तद्विज्ञाने नास्त्यतो ज्ञानान्तरस्य तद्विषयस्योत्पाद एव ज्ञानस्य परिच्छेद इति / " प्रश• व्यो० पृ. 529 / --