________________ 181 लघी० 116] ज्ञानान्तरवेद्यज्ञानवादः प्रवर्तकमेव ज्ञानमनुमीयते न निवर्त्तकम् / अथ प्रवृत्ति-निवृत्तीभ्यां ज्ञानमुपकल्प्यते ; तर्हि तयोरभावे उदासीनस्य उपेक्षमाणार्थविज्ञानं कथं कल्प्येत ? ___ अस्तु वा किञ्चिल्लिङ्गम् ; तथापि अगृहीतप्रतिबन्धं तत् न परोक्षां बुद्धिमनुमापयितुं समर्थम् ,सर्वत्राऽस्य गृहीतप्रतिबन्धस्य स्वसाध्याऽनुमापकत्वप्रतीतेः / प्रतिबन्धश्च लिङ्ग-लिङ्गिनोः अविनाभूतत्वेन प्रमाणप्रतिपन्नयोरेव भवति / न च ज्ञानम् , तेन चाऽविनाभूतं किञ्चिल्लिङ्ग 5 केनचित् प्रमाणेन प्रतिपन्नं यतः सम्बन्धग्रहणपुरस्सरमनुमानं प्रवर्तेत / ततोऽनुमानमिच्छता ज्ञानं प्रत्यक्षमभ्युपगन्तव्यम् / न च अपरोक्षस्य स्वयं |काशस्वभावस्य आत्मनः क्रिया नित्यपरोक्षा युक्ता ; तथाहि-याऽसौ स्वयं प्रकाशमानस्याऽऽत्मनः प्रकाशक्रिया सा नित्यपरोक्षा न भवति, प्रकाशक्रियात्वात् , प्रदीपादेः प्रभाभारक्रियावदिति / किञ्च, ज्ञानमुत्पद्यमानं स्वाऽनुभवेन तदनुभवव्यावृत्तं संवेद्यते, अर्थश्वास्य विषयभावमापन्न एव संवेद्यते 'अर्थमहं 10 जानामि' इति प्रतीतेः / नित्याऽनुमेयत्वे च ज्ञानस्य उभयमपि दुर्घटम् , अर्थो हि प्रकाशमानः सर्वान प्रति साधारणः इति ज्ञानस्य परोक्षत्वे 'मम प्रकाशते' इति निर्निबन्धना व्यवस्थितिः / तस्मादुक्तदोषेभ्यो बिभ्यता ज्ञानस्य परोक्षताऽऽग्रहग्रहाऽभिनिवेशं परित्यज्य स्वसंविद्रूपता अभ्युपर्गन्तव्या इति / ननु ज्ञानस्य स्वसंविदितत्वमयुक्तं ज्ञानान्तरवेद्यत्वस्यैवात्रोपपन्नत्वात् ; तथा च अनुमानम्- 15 ____ज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात् घादिवत् / न चाऽयमसिद्धो हेतुः ; 'ज्ञानं ज्ञानान्तरवेद्यं ___ पक्षे प्रवर्तमानत्वात् / नापि विरुद्धः; सपक्षे सत्त्वात् / नाप्यनैकान्तिकः ; प्रमेयत्वात्। इति वदता . नैयायिकस्य पूर्वपक्षः - पक्ष-सपक्षवद् विपक्षे प्रवृत्त्यभावात्। नापि ईश्वरज्ञानेन अनैकान्तिकः ; अस्मदादिज्ञानापेक्षया ज्ञानान्तरवेद्यत्वाऽभ्युपगमात् , ईश्वरज्ञानस्य च अस्मदादिज्ञानाद् विशिष्टत्वात् / न च विशिष्टे दृष्टं धर्मम् अविशिष्टेऽपि योजयन् प्रेक्षावत्तां 20 १-णार्थे वि-श्र० / २-पकप्र- आ०, भां० / ३-णत्वप्रति-श्र० / 4 प्रकाशस्यात्मनः भां० / प्रकाशस्य भा-श्र०। 5 ज्ञानमुत्पाद्य-आ०। ६-म्या इति आ० / 7 "प्रयोगस्तु विवादाध्यासिताः प्रत्ययान्तरेणैव वेद्याः प्रत्ययत्वात् / ये ये प्रत्ययाः ते सर्वे प्रत्ययान्तरवेद्याः यथा न प्रत्ययान्तरेणैव वेद्याः (2) / अविद्यमानस्यावभासे अतिप्रसङ्गात् ज्ञायमानस्यैवावभासोऽभ्युपेयः। तथा च विज्ञानस्य स्वसंवेदने तदेव तस्य कर्म क्रिया चेति विरुद्धमापद्येत / यथोक्तम्-अङ्गुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हति / स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति // इति / यत्प्रत्ययत्वं वस्तुभूतमविरोधेन व्याप्तं तद्विरुद्धविरोधदर्शनात् स्वसंवेदनान्निवर्तमानं प्रत्ययान्तरवेद्यत्वेन व्याप्यते इति प्रतिबन्धसिद्धिः / एवं प्रमेयत्वगुणत्वसत्त्वादयोऽपि प्रत्ययान्तरवेद्यत्वहेतवः प्रयोक्तव्याः। तथा च न स्वसंवेदनं ज्ञानमिति सिद्धम् / " विधिवि. न्यायकणि. पृ. 267 / "तथाहि-यदि स्वसंवेद्यमात्मान्तःकरणसंयोगादुपलभ्यं तदिष्टमेव / अथ तदेव ज्ञानं प्रमाणं प्रमेयं फलञ्चेति; तन्न; अन्यत्र त्रितयस्याभेदादर्शनात् , भेदे त्वनेक दण्डाद्युदाहरणम् / अतो न ज्ञाने करणकर्मणोरभेदः स्वसंवेद्यत्वम् , नापि क्रियाकर्मणोरिति / तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् / " प्रश० व्यो० पृ० 529 / 8 घटवत् श्र० /