________________ 178 लघोयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरिक अविनाभूतं किञ्चिल्लिङ्ग संभवति / तद्धि इन्द्रियम् , अर्थः, तदतिशयः, तत्सम्बन्धः, तत्र प्रवृत्तिर्वा भवेत् ? यदि इन्द्रियम् ; तदा तदपि किं निर्विशिष्टम् , विशिष्टं वा तद्धेतुः स्यात् ? यदि निर्विशिष्टम् ; तर्हि सुप्त-मत्त-मूर्छिता-ऽन्यत्रगतचित्तावस्थास्वपि बुद्धः अनुमानप्रसङ्गः इन्द्रियसद्भावस्य तत्राप्यविशेषात् / अथ विशिष्टमिन्द्रियं तद्धेतः, तच्चात्र नास्ति तेनाऽयमदोषः; ननु केन विशेषेण इन्द्रियस्य विशिष्टत्वम्-अनावरणत्वेन, प्रगुणमनःसहकृतत्वेन वा ? न तावदनावरणत्वेन ; अस्य प्रत्यक्षतः प्रत्येतुमशक्यत्वात् , अप्रतिपन्नस्य च हेतुविशेषणत्वे विशेषणाऽ सिद्धो हेतुः स्यात् / विशेष्यासिद्धश्च ; तथाहि-शक्तिः इन्द्रियम् , शक्तिश्च अध्यक्षतः प्रत्येतुमशक्या इति / विषयपरिच्छित्त्या अनावरणेन्द्रियसिद्धौ अन्योन्याश्रयः ; तथाहि-विषयपरि च्छित्तिः बुद्धिः, तसिद्धौ अनावरणत्वोपेतमिन्द्रियं सिद्धयति, तथाभूतेन्द्रियसिद्धौ च विषयप१० रिच्छित्तिः सिद्ध यतीति / एतेन प्रगुणमनःसहकृतत्वमपि प्रत्याख्यातम् ; मनसोऽतीन्द्रियस्य प्रगुणत्वधर्मोपेतस्य विषयपरिच्छित्तेरन्यतः प्रत्येतुमशक्यत्वाऽविशेषात् , तत्र च इतरेतराश्रयदोषाऽनुषङ्गात् / अथ अर्थो लिङ्गम् , सोऽपि किं सत्तामात्रेण लिङ्गम् , ज्ञातत्वविशेषणविशिष्टो वा ? प्रथमपक्षोऽनुपपन्नः ; तथाभूतस्यास्य व्यभिचारात् / न खलु यत्र यदा सत्ताविशिष्टोऽर्थः तत्र तदा 15 बुद्धिः अनुमातुं शक्या ; तामन्तरेणाऽपि अस्य संभवतः अविनाभावाऽभावात्। यस्य तु येन अविनाभावः न तत् तदभावे संभवति यथाऽग्नेरभावे धूमः, संभवति च बुद्धरभावेऽप्यर्थ इति / सत्तामात्रेण चाऽनुमापकत्वे सर्वार्थसत्तायाः सर्वपुरुषान् प्रति अविशिष्टत्वात् सर्वबुद्धयनुमानं स्यात् / अथ एतदोषाद् बिभ्यता हातेन अर्थो विशिष्यते 'ज्ञातोऽर्थः तत्कल्पकः' इति ; अत्रापि ज्ञातत्वेन अर्थो ज्ञातः, अज्ञातो वा तत्कल्पकः स्यात् ? अज्ञातस्य कल्पकत्वे सर्व 20 सर्वस्य कल्पकं स्याद् अविशेषात् / अथ ज्ञातः ; किं तत एव ज्ञानात् , तदन्तराद्वा ? तत एक ज्ञप्तौ अन्योन्याश्रयः-सिद्ध हि ज्ञातत्वविशिष्टेऽर्थे ततो ज्ञानसिद्धिः, तत्सिद्धौ च अर्थस्य ज्ञातत्वसिद्धिरिति / ज्ञानान्तरात्तज्ज्ञप्तौ चाऽनवस्था / न च अज्ञाते जाते ज्ञातविशिष्टताऽर्थस्य घटते; तथाहि-यो यद्विशेषणपूर्वकः प्रत्ययः स तस्मिन् विशेषणे ज्ञाते सत्येव प्रादुर्भवति, यथा दण्ड विशेषणपूर्वको ‘दण्डी' इति प्रत्ययः, ज्ञात-विशेषणपूर्वकश्च 'ज्ञातोऽर्थः' इति प्रत्ययः, तस्मात् 25 हात-विशेषगे ज्ञाते सत्येव उपपद्यत इति / तज्ज्ञप्तौ च स एव परमतप्रवेशः अनवस्था च / न च ज्ञातत्वविशिष्टस्याऽर्थस्य ज्ञानेन विनाऽनुपपद्यमानत्वात् ज्ञानकल्पकत्वमित्यभिधातव्यम् ; १“वषयेन्द्रियविज्ञानमनस्कारादिलक्षणः / अहेतुरात्मसंवित्तेरसिद्धिय॑भिचारतः // 16 // " न्यायवि० पृ० 108 / “तद्धि अर्थज्ञप्तिरिन्द्रियाथों तत्सहकारिप्रगुणं मनो वा ?" प्रमेयक० पृ. 32 उ० / स्या. रत्ना. पृ. 216 / 2 ज्ञातत्वज्ञानविशेषण-भां० / ज्ञातत्वज्ञानविशेषणविशेषे वा श्र० / 3 ज्ञानेन श्र.। 4 विशेषणीभूते। ज्ञाने भ०, श्र०। 5 ज्ञानवि-भां०। ६-हि यद्वि-भां०। 7 ज्ञानवि-भां., श्र.। 8 ज्ञान-भां०, 0 / 9 नैयायिकमत /