________________ 180 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० पत्तिः / उभयधर्मपक्षे तु प्रमाण-प्रमेयव्यवहाराभावप्रसङ्गः द्वयोः प्रकाशधर्मतया तुल्यत्वात् / ज्ञानकृता हि अर्थस्य तत्परिच्छिद्यमानतया प्रमेयता, द्वयोश्च प्रकाशमानस्वरूपयोः तुल्यत्वे किं केन क्रियते ? प्रयोगः-यद् यतो येन वपुषा न व्यतिरिच्यते न तत् तस्य तथारूपत्वे व्या प्रियते यथा घटो घटान्तरस्य पृथुबुनोदराकारतया, न व्यतिरिच्यते च ज्ञानम् अर्थात् 5 प्रकाशरूपतया इति / स्वातन्त्र्ये च प्रकाशतायाः ज्ञानापेक्षाऽनुपपत्तिः, स्वातन्त्र्यस्य पारतन्त्र्य परिहारेणाऽवस्थितत्वात् / यद् यत्र स्वतन्त्रं न कर्तृत्र ( न तत्तत्र ) परमपेक्षते यथा राजा स्वकार्ये, स्वतन्त्रा च अर्थानां प्रकाशमानता इति / न च ज्ञानाऽनपेक्षाऽसौ प्रतीयते / किञ्च, इयं प्रकाशमानता अर्थादभिन्ना, भिन्ना वा स्यात् ? यद्यभिन्ना ; तदा अर्थ एव सा, तस्य च सदा सत्त्वात् तस्या अपि सदा सत्त्वप्रसङ्गात् सर्वं जगत् सर्वदा सर्वज्ञमकि१० चिशं वा स्यात् / अथ भिन्ना ; तदाऽसौ तत्र सम्बद्धा, असम्बद्धा वा ? यद्यसम्बद्धा ; कथम् 'अर्थस्य' इति व्यपदिश्येत ? यद् येनाऽसम्बद्धं न तत् 'तस्य' इति व्यपदिश्यते यथा सह्यस्य विन्ध्यः, अर्थेनाऽसम्बद्धा च प्रकाशमानता इति / अथ सम्बद्धा ; किं तादात्म्येन, तदुत्पत्त्या, संयोगेन वा ? न तावत्तादात्म्येन ; भेदपक्षस्य अङ्गीकृतत्वात् , भेद-तादात्म्ययोश्च अन्योन्यं विरोधात् / नापि तदुत्पत्त्या ; यतः अर्थात् किं प्रकाशता उत्पद्यते, ततो वाऽर्थः ? 15 न तावदर्थात् प्रकाशता उत्पद्यते ; ज्ञानात् तदुत्पत्तिप्रतिज्ञानात् / नापि प्रकाशतातोऽर्थः ; स्वकारणकलापात् प्रकाशतातः पूर्वमपि अस्योत्पन्नत्वात् / नापि संयोगेन प्रकाशता अर्थे सम्बद्धा , तस्य द्रव्यंवृत्तित्वेन अद्रव्यरूपायां प्रकाशतायां संभवाऽभावात् / अस्तु वा केनचित् सम्बन्धेन सम्बद्धाऽसौ ; तथापि अर्थमात्रेण असौ सम्बद्धा, अर्थविशेषेण वा ? अर्थमात्रेण सम्बन्धे, स एव अशेषस्य जगतोऽशेषज्ञत्वस्य अकिञ्चिज्ज्ञत्वस्य वा प्रसङ्गः / 20 'घटस्य आसीदत्र प्रकाशता, इदानीं तु पटस्य' इति प्रतिनियतदेश-कालविशिष्टे प्रतिनियतेऽ थे तद्वयपदेशाऽभावश्च स्यात् / अथ अर्थविशेषेण ; ननु कोऽयम् अर्थस्य विशेषः-ज्ञानजनकत्वम् , आलम्बनत्वं वा ? तत्राद्यविकल्पोऽयुक्तः ; ज्ञानजनकत्वस्य * अर्थे निराकरिष्यमाणत्वात् / द्वितीयविकल्पेऽप्यन्योन्याश्नयः-अर्थस्य आलम्बनत्वसिद्धौ हि प्रकाशतायाः अर्थविशेष सम्बन्धसिद्धिः, तत्सिद्धौ च अर्थस्य आलम्बनत्वसिद्धिरिति / तन्न अतिशयोऽपि लिङ्गम् / नापि तत्सम्बन्धः ; तस्य सम्बन्धिज्ञानपूर्वकत्वात् , सम्बन्धिनौ चाऽत्र इन्द्रियाऽर्थों ज्ञानीऽौँ अतिशयोऽौँ वा न ज्ञातुं शक्यते, यथा चैषां ज्ञातुमशक्तिः तथा प्रतिपादितमेव / अथ प्रवृत्त्या ज्ञानमनुमीयतेः ; तर्हि निवर्त्तकस्य ज्ञानस्य कथं प्रतिपत्तिः स्यात् ? प्रवृत्त्या हि १-दिश्यते आ०, भां० / २-व्यप्राप्तित्वेन श्र० / 3 प्रकाशमानतायां आ॰, भां० / ४-तोऽशेषज्ञस्य किंचि-भां० ।-तोविशेषज्ञत्व-श्र० 1५ज्ञानस्य जनकत्वम आं•।६-विकल्पोप्यन्यो-भा. / -विकल्पेन्योन्या- आ.। ७-यार्थाः 20 / ८-नार्थाः श्र० / ९-यार्थाः श्र.।