________________ 177 लघी० श६] स्वसंवेदनवादः लरूपतया प्रतीयमानयोः आत्म-फलज्ञानयोः कर्तृ-फलरूपतैव स्यान्न प्रत्यक्षता इत्यप्यस्तु तुल्याक्षेपसमाधानत्वात् / किञ्च, सकलप्रमाणापेक्षया ज्ञानस्य कर्मत्वाऽप्रसिद्धिः, स्वरूपाऽपेक्षया वा ? यदि सकलप्रमाणापेक्षया; तदा सत्त्वमप्यस्य अतिदुर्लभम् ; तथाहि-यत् सर्वप्रमाणापेक्षया कर्म न भवति न तत् सत् यथा खरविषाणम् , सर्वप्रमाणापेक्षया न भवति च कर्म विवक्षितं प्रमाणाभिमतं ज्ञानमिति / एवं प्रमाणान्तरेष्वप्ययमेव न्यायः इत्यखिलप्रमाणानामसत्त्वप्रसङ्गे प्रमेये कः समाश्वासः प्रमाणनिबन्धनत्वात् प्रमेयव्यवस्थायाः ? इति पूंत्कुर्वतोऽपि द्विजस्य सकलशून्यतापातः स्यात् , तं परिजिहीर्षता ज्ञानस्य अप्रत्यक्षत्वेऽपि प्रमाणान्तरात् प्रतीतिरभ्युपगन्तव्या इति 'कर्मत्वेनाऽप्रतीयमानत्वात्' इत्यस्याऽसिद्धत्वम् / अस्तु नाम अस्य प्रमाणान्तरात् प्रतीयमानत्वं न तु कर्मत्वम् ; इति चाऽयुक्तम् ; प्रतीयमानस्य अकर्मत्वविरोधात् , प्रतीयमानत्वं 10 हि ग्राह्यत्वमुच्यते, तदेव च कर्मत्वमिति / अथ स्वरूपापेक्षया कर्मत्वाऽप्रसिद्धिः ; तदप्यनुभवविरुद्धत्वादयुक्तम् ; सुप्रसिद्धो हि 'घटनाहिज्ञानविशिष्टमात्मानं स्वतोऽहमनुभवामि' इत्यनुभवः, तत्प्रसिद्धत्वाच्च ज्ञाने कर्मत्वप्रसिद्धिरिति (द्धेरिति) कथं स्वरूपापेक्षया तत्र कर्मत्वस्या प्रसिद्धिः अनुभवेन न विरुद्धयते ? प्रतीतिसिद्धस्याप्यत्र प्रत्यक्षत्वस्य कर्मत्वस्य चाऽपह्नवे अर्थे तत्सद्भावे कः समाश्वासः इति 15 कथं तस्य व्यतिरेकदृष्टान्तता स्यात् ? प्रसङ्ग-विपर्ययाभ्याञ्चास्य प्रत्यक्षीसिद्धिः ; तथा हि'यत् परोक्षं न तत् स्वोपधानेन अन्यमुपलम्भयति यथा इन्द्रियम् ,परोक्षञ्च भवद्भिः परिकल्पितं . ज्ञानम्' इति प्रसङ्गः / विपर्ययस्तु-' यत् स्वाकारोपहितम् आकारान्तरमुपलम्भयति तत् परोक्षं न भवति प्रत्यक्षं वा भवति, यथा प्रदीपाद्यालोकः, उपलम्भयति च ज्ञानं स्वाकारोपहितं मीलादिकम्' इति / किञ्च, बुद्धेः स्वसंवेदनप्रत्यक्षाऽगोचरत्वे कुतः तत्सत्त्वं सिद्धयेत् ? प्रमाणान्तराच्चेत्-किं प्रत्यक्षरूपात् , अनुमानरूपाद्वा ? न तावत् प्रत्यक्षरूपात् ; मतान्तरानुप्रवेशप्रसङ्गात् / नाप्यनुमानरूपात ; तस्य अत्रोत्पत्तेरेवाऽसंभवात् / तस्य खलु उत्पत्तिः लिङ्गाद् भवति, न च ज्ञानेन 1 सत्त्वमस्य भां, श्र० / 2 फुत्कु-श्र०। 3 " साक्षात् प्रतीयमानत्वं हि विषयीक्रियमाणत्वं विषयत्वमेव च कर्मत्वम् / " तत्त्वार्थश्लो. पृ० 45 / प्रमेयक० पृ० 32 पू० / 4 कर्मत्वस्य कथं आ० / कर्मत्वाप्रसिद्धिरिति कथं भां० / 5 प्रत्यक्षस्य आ०, भा० / 6 कः कथं समा-भां० / 7 “प्रसङ्गश्च नाम परप्रसिद्धन परस्य अनिष्टापादनमुच्यते / " न्यायमं० पृ० 102 / “साध्यसाधनयोर्व्याप्यव्यापकभावसिद्धौ हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते तत्प्रसङ्गसाधनम् / व्यापकनिवृत्ती चावश्यम्भाविनी व्याप्यनिवृत्तिः स विपर्ययः / " प्रमेयक० पृ० 69 पू० / ८-ताप्रसिद्धः श्रः। 9 परोक्षं न भवति यथा भां० / 23